अवर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरः, त्रि, (न व्रियते इति वृञ्वरणे + ग्रहवृ- द्रिति अप् ।) चरमः । इति मेदिनी । कनिष्ठः । अश्रेष्ठः । यथा, -- “श्रीर्नेशेन विना शम्भुः पृथग्विश्वेन तत्पुनः । न नाना शम्भुना रामाद्वर्षेणाधोक्षजोऽवरः” ॥ इति मुग्धबोधव्याकरणे वोपदेवः ॥ निकृष्टः । यथा, -- “दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः” ॥ इति श्रीभगवद्गीतायां २ अध्याये ४९ श्लोकः ॥

अवरम्, क्ली, (वृ + अप् ततो नञ्समासः ।) गजा- न्त्यजङ्घादिदेशः । इत्यमरमेदिन्यौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर¦ पूजयां कण्ड्वा॰ प॰ सक॰ सेट। अवर्य्यति पूजतयीत्यर्थः।

अवर¦ त्रि॰ वृ--षा॰ अप् न॰ त॰।

१ चरमे,

२ अधमे,

३ कार्य्ये च। पश्चाद्वर्त्तिनि

५ देशे

६ काले पु॰

७ दिशि स्त्री

८ तद्वर्त्तिनि त्रि॰। हस्तिजङ्घायाः

९ पश्चाद्देशे न॰।
“दूरेणह्यवरं कर्म्मं बुद्धियोगाद्धनञ्जय” गी॰ अस्य व्यवस्थावाचित्वेसर्व्वनामकार्य्यम् ङसिङ्येस्तु वा।
“श्रद्धधानः परांविद्यामाददीतावरादपि” मनुः अवरस्मादिति च। व्यवस्था चदेशकृता कालकृता वुद्धिकल्पिता च तत्र देशकृतायदवरं कौशाम्ब्याः। कालकृता यदवरमाग्रहायण्याः। वुद्धिकल्पिता अवरादपीतिमानवे। मासेनावरः मासावरःइत्यादौ समासे विग्रहवाक्ये च न सर्व्वनामकार्य्यं मासा-वराय इत्यादि। च
“इषुमात्रावरंस्थण्डिलमुपलिप्य” गृ॰सू॰।

५ त॰। अत्यन्तश्रेष्ठे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर¦ mfn. (-रः-रा-रं)
1. Posterior, hinder, last.
2. Younger.
3. Inferior. n. (-रं) The hind thigh of an elephant. f. (-रा) A name of DURGA
4. E. अ neg. and वर preferable; not the best, or than which nothing is better.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर [avara], a. [वृ-बा˚ अप् न. त]

(a) Younger (in years); मासेनावरः = मासावरः Sk. (b) Later; Posterior hinder (in time or space); दक्षौ विवस्वानवरः Rām.; पूर्वजे- नावरः पुत्रौ ज्येष्ठो राज्ये$भिषिच्यते Rām.; यदवरं कौशाम्ब्याः, यदवरमाग्रहायण्याः P.III.3.136-7 sk.; रामाद्वर्षेणाधोक्षजो$वरः Bop.

Following, succeeding; जरावराः (शब्दाः) Ak., अवरः श्रद्धयोपेतः Bhāg.4.18.4. चतुरो$वरान् Ms.3.33.

Below, under, lower, inferior, less; वर्णावरो भ्राता M.1.

Mean, unimportant, worst, lowest (opp. उत्तम); अव्यङ्ग्यमवरं स्मृतम् K. P.1; दूरेण ह्यवरं कर्म बुद्धियोगाद्- धनञ्जय Bg.2.49; श्रद्दधानं शुभां विद्यामाददीतावरादपि Ms. 2.238.

Last (opp. प्रथम); सामान्यमेषां प्रथमावरत्वम् Ku. 7.44.

Least; usually as the last member of comp. with numerals; त्र्यवरैः साक्षिभिर्भाव्यः Ms.8.6,3.187; 11.8,12.11; त्र्यवरा परिषद् ज्ञेया 112; Y.2.69.

Western.

Nearer, next.

Most excellent (अत्यन्त- श्रेष्ठ).

रः A country behind.

Time gone.

रा A Direction.

N. of Durgā. -रम् The hind thigh of an elephant (also ˚ रा).

Comp. अर्धः the least part, the minimum.

the last half.

the hinder part of the body. (-र्धम्) ind. in a certain succession of parts, successively. ˚तः ind. from below. -अर्ध्य a. [अवरार्धे भवः यत्]

being or on the lower or near side.

belonging to the last half.

beginning from below.

defective (न्यून). (-र्ध्यम्) the least or smallest part. -अवर a. lowest, most inferior of all; न हि प्रकृष्टान् प्रेष्यांस्तु प्रेषयत्यवरावरान् Rām. -उक्त a. named last. -ज n.

younger, junior, born afterwards Śi.14.74.

of a low birth, inferior.

(जः) a younger brother; भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् Mb.14.72.14; R.11.54; 14.11,36.

a Sūdra. (-जा) a younger sister; विदर्भ- राजावरजा R.6.58.84; 12.32. -परम् ind. one after (upon) another; यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयो$वरपरं श्रिताः Av. 11.3.2. -पुरुषाः (pl.) one's descendants. -वर्ण a. belonging to a low caste or tribe.

(र्णः) a Sūdra, a man of the fourth tribe.

the last or fourth tribe; स्पर्शेनावरवर्णजः (हन्ति) Ms.3.241. ब्राह्मणान् बाधमानं तु कामा- दवरवर्णजम् (हन्यात्) 9.248. -वर्णक, -वर्णजः a Sūdra.-व्रत a. having no vow (हीनव्रत or अधमव्रत). (-तः) [अवरम् अत्यन्तश्रेष्ठं व्रतमस्य]

the Sun.

a kind of tree (Arka). -शैलः [अवरः पश्चाद्वर्ति शैलः] the western mountain (behind which the sun is supposed to set).

अवरम् [avaram], 1 A. To leave off, cease (only in p. p.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर mf( आ)n. (fr. 2. अव) , below inferior RV. AV. VS.

अवर mf( आ)n. low , mean , unimportant of small value S3Br. Up. Mn. etc.

अवर mf( आ)n. posterior , hinder , later , last , younger RV. etc.

अवर mf( आ)n. nearer RV. AV.

अवर mf( आ)n. western S3Br.

अवर mf( आ)n. preceding (with abl. , opposed to पर) S3Br. RPra1t.

अवर n. ifc. ( f( आ). ) the least , the lowest degree , lowest sum(See. कार्षापणा-वर, त्रिरात्रा-वर, त्र्य्-अवर, दशा-वर, संवत्सरा-वर) ; the hind thigh of an elephant L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर वि.
निमन् श्रेणी का (व्रीहि-धान्य), जिसका प्रयोग पाक यज्ञ में नहीं किया जाता, आप.गृ.सू. 7.3।

"https://sa.wiktionary.org/w/index.php?title=अवर&oldid=489074" इत्यस्माद् प्रतिप्राप्तम्