अवरोह
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोहः, पुं, (अव + रुह् + भावे घञ् ।) अवतरणं । आरोहणं । (कर्त्तरि संज्ञायां घञ् ।) लतोद्गमः । इति मेदिनी ॥ वृक्षमूलादग्रपर्य्यन्तं गता लता । शाखाशिफा । इत्यमरः । वोया नामना इति भाषा ॥ (“सुदूरमथ गत्वा तौ भ्रातरौ रामलक्ष्मणौ । अवरोहशताकीर्णं वटमासाद्य तस्थतुः” ॥ इति रामायणे ।) स्वर्गः । इति त्रिकाण्डशेषः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोह पुं।
शाखामूलम्
समानार्थक:अवरोह
2।4।11।2।1
समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥
पदार्थ-विभागः : अवयवः
अवरोह पुं।
वृक्षमूलादग्रपर्यन्तं_गता_लता
समानार्थक:अवरोह
2।4।11।2।1
समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोह¦ पु॰ अव + रुह--घञ्।
१ अवतरणे, (नामा) ऊर्द्ध्व-देशान्निम्नदेशगमने। कर्त्तरि संज्ञायां घ। तरोर्मूला-दग्रपर्य्यन्तमारूढायां
२ गुडूच्यादिलतायाम्।
३ अपादानेघञ्। चन्द्रादिलोके स्वर्गे, तत्रो हि भोगावसानेसर्ब्बेऽवतरन्ति। तत्र देहिनां चन्द्रलोकादवरोह-प्रकारस्तावदुक्तः शा॰ सूत्रे तद्भाष्ये च यथा
“कृतात्यये-ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च” शा॰ सू॰।
“इष्टादिकारिणां धूमादिवर्त्मना चन्द्रमण्डलमारूढानांततः प्रत्यवरोह आम्नायते
“तस्मिन् यावत्सम्पातमुषित्वा-ऽथैतमेवाध्वानं पुनर्निवर्त्तन्ते यथेत” मित्यारभ्य यावत्
“रम-णीयचरणाब्राह्मणादियोनिभावमापद्यन्तेकपूयचरणाः श्वा-दियोनिमिति”। तत्रेदं विचार्य्यते किं निरनुशया भुक्तकृत्स्नकर्म्माणोऽवरोहन्ति? आहोस्वित् सानुशयाः? इति। किं तावत्प्राप्तं निरनुशया इति। कुतः? यावत्सम्पातमितिविशेष-णात्। सम्पातशब्देनात्र कर्म्माशय उच्यते सम्पतत्यनेना-स्माल्लोकादमुं लोकं फलभोगायेति। यावत्सम्पातमुषि-त्वेति च कृत्स्नस्य तस्य तत्रैव भुक्ततां दर्शयति।
“तेषां यदातत्पर्य्यवैतोति” च श्रुत्यन्तरेणैष एवाथेः प्रदर्श्यते। स्यादे-तत् यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म्म तावदुपभुङ्क इतिकल्पयिष्यामीति नैवं कल्पयितुं शक्यते यत् किञ्चेत्यन्यत्वपरामर्शात्।
“प्राप्यान्तं कर्म्मणस्तस्य यत् किञ्चेह करोत्य-यम्। तस्माल्लोकात् पुनरत्यस्मै लोकाय कर्म्मणे” इतिह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्यैवेह कृतस्यकर्म्मणस्तत्र क्षयितां दर्शयति। अपि च प्रायणमनारब्ध-[Page0440-a+ 38] फलस्य कर्म्मणोऽभिव्यञ्जकंप्राक् प्रायणादारब्धफलेन कर्म्मणाप्रतिबद्वस्य अभिव्यक्त्यनुपपत्तेः। तच्चाविशेषेण यद्यावत्किञ्चिदनारब्धफलं तस्य सर्व्वस्याभिव्यञ्जकं न हि साधा-रणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति नह्यविशिष्टे प्रदीपसन्निधौ घटोऽभिव्यज्यते, न पटैत्युपपद्यते। तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः
