अवयव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयवः, पुं, (अवयौति इति यु मिश्रणे + पचाद्यच् ।) अङ्गं । इत्यमरः ॥ (“स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलं” । इति अमरुशतके । उपकरणं । अंशः । एकदेशः । “तेषामवयवान् सूक्ष्मान् षण्णामप्यमितौजसां” । इति मनुसंहितायां । न्यायमते आरम्भकद्रव्यञ्च, तत् उपादानकारणतया च व्यवह्रियते यदुक्तं, -- “अनित्या तु तदन्या स्यात् सैवावयवयोगिनी” । इति भाषापरिच्छेदे । प्रतिज्ञाहेतूदाहरणोप- नयनिगमान्यनुमानावयवाश्च ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयव पुं।

देहावयवः

समानार्थक:अङ्ग,प्रतीक,अवयव,अपघन

2।6।70।1।3

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्. गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः॥

 : गर्भवेष्टनचर्मः, ग्रीवा, अन्त्रम्, स्नायुः, अस्थिः, पादाग्रम्, पादग्रन्थी, पादपश्चाद्भागः, जङ्घा, जानूरुसन्धिः, जानूपरिभागः, ऊरुसन्धिः, नाभ्यधोभागः, कटीफलकः, कटिः, स्त्रीकट्याः_पश्चाद्भागः, स्त्रीकट्याः_अग्रभागः, स्त्रीयोनिः, पुरुषलिङ्गः, अण्डकोशः, जठरम्, वक्षोजः, स्तनाग्रः, अङ्कः, उरस्, भुजशिरः, अंसकक्षसन्धिः, कक्षः, भुजः, कूर्परः, कूर्परोपरिभागः, कूर्परयोरधः_मणिबन्धपर्यन्तभागः, करबहिर्भागः, अङ्गुली, नखः, स्वे_स्वे_पार्श्वे_प्रसारितबाहुमध्यम्, ग्रीवाग्रभागः, ग्रीवायामुन्नतभागः, वदनम्, ओष्ठाधोभागः, कपोलः, कपोलाधोभागः, दन्तः, तालुः, ओष्ठप्रान्तः, भालः, नेत्रोपरिभागस्थरोमराजिः, भ्रूमध्यम्, नेत्रकनीनिका, नेत्रप्रान्तः, शिरः, रोमः, ललाटास्थिः, अन्तर्जठरम्, रसरक्तादिः, अधोजिह्विका, अवयवविशेषः, नेत्रच्छदः, स्त्रीस्तनम्, वरस्त्रियाः_श्रोणी

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयव¦ पु॰ अवयूयते कार्य्यद्रव्येण संबध्यते अव + यु--कर्मणिअप।

१ द्रव्यारम्भकेद्रव्ये
“यथा परमाणुः द्व्यणुकं द्व्यणु-कस्त्रसरेणुमारभते इत्यादिक्रमेण अन्त्यावयविपर्य्यन्तानि स-र्व्वाणि द्रव्याष्णि स्वाश्रिततया अवयविद्रव्यान्तरमारभन्ते
“द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्” वै॰ सू॰उक्तेः। अन्त्यावयविविभुद्रव्याणि विहाय द्रव्याणां सजाती-यद्रव्यान्तरारम्भकत्वं तदर्थः अन्त्यावयवी नित्यद्रव्य च नकस्यचिदारम्भकम्। आरम्भकद्रव्ये च द्रव्यान्तरस्य समवाये-नाऽवस्थित्याऽवयरत्वम्। आरम्भकद्रव्यञ्च उपादा-नकारणतया समवायिकारणतया च व्यवह्रियतेअधिकमवयविशब्दे बक्ष्यते
“अनित्या च तदन्या स्यात्सैवावयवयोगिनी” भाषा॰। अवच्छिन्नपरिमाणवत्त्वम् अव-[Page0432-b+ 38] यवत्वमिति केचित् प्रतिपेदिरे तन्न सम्यक, घटादौ अवच्छिन्नपरिमाणवत्त्वेन तत्रातिव्याप्तेः किन्तु द्रव्यारम्भकद्रव्यत्व-मेवावयवत्वम्। यु अमिश्रणे अप्।

२ देहे तस्यान्त्यावयवि-तया द्रव्यान्तरानारम्भकत्वेन इतरद्रव्यसमवायशून्यत्वात्तथात्वम्

३ हस्तादिषु देहावयवत्वात्तेषान्तथात्वम्। ते चप्राधान्येन पञ्च सुश्रुते दर्शिताः

७२ पृष्ठे अङ्गशब्देउक्ताः। अङ्गप्रत्यङ्गानि च सूक्ष्मरूपेण गर्भे एव उत्पद्यन्तेक्रमशो विवर्द्धमानानि दृश्यन्ते यथोक्तं सुश्रुते
“सर्व्वाङ्गप्रत्य-ङ्गानि युगवत् सम्भवन्तीत्याह धन्वन्तरिः गर्भस्य सूक्ष्म-त्वान्नोपलभ्यन्ते वशाङ्कुरवच्चूतफलवच्च तद्यथा चूतफलेपरिपक्वे केशरमासांस्थिमज्जानः प्रत्यक् दृश्यन्ते कालप्रक-र्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात्। तेषांसूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति एतेनैववंशाङ्कुरोऽपि व्याख्यातः एवं गर्भस्य तारुण्ये सर्व्वेष्व-ङ्गेषु सत्स्वपि सौक्ष्म्यात्तदनुपलब्धिः। तान्येव कालप्रकर्षात् प्रव्यक्तानि भवन्ति”। अधिकं गर्भशब्दे वक्ष्यते।
“तृतीये तु मास्यङ्गैरिन्द्रियैश्च संयुक्तो भवतीत्याद्दुक्तिस्तुव्यक्ताङ्गतापरा।

४ समुदायस्य एकदेशे
“पदे न वर्ण्णाविद्यन्तेवर्ण्णेष्ववयवा न च” भर्त्तृहरिः
“क्तेनाहोरात्रावयवाः” पा॰।
“क्रियाहि नामेयमत्यन्तापरिदृष्टा पूर्व्वापरीभूतावयवा नशक्यते पिण्डीभूता निदर्शयितुम्” फ॰ भा॰
“गुणभूतैरव-यवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रियेतिव्यवदिश्यते” वाक्यप॰। एकदेशाभिप्रायेणैव नास्तिका-दीनां मते परमाण्वादौ अवयवव्यवहारः तैः परमाणुपुञ्जस्यैव घटादिरूपतास्वीकारात्। न्यायादिमतसिद्धपरार्थानुमानसाधनेषु

५ वाक्येषु च। ते चायववाः पञ्चइति बहवः त्रय इत्यन्ये। यथा प्रतिज्ञाहेतूदाहरणोप-नयनिगमरूपाः पञ्च, प्रतिज्ञाहेतूदाहरणरूपाः हेतूदाहरणोपनयरूपा वा मतभेदेन त्रयः। यथा पर्ब्बतो वह्निमात्, धूमात्,योयोधूमवान् स वह्निमान् यथा महानसम्, वह्निव्याप्योधूमोधूमवांश्चायम् तस्माद्वह्निमान्। प्रतिज्ञादीनां लक्षणानि चतत्तच्छब्देवक्ष्यन्ते उपचारात् तत्प्रतिप्रतिपादके चिन्तामणि-कृते अनुमानखण्डान्तर्गते

६ ग्रग्थे।

७ उपकरणमात्रे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयव¦ m. (-वः)
1. A limb, a member.
2. A part, a portion.
3. Division of a logical argument or syllogism. E. अव, यु to join, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयवः [avayavḥ], [अवयूयते कार्यद्रव्येण संबध्यते, अव-यु-कर्मणि-अप्]

limb (of the body); मुखावयवलूनां ताम् R.12.43, Amaru. 45,51; a member (in general); कस्मिंश्चिदपि जीवति नन्दान्व- यावयेव Mu.1.

A part, portion (as of a whole); पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च Bhartṛi; द्रव्याणां केनचिदवयवेन Dk. 61; क्तेनाहोरात्रावयवाः P.II.1.45; II.1.46.

A member or a component part of a logical argument or syllogism, (these are five: प्रतिज्ञा, हेतु, उदाहरण, उपनय and निगमन).

The body.

A component, constituent, ingredient (in general), as of a compound &c.

A means (साधन, उपकरण). -Comp. -अर्थः The meaning of the component parts of a word. -प्रसिद्धिः Denotation of the parts, etymological signification, न चावयवप्रसिद्धया समुदायप्रसिद्धिर्बाध्यते इत्युक्तम् । ŚB. of MS.6.8.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवयव/ अव-यव etc. See. अव-यु.

अवयव/ अव-यव m. ( ifc. f( आ). )a limb , member , part , portion Pa1n2. etc.

अवयव/ अव-यव m. a member or component part of a logical argument or syllogism Nya1yad. etc.

"https://sa.wiktionary.org/w/index.php?title=अवयव&oldid=489071" इत्यस्माद् प्रतिप्राप्तम्