अशोक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोकम्, स्त्री, पारदं । इति मेदिनी ॥ शोकरहिते त्रि ॥
अशोकः, पुं, (नास्ति शोको यस्मात् ।) स्वनाम- ख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । शोकनाशः २ विशोकः ३ वञ्जुलद्रुमः ४ वञ्जलः ५ मधुपुष्पः ६ अपशोकः ७ कङ्केल्लिः ८ केलिकः ९ रक्तपल्लवः १० चित्रः ११ विचित्रः १२ कर्णपूरः १३ सुभगः १४ दोहली १५ ताम्रपल्लवः १६ रोगितरुः १७ हेमपुष्पः १८ रामा १९ वामाङ्घ्रिघातनः २० पिण्डीपुष्पः २१ नटः २२ पल्लवद्रुः २३ । अस्य- गुणाः शीतलत्वं । हृद्यत्वं । पित्तदाहश्रमापहत्वं । गुल्मशूलोदराध्माननाशित्वं । कृमिकारकत्वञ्च । इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः । “अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपप्लवः । कङ्केल्लिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥ अशोकः शीतलस्तिक्तो ग्राही वर्य्यः कषायकः । दोषापचीतृषादाहकृमिशोषविषास्रजित्” ॥ इति भावप्रकाशः ॥ अस्य कलिकाभक्षणविधिरशीकाष्टमीशब्दे द्र- ष्टव्यः ॥ (योषितां सनूपुरचरणप्रहारेण अशो- कानां पुष्पोद्गमो भवतीति कविसमयप्रसिद्धिः । यदुक्तम् । “पादाघातादशोकं विकसति वकुलं योषिता- मास्यमद्यैः” । इति साहित्यदर्पणे । अपरञ्च । “पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति वकुलो मुखशीधुसिक्तः” । अपरञ्च । “सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत्” ॥ कुमारसम्भवे ऽपि । “असूत सद्यः कुसुमान्यशोकः” । इति ॥ “कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति” । इति रघुवंशे । “अशोकवल्कलक्वाथं शृतं दुग्धं सुशीतलं । यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनं’ ॥” इति वैद्यकचक्रपाणिसंग्रहः ॥ “अशोकवल्कलप्रस्थं तोयाढके विपाचितं । तेन पादावशेषेण जीरकेण तथैव च ॥ घृतप्रस्थं पचेदेतत्प्रक्षिप्य च तथापरं । तण्डुलाम्बून्यजाक्षीरं प्रस्थं प्रस्थं पृथक् पृथक् ॥ केशराजरसस्यापि प्रस्थमेकं भिषग्वरः । जीवनीयैः पियालैश्च परूषसरलाञ्जनैः ॥ यष्ट्याह्वाशोकमूलञ्च मृद्वीका च शतावरी । तण्डुलीयकमूलञ्च कल्कैरेतैः पलार्द्धकैः ॥ शर्करायाः पलान्यष्टौ गर्भदन्त्वाशुचूर्णितं । पुष्यायोगेन तत्पीतं निहन्यात् सर्व्वदोषजं ॥ श्वेतं कृष्णं तथा नीलं प्रदरं हन्ति दुस्तरं । कुक्षिशूलं योनिशूलं पृष्ठशूलञ्च दारुणं ॥ मन्दाग्निमरुचिं पाण्डुं कृशतां श्वासकासिनां । अशोकघृतमेतत्तु विख्यातं स्त्रीगदेषु च” ॥ * ॥ अशोकघृतं ॥ * ॥ इति वैद्यकस्नेहमालिकायां ॥)
अशोकः, त्रि, (नास्ति शोकों यस्येति वाच्यलिङ्गः ।) शोकरहितः । यथा, “त्वामशोक हराभीष्ट मधुमाससमुद्भव । पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥ इति तिथ्यादितत्त्वं ॥ (स्वनामख्यातो दशरथस्य मन्त्री । उक्तं रामायणे । “धृष्टिर्जयन्तो विजयः सिद्धार्थोऽप्यर्थसाधकः । अशोको धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽभवत्” ॥ स्वनामख्यातो नृपतिश्च, यथा भारते । “अशोको नाम राजाभून्महावीर्य्योऽपराजितः । तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः” ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोक नपुं।
कामबाणः
समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन
1।1।26।3।2
शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥
स्वामी : कामदेवः
सम्बन्धि1 : कामदेवः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु
अशोक पुं।