“कृतात्ययेअनुशयवानिति”। येन कर्म्मवृन्देन चन्द्रमसमारूढाः फलो-पभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरंचन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंप-र्कात् प्रलीयते सवितृकिरणसंपर्काद्धिमकरकाइंव हुतभ्यु-गर्च्चिःसंपर्कादिव च घृतकाठिन्यम्। ततः कृतात्यये कृत-स्येष्टादेः कर्म्मणः फलोपभोगेनोपक्षयेसति सानुशया एवेममवरोहन्ति। केन हेतुना? दृष्टस्मृतिभ्यामित्याह। तथाहिप्रत्यक्षा श्रुतिः सानुशयानामवररोहं दर्शयति
“तद्यइह रमणीयवरणा अभ्यासो ह यत्ते रमणीयां योनिमा-षद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिंवा अथ य इह कपूयचरणा अभ्यासो हयत्ते कपूयां योनि-मापद्येरन् श्वयोनिं वा शूकरयोनिं वा चाण्डालयोनिंवेति”। चरणशब्देनानेनानुशयः सूच्यत इति वर्ण्णयिष्यति। दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूपौपभोगः प्रविभज्य-मानः आकस्मिकत्वासम्भवात् अनुशयसद्भावं सूचयतिअभ्युदयप्रत्यवाययोः सुकृतदुःकृतयोः हेतुत्वस्य सामान्यतःशास्त्रेणावगमितत्वात्। स्मृतिरपि वर्ण्णा आश्रमाश्च स्व-कर्म्मनिष्ठाः प्रेत्य कम्म फलमनुभूय ततः शेषेण विशिष्टदेश-जातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधायै जन्म प्रतिपद्यन्तइति सानुशयानामेवावरोह दर्शयति। कः पुनरनुशयीनामेति केचित्तावदाहुः स्वर्गार्थस्य कर्म्मणो भुक्तफलस्याव-शेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् यथाहिस्नेहभाण्डं विरिच्यमानं न सर्व्वात्मना विरिच्यते भाण्डानु-सार्य्येव कश्चित् स्नेहशेषोऽवति ते तथानुशयोऽपीति। ननु-कार्य्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषेणाव-स्थानं न्थाप्यम्। नायं दोषः न हि सर्व्वात्मनाभुक्तफलत्वं कर्म्मणः प्रतीजानीमहे। ननु निरवशेष-कर्म्मफलभोगाय चन्द्रमण्डलमारूढः। वाढं तथापिस्वल्पकर्म्मावशेषमात्रेण तत्रावस्थातुं न शक्यते यथाकिल कश्चित् सेवकः सकलैः सेवोपकरणैः राजकुल-मुपसप्तः चिरप्रवासात् परिक्षीणबहूपकरणः छत्रपादु-कादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एव-[Page0440-b+ 38] मनुशयलेशमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नो-तीति। न चैतद्युक्तमिव न हि स्वर्गार्थस्य कर्म्मणोभुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्य्यविरोधित्वादित्युक्तम्। नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणोनिखिलस्य भुक्तफलत्वंभविष्यतीति। तदेतदपेशलं स्वगांर्थं किल कर्म स्वर्गस्थस्यैवस्वर्गफलं निखिलं जनयति स्वर्गच्युतस्यापि कञ्चित् फललेशंजनयतीति” न शब्दप्रमाणकानामीदृशी कल्पनावकल्पते। स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते। तथासेवकस्योपकरणलेशानुवृत्तिर्दृश्यते न त्विह तथा स्वर्ग-फलस्य कर्म्मणोलेशानुवृत्तिर्दृश्यते नापि कल्पयितुंशक्यते स्वर्गफलत्वशास्त्रषिरोधात्। अवश्यञ्चैतदेवं विज्ञेयंन स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेक-देशोऽनुवर्त्तमानोऽनुशय इति यदि हि येन सुकृतेन कर्म-णेष्टादिना स्वर्गमन्वभूवन् तस्यैव कश्चिदेकदेशोऽनुशयःकल्प्येत ततो रमणीयएवैकोऽनुशयः स्यान्न विपरीतः। तत्रेयमनुशयविभागश्रुतिरुपरुध्येत
