अवरजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवरजः, पुं, (अवर + जन् + ड ।) कनिष्ठभ्राता । इत्यमरसिंहः ॥ (“अस्य चावरजं विद्धि भ्रातरं मां तु लक्ष्मणम्” । इति रामायणे । हीनवंशजातः । “द्वौ शूरावरजौ धीरवित्रपाख्यौ निजाख्यया” । इति राजतरङ्गिण्यां ॥ शूद्रः । “यदि स्त्री यद्यवरजः श्रेयः किञ्चित् समाचरेत् । तत्सर्व्वमाचरेत् युक्तो यत्र वास्य रमेन्मनः” ॥ इति मानवे ।)

"https://sa.wiktionary.org/w/index.php?title=अवरजः&oldid=113893" इत्यस्माद् प्रतिप्राप्तम्