अशोकः
समानार्थक:वञ्जुल,अशोक
2।4।64।2।3
एतस्य कलिका गन्धफली स्यादथ केसरे। बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोक¦ पु॰ नास्ति शोको यस्मात्
५ ब॰।
१ स्वनामख्यातेवृक्षे,
२ बकुलवृक्षे च।
३ पारदे न॰।
४ कटुकवृक्षे स्त्री।
६ त॰।
५ शोकशून्ये त्रि॰
६ विष्णौ पु॰
“सत्यनामा भवाशोकः”
“अशोकः शोकनाशनः” इति च विष्णुस॰।
“अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचि-नोऽध्वगान्। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वल-दस्त्रजालकम्” नैष॰
“सनूपुररवेण स्त्रीचरणेनाभि-ताडनम्। दोहदं तदशोकस्य ततः पुष्पोद्गमोभवेत्” एतदनुसारेणैव कविभिस्तया वर्ण्ण्यते यथा
“असूतसद्यः कुसुमान्यशोकःस्कन्धात् प्रभृत्येव सपल्लवानि। पादेननापैक्षत सुन्दरीणां संस्पर्शमाशिञ्जितनूपुरणेन” कुमा॰नवकिसलयरागेणार्द्रपादेन बाला स्कुरितनखरुचा द्वौहन्तुमर्हत्यनेन। अकुसुमितमशोकं दोहदापेक्षया वाप्रणमितशिरसं वा कान्तमार्द्रापराधम्”
“अनेन तनुमध्ययामुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन सम्भा-वितः। अशोक! यदि सद्य एव मुकुलैर्न सम्पत्स्यसेमुधा वहसि दोहदमिति”
“सर्व्वाशोकलतानां प्रथमंसूचितवसन्तविभवानाम्। निर्वृत्ते दोहदेऽस्मिन् संक्रा-न्तानीव मुकुलानि” इति च मालवि॰। अयमशोकःनवपत्रिकान्तर्गतः
“कदली दाडिमी धान्यं हरिद्रामानकं कचुः। विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिकाः” दु॰ त॰। एतदधिष्ठात्री शोकरहिता
“अशो-कस्थायै शोकरहितायै” इति दुर्गापूजापद्धतिः। अशो-कश्च द्विविधः रक्ताशोकः पीताशोकश्च पीतरक्तपुष्पभेदेनतयोः तथात्वम्। तत्र रक्ताशोकाभिप्रायेण
“अशोकनिभर्त्सितपद्मरागम्” कुमा॰।
“रक्ताशोकलताविशेषितगुणो-विम्बाधरालक्तकः” मालवि॰ पीताशोकवर्ण्णन तु माल-विकाग्नि मित्रे तृतीयाङ्के तपनीयाशोकवर्णने दृश्यम्। [Page0485-b+ 38]
“अशीकोहेमपुष्पश्च वञ्जुलस्ताम्रपल्लवः। कङ्केलिः पिण्ड-पुष्पश्च गन्धपुष्पो नटस्तथा। अशोकः शीतलःस्निग्धो ग्राहीवर्ण्यः कषायकः। दोषापचीतृषादाहकृमिशोषविषास्र-जित्” भा॰ प्र॰ पर्य्यायगुणादि। चान्तः शोकाभावे त्रिका॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोक¦ mfn. (-कः-का-कं) Cheerful, not sorrowful. m. (-कः) A tree com- monly Asoka (Jonesia Asoca.) n. (-कं) Quicksilver. f. (-का)
1. A medicinal plant, see कटुकी।
2. One of the female domestic deities of the jainas. E. अ neg. and शोक sorrow.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोक [aśōka], a. Without sorrow, not feeling or causing sorrow. -कः N. of a tree having red flowers (Jonesia Asoka Roxb.); [said, according to the convention of poets, to put forth flowers when struck by ladies with the foot decked with jingling anklets and painted with lack-dye. Kālidāsa mentions the flowering of this tree in Spring (cf. Rs.6.5,16). The painted foot bears a striking resemblance in colour to the flowers of Asoka (cf. R.8.63). cf. असूत सद्यः कुसुमान्यशोकः... पादेन नापैक्षत सुन्दरीणां संपर्कमाशिञ्जितनूपुरेण Ku.3.26; Me.8; R.8.62; M.3.12.17; also पादाघातादशोकस्तिलककुरबकौ वीक्षणालिङ्गनाभ्याम् । स्त्रीणा स्पर्शात् प्रियङ्गुर्विकसति बकुलः सीधुगण्डूषसेकात् । मन्दारो नर्मवाक्यात् पटु- मृदुहसनाच्चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्- कर्णिकारः ॥]