“तद्य इह रमणीय-चरणाः अथ य इह कपूयचरणा इति”। तस्मादामुद्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः तद्वन्तोऽवरोहन्ति। यदप्युक्तं यत्किञ्चित्यवि-शेषेण परामर्शात् सर्वस्येहकृतस्य कर्मणः फलोपभोगेनान्तंप्राप्य निरनुशया अवरोहन्तीति। नैतदेवम् अनुशयसद्भा-वस्यावगमितत्वात्। यत्किश्चिदिहकृतमामुष्मिकफलं कर्मा-रब्धभोगं तत् सर्वं फलोपभोगेन क्षपयित्वेति गम्यते। यदप्युक्तं प्रायणमविशिष्टत्वादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित् कर्मणामुष्मिल्लों के फलमारभ्यतेकेनचिदस्मिन्नित्ययं विभागो न सम्भवतीति। तदप्यनु-शयसद्भावप्रतिपादनेनैव प्रत्युक्तम्। अपि च केनहेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं
“प्रतिज्ञायतइति वक्तव्यम् आरब्धफलेन कर्म्मणा प्रतिबद्धस्येतरस्यवृत्त्युद्भवानुपपत्तेस्तष्टुपशमात् प्रायणकाले वृत्त्युद्भवो भव-तीति यद्युच्येत” ततोवक्तव्यं यथैव हि प्राक्प्रायणादारब्ध-फलेन कर्म्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरेवंप्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्म्मणः युगपत्फला-रम्भामम्भावाद्वलवता प्रतिवृद्धस्य दुर्बलस्य वृत्त्युद्भवानुपप-त्तिरिति। नह्यनारब्ध्वफलत्वसामान्ये जात्यन्तरोपभोग्यफलमप्यनेककर्म्मैकस्मिन् प्रायणे युगपदभिव्यक्तं सदेकां जाति-मारभतैति शक्यं वक्तु प्रतिनियतफलत्वविरोधात्। नापि-कस्यचित् कर्म्मणः प्रायणे अभिव्यक्तिः कस्यचिदुच्छेद इति[Page0441-a+ 38] शक्यं वक्तुम् ऐकान्तिकफलत्वविरोधात्। नहि प्राय-श्चित्तादिभिर्हेतुभिर्विना कर्म्मणोऽनुच्छेदः सम्भाव्यते। स्मृतिरपि विरुद्धफलेन कर्म्मणा प्रतिबद्धस्य कर्मान्तरस्य-चिरमप्यवस्थानं दर्शयति।
“कदाचित् सुकृतं कर्म्मकूटस्थमिह तिष्ठति। पच्यमानस्य संसारे यावद्दुःखाद्विमु-च्यते” इत्येवंजातीयका। यदि च कृत्स्नमनारब्धफलंकर्म्मैकस्मिन् प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत ततःसर्गनरकतिर्य्यग्योनिष्वधिकारानवगमात् धर्म्माधर्म्मानुत्-पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ब्रह्महत्या-दीनां चैकैकस्य कर्म्मणोऽनेकजन्मनिमित्तत्वं स्मर्य्यमाण-मुपरुध्येत। नच धम्माधर्म्मयोः स्वस्वरूपफलसाधनतादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम्। नच दृष्टफलस्य कर्म्मणः कारीर्य्यादेः प्रयाणमभिव्यञ्जकंसम्भवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना। प्रदीपोपन्यासोऽपि कर्म्मबलाबलप्रदर्शनेनैव प्रतिनीतः। स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यं यथा हि प्रदीपःसमानेऽपि सन्निधाने स्थूलरूपमभिव्यनक्ति न सूक्ष्मम्, एवंप्रायणं समानेऽप्यनारब्धफलस्यकर्म्मजातस्य प्राप्तावसरत्वेबलवतः कर्म्मणोवृत्तिमुद्भावयति न दुर्बलस्येति। तस्मात् श्रुतिस्मृतिन्यायविरोधादश्लिष्टोयमशेषकर्म्माभिव्यक्ते-रभ्युपगमः। शेषकर्म्मसद्भावेऽनिर्मोक्ष प्रसङ्ग इत्ययमप्यस्थाने संभ्रमः सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः। तस्मात्स्थितमेतदनुशयवन्तोऽवरोहन्तीति। ते चावरहन्तो यथेत-मनेवञ्चावरोहन्तीति। यथेतमिति यथागतमित्यर्थः। अनेवमिति तद्विपर्य्ययणेत्यर्थः। धूमाकाशयीः पितृयाने-ऽध्वन्युपात्तयोरवरोहे सङ्कीर्त्तनात् यथेतंशब्दाच्च यथागत-मिति प्रतीयते। रात्र्याद्यसंकीर्त्तनादभ्रादिसंख्यानाच्चविपर्प्ययोऽपि प्रतीयते” भा॰। अनतिदूरे च तत्रैव
