अशक्ति
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशक्ति¦ स्त्री अभावे न॰ त॰।
१ सामर्थ्याभावे
“श्रमेण तद-शक्त्या वा न गुणानामियत्तया” रघुः।
२ अपाटवे सांख्य-भतसिद्धे बुद्धेः
३ ज्ञानजननासामर्थ्यभेदे च सा च
“एषप्रत्ययसर्गोविपर्य्ययोऽशक्तितुष्टिसिद्ध्याख्यः” इति सामान्यतउक्त्वा
“पञ्च विपर्य्य यभेदाः भवन्त्यशक्तिश्च करणवैकल्यात्। अष्टाविंशतिभेदा” इति। अशक्तीर्विभज्य
“एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा। सप्तदश बधा बुद्धेर्विपर्य्य-यात् तुष्टिसिद्धीनाम्” सा॰ का॰
“बाधिर्यं, कुष्टिताऽन्धत्वं,जडताऽजिघ्रता तथा। मूकता, कौण्यपङ्गुत्वक्लैव्योदा-वर्त्तमन्दताः”। यथासंख्यं श्रोत्रादीनामिन्दियाणंबधाः एतावत्येव तद्धेतुका बुद्धेरशक्तिः स्वव्यापारेभवति। तथाचैकादशहेतुकत्वादेकादशधा वुद्धेरशक्तिरुच्यते। हेतुहेतुमतोरभेदविवक्षया च सामानाधि-करण्यम्। तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूप-तोऽशक्तीराह सह बुद्धिबधैरिति। कति बुद्धेः स्वरूपतोबधा[Page0473-b+ 38] इत्यत आह सप्तदश बधा बुद्धेः, कुतः? विपर्य्ययात्तुष्टि-सिद्धीनाम्, तुष्टयोनवधेति तद्विपर्ययास्तन्निरूपणान्नवधाभवन्ति। एवं सिद्धयोऽष्टाविति तद्विपर्ययास्तन्निरूपणात्अष्टौ भवन्तीति” सा॰ कौ॰ दर्शिता। व्याख्यातञ्चैतदस्मा-भिः
“पूर्व्वार्द्धेज्ञानेन्द्रियाणाम् अपाटवमुक्तरार्द्धे कर्मेन्द्रिया-णामिति मनसस्तु उभयेन्द्रियानुकूल्यादन्तेऽभिनिवेश इतिभेदः। तत्र बाधिर्य्यं श्रोत्रगतं शब्दग्रहणापाटवम्। कुष्ठिता त्वग्गतं स्पर्शग्रहणापाटवम्। अन्धत्वं नेत्रगतंरूपग्रहणापाटवम्। जडता रसनागतं रसग्रहणा-पाटवम्। मूकता वागिन्द्रियगतं वचनापाटवम्। कौण्यंहस्तगतमादानापाटवम्। पङ्गुत्वं पादगतं चलना-पाटवम्। क्लैव्यमुपस्थगतं मैथुनासामर्थ्यम्। उदावर्त्तःअपानगतं विष्ठोत्सर्गासामर्थ्यम्। मन्दता मनोगतं मुखा-दिविषयग्रहणासामर्थ्यम्। एकादशेति पञ्च ज्ञानेन्द्रियाणिपञ्च कर्म्मेन्द्रियाणि मनश्चेति एकादशेन्द्रियाणां बधाः स्वस्व-कर्म्माक्षमत्वरूपा धर्मभेदाः तद्धेतुकत्वात् बुद्धेः स्वविषयाग्र-हणमिम्बते अतो बुद्धेरशक्तिरेकादशविधैवेत्याह तथा चेत्या-दि। वे बुद्धेः सप्तदश भेदा उत्तरार्द्धे वक्ष्यन्ते तैः सप्तदशभिःसह मिलिता एकादश भेदाः अष्टाविंशतिर्भेदाः स्युः। तथाच शक्तिरष्टाविंशतिभेदा इति यदुक्तं तत् समर्थितमिति”
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशक्ति¦ f. (-क्तिः) Inability, incapability, weakness, impotence. E. अ neg. शक्ति power.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशक्ति [aśakti], f.
Weakness, impotence, powerlessness.
Inability, incapacity; श्रमेण तदशक्त्या वा न गुणानामियत्तया R.1.32.
(In Sāṅ. Phil.) Incapacity of the intellect to produce knowledge.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशक्ति/ अ-शक्ति f. inability , incapability.