अशेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेषम्, त्रि, (नास्ति शेषो यस्येति ।) शेषरहितं । निःशेषं ॥ सर्व्वं । इत्यमरः ॥ (“स्थानं प्राप्स्याम्यशेषाणां जगतामपि पूजितम्” ॥ “अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः” ॥ इति च विष्णुपुराणम् ॥ अशेषेण । यथा, -- “अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः” । इति कुमारे । “वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः” ॥ इति गीतायाम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेष वि।

समग्रम्

समानार्थक:सम,सर्व,विश्व,अशेष,कृत्स्न,समस्त,निखिल,अखिल,निःशेष,समग्र,सकल,पूर्ण,अखण्ड,अनूनक,केवल

3।1।65।1।2

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम्. समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेष¦ पु॰ अभावे न॰ त॰।

१ शेषाभावे। न॰ त॰।

२ शेषशून्येसकले त्रि॰
“अशेषशेमुषीमोषं माषमश्नामि केवलम्” उद्भटः
“क्रतोरशेषेण फलेन युज्यताम्” रघुः
“येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्ययो मयि” गीता
“तथाविधस्ताव दशेषमस्तुसः” कुमा॰।
“अशेषतीर्थोपहृताः कमण्डलोः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेष¦ mfn. (-षः-षा-षं)
1. Entire, all the whole.
2. Infinite, endless. E. अ neg. and शेष remainder.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेष [aśēṣa], a. [न. ब.] Without remainder, whole, all, entire, complete, perfect; अशेषशेमुषीमोषं माषमश्नामि केवलम् Udb.; क्रतोरशेषेण फलेन युज्यताम् R.3.65,48. -षः Nonremainder. -षम्, अशेषेण, अशेषतः ind. wholly, entirely, completely; तथाविधस्तावदशेषमस्तु सः Ku.5.82; येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि Bg.4.35, 1.16; एतद्वो$यं भृगुः शास्त्रं श्रावयिष्यस्यशेषतः Ms.1.59,2.66,9.15.-Comp. -साम्राज्यः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशेष/ अ-शेष mf( आ)n. without remainder , entire , perfect , all

अशेष/ अ-शेष m. non-remainder Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अशेष&oldid=489527" इत्यस्माद् प्रतिप्राप्तम्