“स्वाभाव्यापत्तिरुपपत्तेः” शा॰ सू॰।
“इष्टादिकारिण-श्चन्द्रमसमारुह्य तस्मिन् यावत्संम्पातमुषित्वा ततः सानु-शया अवरोहन्तीत्युक्तम् अथावरोहप्रकारः परीक्ष्यतेतत्रेयमवरोहश्रुतिर्भवति
“अथैतमेवाध्वानं पुनर्निवर्त्तन्तेयथेतमाकाशमाशाद्वायुं वायुर्भूत्वा धूमोभवति धूमोभूत्वाऽभ्रं भवति अभ्रं भूत्वा प्रवर्षतीति”। तत्र संशयः किमा-काशादिस्वरूपमेवावरोहन्तः? प्रतिपद्यन्तेकिं वाऽकाशादि-साम्यमिति? तत्र प्राप्तन्तावदाकाशादिस्वरूपमेव प्रतिपद्यन्तेइति कुतः? एवं हि श्रुतिर्भवति इतरथा लक्षणा स्यात्श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या न लक्षणा, तथा च वायु-[Page0441-b+ 38] र्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत् स्वरूपोपपत्तावेव-कल्पन्ते तस्मादाकाशादिस्वरूपप्रतिपत्तिरित्येवं प्राप्ते ब्रूमःआकाशादिसाम्यं प्रतिपद्यन्त इति। चन्द्रमण्डले यदन्मयंशरीरमुपभीगार्थमारब्धं तदुपभोगक्षये सति प्रलीयमानंसूक्ष्ममाकाशसमं भवति ततोवायोर्वशमेति ततो धूमा-दिभिः संसृज्यत इति तदेतदुच्यते यथेतमाकाशाद्वायुमित्या-दिना। कुतः एतत्? उपपत्तेः एवं ह्युपपद्यते। नह्य-न्यस्यान्यभावोमुख्य उपपद्यते। आकाशस्वरूपप्रतिपत्तौच वाष्वादिक्रमेणावरोहोनोपपद्यते। विभुत्वाच्चाकाशे-न नित्यसंबन्धान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटेत। श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव अत आकाशादि-तुल्यत्वापत्तिरेवात्राकाशादि भाव इत्युपचर्य्यते” भा॰। नाति-चिरेण विशेषात्” शा॰ सू॰
“तत्राकाशादिप्रतिपत्तौ प्राग्-व्रीह्यादिप्रतिपत्तेर्भवति विशयः किं दीर्घं कालं पूर्ब्ब-पूर्ब्बसादृश्येनावस्थायोत्तरोत्तरसादृश्यंगच्छन्ति? उताल्पमल्प-मिति?। तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवंप्राप्ते इदमाह नातिचिरेणेति। अल्पमल्पकालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति। कुतएतत्? विशेषदर्शनात्। तथा हि व्रीह्यादिभावापत्तेरनन्तरंविशिनष्टि
“अतो वै खलु दुर्न्निष्प्रपतरमिति”। तकार एकःछान्दस्यां प्रक्रियायां लुप्तोमन्तव्यः दुर्निप्रपततरं दुर्निःक्रमतरं दुःर्खतरमस्माद्व्रीह्यादिभावान्निःसरणम्भवती-त्यर्थः। तदत्र दुःखनिःप्रपतनं प्रदर्शयन् पूर्व्वेषु सुखनिःप्रपतनं दर्शयति। सुखदुःखताविशेषश्चायं निः-प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः तस्मिन्नवधौ शरी-रानिष्पत्तेरुपतापासम्भवात्। तस्माद्व्रीह्यादिभावा-पत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति” भा॰।
“अन्या-धिष्ठिते पूर्व्ववदभिलापात्” सू॰
“तस्मिन्नेवावरोहे प्रवर्ष-णानन्तरं पठ्यते