N. of Viṣṇu.
N. of a minister of king Dasaratha. (v. l. for अकोप. Rām.1.7.3).
N. of a celebrated king of the Maurya dynasty, said to have reigned from 234-198 B. C.
N. of the बकुल. tree अशोको व़ञ्जुले माने द्रुमनिःशोकयोर्मतः । वर्तते कटुरोहिण्याम्... Nm.
Joy, happiness; अशोकजैः प्रीतिमयैः कपिमालिङ्गय संभ्रमात् । सिषेच भरतः श्रीमान्विपुलैरश्रुबिन्दुभिः ॥ Rām.6.125.42. -का
N. of a medical plant (कटुक; Mar. कुटकी).
The sixth day in the first half of Chaitra.
One of the female domestic deities of the Jainas.
कम् Quicksilver.
The blossom of the Asoka plant (forming one of the five arrows of Cupid). -Comp. -अरिः the कदम्ब tree (Mar. कळंब). -अष्टमी [नास्ति शोको यस्याः कर्म˚ स.] the eighth day in the first half of Chaitra. -तरुः, -नगः, -वृक्षः the Asoka tree. -तीर्थम् a holy place named Aśoka near Benares. -त्रिरात्रः, -त्रम् N. of a festival or व्रत which lasts for three nights; B. P. (उत्तरपर्व) अस्त्यशोकत्रिरात्राख्यं व्रतं शोकभयापहम् । त्रिरात्रं तच्च कर्तव्यं व्रतं शोकविनाशनम् ॥. -पूर्णिमा N. of a certain holiday, a ceremony to be observed on the 15th day of the month of Phālguna. -मञ्जरी N. of a metre. -रोहिणी N. of a medical plant (कटुका). -वनिका a grove of Aśoka trees; प्रविवेश महाबाहुरशोकवनिकां तदा Rām.7.42.1. ˚न्याय see under न्याय. -षष्ठी N. of a certain holiday; चैत्रे मास्य- सिते पक्षे षष्ठयां षष्ठीं प्रपूजयेत् । सुखाय पुत्रलाभाय शुक्लपक्षे तथैव च ॥.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अशोक/ अ-शोक mf( आ)n. (1. शुच्) , not causing sorrowN. ; Lalit.
अशोक/ अ-शोक mf( आ)n. not feeling sorrow Nalo7d.
अशोक/ अ-शोक m. the tree Jonesia Asoka Roxb. (a tree of moderate size belonging to the leguminous class with magnificent red flowers) MBh. etc.
अशोक/ अ-शोक m. N. of a minister of king दशरथR. i , 7 , 3
अशोक/ अ-शोक m. of a well-known king (in पाटलिपुत्र) MBh. Buddh. etc.
अशोक/ अ-शोक m. a female name , ( g. शुभ्रा-दिSee. )
अशोक/ अ-शोक m. N. of one of the female deities of the जैनs L.
अशोक/ अ-शोक n. the blossom of the अशोकplant Vikr. , (See. Pa1n2. 4-3 , 166 Siddh. )
अशोक/ अ-शोक n. quicksilver L.
अशोक/ अ-शोक mfn. (3. शुच्) , without heat S3Br. xiv.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a कुलपर्वत of the केतुमाल. वा. ४४. 4.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
AŚOKA I : The charioteer of Bhīmasena. When Bhīma- sena was fighting a battle with Śrutāyu the King of Kaliṅga, this charioteer brought the chariot to him. (M.B., Bhīṣma Parva, Chapter 54, Stanzas 70 and 71).
_______________________________
*5th word in left half of page 59 (+offset) in original book.
AŚOKA II : A minister of King Daśaratha. Daśaratha had eight ministers. They were Jayanta, Dhṛṣṭi, Vijaya, Asiddhārtha, Arthasādhaka, Aśoka, Mantrapāla and Sumantra. (Vālmīki Rāmāyaṇa, Bālakāṇḍa, Sarga 7).
_______________________________
*6th word in left half of page 59 (+offset) in original book.
AŚOKA III : A King of the family of the famous Asura Aśva. This king had been ruling over Kaliṅga. (Ādi Parva, Chapter 67, Stanza 14).
_______________________________
*7th word in left half of page 59 (+offset) in original book.