सामग्री पर जाएँ

अवाच्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्यम्, क्ली, (न + वच + ण्यत् ।) दुर्व्वाक्यं । तत्प- र्य्यायः । अनक्षरं २ । इत्यमरः ॥ वचनानर्हं । अ- नक्षरं गालि प्रभृति इति मधुः । निन्दितान्य- क्षराणि अत्र अनक्षरं अव्ययानामनेकार्थत्वात् नञ् निन्दायां । एवमवाच्यं वक्तुमयोग्यं वच्लौ वाचि हसृष्वासोरिति घ्यण भुजवचेति क- निषेधः ॥ इति भरतः ॥ (“वाच्यावाच्ये हि कुपितो न विजानाति कर्हिचित्” । इति भारते । “अवाच्यं वदतो जिह्वा कथं न पतिता तव” । इति रामायणे ।)

अवाच्यः, त्रि, (अवाच् + भवार्थे यत् ।) अनिन्दितः । इति स्मृतिः ॥ अवक्तव्यः । वचनानर्हः । यथा, -- “अनक्षरमवाच्यन्तु वचनार्हं न यद्भवेत् । एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ॥ मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्द्धरः” । इति शब्दरत्नावली ॥ (अवरदेशकालादौ भवः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्य नपुं।

निन्दावचनम्

समानार्थक:अनक्षर,अवाच्य

1।6।21।1।2

अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम्. सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम्. श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम्. अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्य¦ न॰ वच--ण्यत् न कुत्वम् न॰ त॰।

१ दुष्टवचने,
“अवा-च्यवादांश्च बहून् वदिष्यन्ति तवाहिताः” गीता

२ वचना-नर्हे, निन्दनीये त्रि॰

३ अकथनीये च
“अवाच्यो दीक्षितोनाम्ना यवीवानपि योभवेत्” मनुः अवाच् + भवार्थे यत्।

४ अवरकालादौ भवे त्रि॰।

५ अभिधावृत्त्या बोधयितुमशक्ये च।
“अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे” सा॰ द॰। यमुदिश्य कथ्यते

६ तद्भिन्ने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्य¦ mfn. (-च्यः-च्या-च्यं)
1. Vile, bad.
2. Improper to be uttered.
3. Southern, southerly. E. अ neg. and वाच्य to be spoken, or अवाच् and यत् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्य [avācya], a.

Not proper to be addressed; अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् Ms.2.128.

Improper to be uttered; vile, bad; अवाच्यं वदतो जिह्वा कथं न पतिता तव Rām.; ˚वादांश्च बहून् वदिष्यन्ति तवाहिताः Bg.2. 36.

Not distinctly expressed, not expressible in words; ˚ता, ˚त्वम् impropriety; reproach, calumny; दुर्लभा सत्स्ववाच्यता Ki.11.53. -Comp. -देशः 'the unspeakable place', the vulva (योनि).

अवाच्य [avācya], a. Southern, southernly. cf. Śiva. B.6.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाच्य/ अ-वाच्य mfn. not to be addressed Mn. ii , 128 , improper to be uttered R. Katha1s.

अवाच्य/ अ-वाच्य mfn. ( अ वाच्यं कर्म मैथुनम्) Comm. on S3Br.

अवाच्य/ अ-वाच्य mfn. " not distinctly expressed " , See. -त्व.

अवाच्य mfn. southern , southerly L.

"https://sa.wiktionary.org/w/index.php?title=अवाच्य&oldid=489229" इत्यस्माद् प्रतिप्राप्तम्