“इह व्रीहियवाओषधिवनस्पतयस्तिलमाषाजायन्त” इति। तत्र संशयः किमस्मिन्नवधौ स्थावरजात्या-पन्नाः स्थावरसुखदुःखभाजोऽनुशयिनी भवन्ति? आहोस्वित्क्षेत्नज्ञान्तराधिष्ठितेषु संश्लेषमात्रंगच्छन्तीति? किं तावत्प्राप्तं स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति। कुतः एतत्? जनेर्मुख्यार्थत्वोपपत्तेः स्थावर-भावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः। तस्मान्-मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादि जन्मवत्। यथा श्वयोनिं वा शूकरयोतिं वा चाण्डालयोनिं वेति[Page0442-a+ 38] मुख्यमेवानु शयिनां श्वादिजन्म सुखदुःखान्वित म्भवतिएवं व्रीह्यादिजन्मापीत्येवं प्राप्ते ब्रूमः। अन्यैर्जी वैरधि-ष्ठितेषु ब्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्-मुखदुःखभाजो भवन्ति पूर्ब्धवत्। यथा वायुधूमादिभावोऽ-नुशयिनान्तत्संप्लेषमात्नमेवं व्रीह्यादिभावोऽपि स्थावरैःसंश्लेषमात्रम्। कुत एतत्? तद्वदेवेहास्याभिलापात् कोऽ-भिलापस्यतद्वद्भावः! कर्तव्यापारमन्तरेण संकीर्त्तनं यथाऽ-काशादिषु न कञ्चित् कर्मव्यापारं परामृशति एवंव्रीह्यादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखभाक्त्वमनुशयिनाम्यत्र तु सुखदुःखभाक्त्वमभिप्रति, परामृशति तत्र कर्मव्या-पारं
“रमणीय चरणाः कपूयचरणा” इति च। अपि चमुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषुभज्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानि-नोऽनुशयिनः प्रवसेयुः यो हि जीवोयच्छरीरमभि-मन्यते स तस्मिन् पीड्यमाने प्रवसतीति प्रसिद्धम्। तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत,अतः संसर्गमात्रमनुशयिनामन्याघिष्ठितेषु ब्रीह्यादिषुभवति। एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थानत्वञ्च स्थावरभावस्य। न च वयमुपभोगस्थानत्वं स्थावरभा-वस्यावजानीमहे। भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येनस्थावरभावमुपगतानामेतदुपभोगस्थानं, चन्द्रमसं त्ववरो-हन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे” भा॰।
“अशुद्धमिति चेन्न शब्दात्” सू॰।
“यत् पुनरुक्तं पशु-हिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फल-मवकल्पत इत्यतो मुख्यमेवानुशयिनो व्रीह्यादिजन्मास्तुतत्र गौणी कल्पनाऽनर्थिकेति तत्। परिह्रियते। न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्मइति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोर-नियतदेशकालनिमित्तत्वाच्च। यस्मिन्देशे काले निमित्तेच योधर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेषुअघर्मो भवति तेन न शास्त्रादृते धर्मावर्मविषयंज्ञानंकस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मकोज्योतिष्टो-मोधर्म्म इत्यवधारितं स कथमशुद्ध इति शक्यते वक्तुम्। ननु
“मा हिंस्यात् सर्व्वाभूतानीति” शास्त्रमेव भूतविषयांहिंसामधर्म इत्यवगमयति”। वाढं उत्सर्गस्तु सः। अपवादः
