अविवेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेकः, पुं, (न विवेकः । नञ्तत्पुरुषः । नास्ति विवेको यस्य इति समासे वाच्यलिङ्गः ।) सद- सद्विवेचनाराहित्यं । यथा । “देहात्मनोरविवेका- दस्यैवं शोको भवतीति तद्विवेकप्रदर्शनार्थं श्री- भगवानुवाच अशोच्यानित्यादि” । इति श्रीभग- वद्गीता २ अध्यायस्य ११ श्लोकटीका ॥ तद्वति त्रि ॥ अविमृश्यकारी । यथा, -- (“सहसा विदधीत न क्रियामविवेकः परमापदाम्पदम्” ॥ इति किरातार्ज्जुनीये ॥ सदसद्विवेकरहितः । यथा, -- “उत्तमोत्तममप्राप्यमविवेकोऽभिवाञ्छसि” । इति विष्णुपुराणं ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेक¦ पु॰ न विवेकः भेदकधर्म्मेण ज्ञानम् अभावे न॰ त॰। अन्योन्यतादात्मारोपहेतौ

१ विशेषज्ञानाभावे इति नैयायिका। विरोधे न॰

२ अन्योन्यतादात्म्यज्ञानरूपे मिथ्याज्ञाने
“तद्योगोऽप्यविवेकात्” सा॰ सू॰।
“अयञ्चाविवेकोऽगृही-तासंसर्गकमुभयज्ञानमविद्यास्थलाभिषिक्तं विवक्षितः”
“ब-न्धोविपर्य्यात्” विपर्ययभेदाः पञ्च” इत्यागामिसूत्रद्वयात्
“तस्यहेतुरविद्येति” योगसूत्रेऽप्यविद्याया एव पञ्चपर्ब्धरूपायाबुद्धिपुरुषसंयोगहेतुतया वचनाच्चान्ययाख्यात्यनभ्युपगमएवयोगतोऽत्र विशेषौचित्यात्। न पुनरविवेकोऽत्राभावमात्रंविवेकप्रागभावो वा मुक्तस्यापि बन्धापत्तेः जीवन्मुक्त-स्यापि भाविविवेकव्यक्तिप्रागभावेन धर्माधर्म्मोत्पत्तिद्वारापुनर्बन्धप्रसङ्गाच्च। तथागामिसूत्रस्थध्वान्तदृष्टान्तानुपपत्तेःअभावस्य ध्वान्तवदावकरत्वाभावात्। तथा वृद्धिह्रासाव-प्यविवेकस्य श्रूयमाणौ नोपपद्येयातामिति। अस्मन्मते चवासनात्मकर्स्यवाविवेकस्य संयोगाख्यजन्महेतुतया तमोव-दावरकत्ववृद्धिह्रासादिकमञ्जसैवोपपद्यते।
“तस्य हेतुर-विद्येति” पातञ्जलसूत्रे च भाष्यकारैरविद्याशब्देनावि-द्यावीजं व्याख्यातम् ज्ञानस्य संयोगोत्तरकालीनत्वेनसंयोगाजसकत्वादिति। अपि च
“पुरुषः प्रकृतिस्थो हिभुङ्क्त” इत्यादिवाक्येष्वभिमानाख्यसंयोगस्यैव प्रकृतिस्थता-ख्यसंयोगहेतुतावगम्यते। अत एव चाविद्या नाभावोऽपितु विद्याविरोधिज्ञानान्तरमिति योगभाष्ये व्यासदेर्वः प्रय-त्नेनावधृतम्। तस्मादविवेकाविद्ययोस्तुल्ययोगक्षेमतया-[Page0462-b+ 38] ऽविवेकस्यापि ज्ञानविशेषत्वमिति सिद्धम्। अयं चाविवे-कस्त्रिघा संयोगाख्यजन्महेतुः साक्षात्, धर्माधर्मोत्पत्तिद्वारा,रागादिदृष्टद्वारा च भवति” सां॰ प्र॰ भा॰। अधिकमविद्याशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेक¦ m. (-कः) Ignorance, absence of discrimination or judgment. E. अ neg. and विवेक discrimination.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेक [avivēka], a. Wanting in judgment or discrimination, thoughtless.

कः Want of discrimination or judgment, absence of prudence, imprudence; अविवेकः परमापदां पदम् Ki.2.3.

Hastiness, rashness, recklessness.

Ignorance; (अन्योन्यतादात्म्यरूपमिथ्याज्ञानम्).

Nonseparation, non-distinction; पौरुषं कर्म दैवं च कालवृत्तिस्वभावतः । त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥ Mb.12.238.5. -Comp. -कृत a. done-rashly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविवेक/ अ-विवेक m. absence of judgement or discrimination Pan5cat. Katha1s.

अविवेक/ अ-विवेक m. non-separation , non-distinction Kap.

"https://sa.wiktionary.org/w/index.php?title=अविवेक&oldid=489360" इत्यस्माद् प्रतिप्राप्तम्