“अग्नीषोमीयं पशुमालभेतेति” उत्सर्गापवादयोश्चव्यवस्थितविषयत्वम् तस्माद्विशुद्धं वैदिकं कर्म शिष्टैरनु-ष्ठीयमानत्वादनिन्द्यमानत्वाच्च। तेन न तस्य प्रतिरूपं[Page0442-b+ 38] फलं जातिस्थावरत्वम्। नच श्वादिजन्मवदपि ब्रीह्यादि-जन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्योच्यते नैवमिहवैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रस्थलात् स्खलिता-नामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्य्यते” भा॰
“रेतःसिग्योगोऽथ” सू॰।
“इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः यत्कारणं ब्रीह्यादिभावस्या-नन्तरमनुशयिनां रेतःसिगभाव आम्नायते।
“योयोह्य-न्नमत्ति योरेतः सिञ्चति तद्भूय एव भवतीति”। न चात्रमुख्योरेतःसिग्भावः सम्भवति चिरजातो हि प्राप्तयौवनो-रेतःसिग्भवतीति कथमिवानुपचरिततद्भावमद्यमानान्नानु-गतोऽनुशयी प्रतिपद्येत तत्रावश्यं रेतःसिग्योग एवरेतःसिग्भावोऽभ्युपगन्तव्यः। तद्वद्व्रीह्यादिभावोऽपिव्रीह्यादियोग एवेत्यविरोधः” भा॰॥
“योनेःशरीरम्” सू॰॥
“अथ रेतःसिग्भावस्यानन्तरं योनौ सिक्ते रेतसियोनेरधिशरीरमनुशयिनामनुशयफलोपभोगायतनम् इत्याह शास्त्रम्
“तद्य इह रमणोयचरणा” इत्यादि। तस्मादप्यवगम्यते नावरोहे ब्रीह्यादिभावावसरे तच्छरीरमेवसुखदुःखान्वितं मवतीति। तस्माद्व्रीह्यादिसंश्लेषमात्र-मनुशयिनां तज्जन्मेति सिद्धम्” भा॰। संज्ञायां कर्त्तरि घञ्
“वटादितरोः शाखातो मूलावघि अवतारकेऽंशभेदे च।
“अवरोहगताकीर्ण्णं वटमासाद्य तस्थतुः” रामा॰। ज्योतिषोक्ते दशाभेदे स्त्री अवरोहिशब्दे उदा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोह¦ m. (-हः)
1. Mounting, ascending.
2. Descent, passing from or over.
3. The growth of a creeping plant or vine.
4. A pendant branch, one that strikes fresh root into the earth, as those of the Indian fig tree.
5. Heaven or Swarga. E. अव up or down, &c. रुह to mount, घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोहः [avarōhḥ], 1 Descent, going or coming down.
A creeping plant winding itself round a tree from the bottom to the top (such as the गुडूची creeper).
Heaven (तस्माद्धि भोगावसाने सर्वे$वरोहन्ति).
Mounting, ascending.
A shoot sent out by a plant, a pendent branch, one that strikes fresh roots into the earth, as of the fig-tree (वट); अवरोहशताकीर्णं वटमासाद्य तस्थतुः Rām.
The growth of a plant or vine.
(In music) The descending scale of notes. -Comp. -शायिन् the Indian fig-tree; so -शाखः, -शाखिन्.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अवरोह/ अव-रोह m. descent L.
अवरोह/ अव-रोह m. (in music) descending from a higher tone to a lower one Comm. on Mr2icch.
अवरोह/ अव-रोह m. mounting L.
अवरोह/ अव-रोह m. a shoot or root sent down by a branch (especially of the Indian fig-tree ; See. 2. अव-रोध) , Kaus. Pa1rGr2. R. ii , 52 , 96
अवरोह/ अव-रोह m. (= लतो-द्गम)a creeping plant climbing up to the top of a tree L.
अवरोह/ अव-रोह m. heaven L.