अश्मरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी, स्त्री, (अश्मानं राति ददाति या । अश्मन् + रा + क + गौरादित्वात् ङीप् । मूत्रकृच्छ्ररोगो हि मूत्रद्वारे प्रस्तरमिव कठिनमांसं रचयति ।) मूत्रकृच्छ्ररोगः । पातरी इति भाषा । यथा । अथाश्मर्य्यधिकारः । अत्राश्मर्य्याः सन्निकृष्टनिदानं सङ्ख्याञ्चाह । “वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता । प्रायः श्लेष्माश्रयाः सर्व्वा अश्मर्य्यः स्युर्यमोपमाः” ॥ श्नेष्माश्रयाः श्लेष्मसमवायिकारणाः । शुक्रजां विना । शुक्रजायास्तु शुक्रस्यैव समवायिकारण- त्वात् । अन्ये तु शुक्राश्मर्य्यामपि कफकारणत्व- मिच्छन्ति । प्रायःशब्दश्चात्र विशेषार्थः । यमो- पमाश्चिकित्सां विना ॥ * ॥ सम्प्राप्तिमाह । “विशोषयेद्वस्तिगतं सशुक्रं मूत्रं सपित्तं पवनः कफं वा । यदा तदाश्मर्य्युपजायते तु क्रमेण पित्तेष्विव रोचना गोः ॥ पवनो वस्तिगतं सशुक्रं मूत्रं सपित्तं कफं वा शोषमुपनयेत् यदा तदा अश्मरी क्रमेण क्रमशो वर्द्धमाना । यथा गोः पित्तेषु रोचनेवेत्यन्वयः ॥ * ॥ पूर्ब्बरूपमाह । “नैकदोषाश्रयाः सर्व्वा अथासां पूर्ब्बरूक्षणं । वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ॥ मूत्रे वस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः” । वस्तः छगलकः ॥ * ॥ सामान्यलक्षणमाह । “सामान्यलिङ्गं रुङ्नाभिसेवनीवस्तिमूर्द्धसु । विशीर्णधारं मूत्रं स्यात् तया मार्गनिरोधने ॥ तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमं । तत्संक्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत्” ॥ वस्तिमूर्द्धा नाभेरधोदेशः । विशीर्णधारं सवि- च्छेदधारं । तया अश्मर्य्या । मार्गः मूत्रवाहि स्रोतः । तद्व्यपायात् कदाचिद्वायुना अश्मर्य्या मूत्रमार्गादन्यत्र गमनात् । सुखं मेहेत् मूत्रयेत् । गोमेदकोपमं गोमेदको मणिः किञ्चिल्लोहित- स्तद्वर्णं । तत्संक्षोभात् तस्या अश्मर्य्याः सञ्चारात् । घर्षणेन मूत्रवहे स्रोतसि क्षते जाते सास्रं सरक्तं मेहेत् । आयासात् प्रवाहनादिजनितात् ॥ * ॥ वातोल्वणामाह । “तत्र वाताद्भृशं त्वार्त्तो दन्तान् खादति वेपते । मृद्गाति मेहनं नाभिं पीडयत्यपि सङ्क्वणन् ॥ सानिलं मुञ्चति शकृन्मुहुर्म्मेहति विन्दुशः । श्यावारुणाश्मरी चास्य स्याच्चिता कण्टकैरिव” ॥ सङक्वणन् आर्त्तनादं कुर्व्वन् नाभिदेशं पीडयति । यदि नोपशमं गच्छेत् छेदस्तत्रोत्तरो विधिः ॥ कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा । उपक्रमो जद्यन्योऽयमतः स परिकीर्त्तितः ॥ अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् । तस्मादापृच्छ्य कर्त्तव्यमीश्वरं साधुकारिणा” ॥ अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत् क- शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतवलिमङ्गल- स्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपक- ल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लव- माजानुसमे फलके प्रागुपवेश्य पुरुषञ्च तस्योत्सङ्गे निषन्नपूर्ब्बकायमुत्तानमुन्नतकटीकं वस्त्रधारकोप- विष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं सूत्रेण शाटकैर्व्वा ततः स्वभ्यक्तनाभिप्रदेशस्य वामपार्श्वं विमृद्य मुष्टिनावपीडयेदधोनाभेर्याव- दश्मर्य्यधः प्रपन्नेति । ततः स्नेहाभ्यक्ते कॢप्तनखे वातहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसे- वनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय निर्व्यलीकमनायतमविषमञ्च वस्ति सन्निवेश्य भृश- मुत्पीडयेदङ्गुलिभ्यां यथाग्रन्थिरिवोन्नतं शल्यं भवति ॥ “सचेद्गृहीतशल्ये तु विवृताक्षो विचेतनः । हतवल्लम्बशीर्षश्च निर्व्विकारो मृतोपमः ॥ न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः । विना त्वेतेषु रूपेषु निर्हर्त्तुं समुपाचरेत् ॥” इति सुश्रुतः ॥ “अयोरजः श्नक्ष्णपिष्टं मधुना सह योजयेत् । अश्मरीं विनिहन्त्याशु मूत्रकृच्छ्रञ्च दारुणं ॥” ॥ * ॥ लौहप्रयोगः ॥ * ॥ इति वैद्यकरसेन्द्रसारसंग्रहः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी स्त्री।

मूत्रकृच्छ्रम्

समानार्थक:अश्मरी,मूत्रकृच्छ्र

2।6।56।3।1

व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः। श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः। अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी¦ स्त्री अश्मानं राति रा--क गौरा॰ ङीष्। मूत्रकृच्छ्र-रोगे स हि मूत्रद्वारा प्रस्तरमिव कठिनमांसं रेचयतिइति तस्य तथात्वम्। तन्निदानादि सुश्रुते उक्तं यथा।
“अथातोऽश्मरीणां निदानं व्याख्यास्यामः॥ चतस्रोऽश्मर्य्योभवन्ति श्लेष्माधिष्ठानास्तद्यथा श्लेष्मणा वातेन पित्तेन शु-क्रेण चेति॥ तत्रासंशोधनशीलस्यापथ्यकारिणः प्रकुपितःश्लेष्मा मुत्रसम्पृक्तोऽनुप्रविश्यवस्तिम्, अश्मरीं जनयति तासांपूर्ब्बरूपाणि वस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्क-शेफसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वं मूत्रस्येति॥ यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलम्। पूर्व्वरूपेऽश्मनःकृच्छ्रान्मूत्रं सृजति मानवः॥ अथ जातासु नाभिवस्ति-सेवनीमेहनेष्वन्यतमे मेहतोवेदना मूत्रधारासङ्गः सरु-धिरमूत्रता मूत्रविकिरणञ्च गोमेदं प्रकाशमनाविलं ससि-कतं विसृजति धावनलङ्घनप्लवनपृष्ठेयानाध्वगमनैश्चास्यवेदना भवति॥ तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽ-त्यर्थमुपलिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतोनिरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते मिद्यते निस्तुद्यत इववस्तिर्गुरुः शीतश्व भवति। अश्मरी चात्र श्वेता स्निग्धामहती कुक्कुटाण्डप्रतीकाशा मधूकपुष्पवर्ण्णा वा भवति तांश्लैष्मिकीमिति विद्यात्॥ पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्ययथोक्तां परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरु-णद्धि तस्य मूत्रप्रतिघातादुष्यते चूष्यते दह्यते पच्यत इववस्तिरुष्णवातश्च भवति। अश्मरी चात्र सरक्ता पीतावभासाकृष्णा भल्लातकास्थिप्रतिमा मधुवर्ण्णा वा भवति तां पैत्तिकी-मिति विद्यात्॥ वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तांपरिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि तस्यमूत्रप्रतिघातात्तीव्रा वेदना भवति तथात्यर्थं पीड्यमानोदन्तान् खादति नाभिं पीडयति मेढ्रं मृद्गाति पायुं स्पृश-[Page0495-b+ 38] ति विशर्द्धते विदहति वातमूत्रपुरीषाणि कृच्छ्रेण वास्यमेहतो निःसरन्ति। अश्मरी चात्र श्यामा परुषा विषमाखरा कदम्बपुष्पवत्कण्टकाचिता भवति तां वातिकीमिति वि-द्यात्। प्रायेणैतास्तिस्रो ऽश्मर्य्यो दिवास्वप्नसमशनाध्यशनशीत-स्निग्धगुरुमधुराहारप्रियत्वाद्विशेषेण बालानां भवन्ति। तेषा-मेवाल्पवस्तिकायत्वादनुपचितमांसत्वाच्च वस्तेः सुखग्रहणाहरणा भवन्ति॥ महतान्तु शुक्राश्मरी शुक्रनिमित्ता भवति। मैथुनाभिघातादतिमैथुनाद्वा शुक्रञ्चलितमनिर्गच्छद्विमार्गगम-नादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे संहरति संहृत्य-चोपशोषयति सा मुत्रमार्गमावृणोति मूत्रकृच्छ्रं वस्तिवेदनांवृषणयोश्च श्वयथुमापादयति पीडितमात्रे च तस्मिन्नेव प्रदे-शे प्रविलयमापद्यते तां शुक्राश्मरीमिति विद्यात्॥ भवन्तिचात्र॥ शर्करा सिकता मेहो भस्माख्योऽश्मरिवैकृतम्॥ अश्मर्य्याः शर्करा ज्ञेया तुल्यव्यञ्जनवेदना॥ पवनेऽनुगुणेसा तु निरेत्यल्पा विशेषतः। सा भिन्नमूत्तिर्वातेन शर्करेत्य-भिधींयते॥ ह्वत्पीडासक्थिसदमं कुक्षिशूलः सवेपथुः। तृष्णोर्द्ध्वगोऽनिलः कार्ष्ण्यं दौर्ब्बल्यं पाण्डुगात्रता॥ अ-रोचकाविपाकौ तु शर्करार्त्ते भवन्ति च। मुत्रमार्गप्रवृत्तासा सक्ता कुर्य्यादुप्रद्रवान्॥ दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशू-लमरोचकम्। पाण्डुत्वमुष्णवातञ्च तृष्णां हृत्पीडनं वमिम्॥ नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम्। एकद्वारस्तनुत्वक्को मध्येवस्तिरधोमुखः॥ अलाद्वा इव रूपेण सिरास्नायुपरिग्रहः। वस्तिर्व्वस्तिशिरश्चैव पौरुषं वृषणौ गुदम्॥ एकसम्बन्धिनोह्येते गुदास्थिविवरस्थिताः। मूत्राशयो मलाधारः प्राणा-यतनमुत्तमम्॥ पक्काशयगतास्तत्र नाड्यो मूत्रवहास्तु याः॥ तर्प्पयन्ति सदा मूत्रं सरितः सागरं यथा॥ सूक्ष्मत्वा-न्नोपलभ्यन्ते मुखान्यासां सहस्रशः। नाडीमिरुपनीतस्यमूत्रस्यामाशयान्तरात्॥ जाग्रतः स्वपतश्चैव स निःष्यन्देनपूर्य्यते। आमुखात्सलिले न्यस्तः पार्श्वेभ्यः पूर्य्यते नवः॥ घटो यथा तथा विद्धि वस्तिर्मूत्रेण पूर्य्यते। एवमेव प्रवे-शेन वातः पित्तं कफोऽपि वा॥ मूत्रयुक्त उपस्नेहात् प्र-विश्य कुरुतेऽश्मरीम्। अप्सु स्वच्छास्वपि यथा निषिक्तासुनवे घटे॥ कालान्तरेण पङ्कः स्यादश्मरीसम्भवस्तथा। संह-न्त्यपो यथा दिव्या मारुतोऽग्निश्च वैद्युतः॥ तद्वद्वलासंवस्तिस्थमुष्मा संहन्ति सानिलः। मारुते प्रगुणे वस्तौ मूत्रंसम्यक् प्रवर्त्तते॥ विकारा विविधाश्चापि प्रतिलोमे भवन्तिहि॥ मूत्राघाताः प्रमेहाश्च शुक्रदोषास्तथैव च। मूत्रदोषाश्चये केचिद्वस्तावेव भवन्ति हि” सुश्व॰
“अश्मरीं क्षप-[Page0496-a+ 38] यत्याशु सिकताशर्करान्विताम्” सुश्रु॰। अयञ्च महा-पापजत्वान्महारोगः।
“उन्मादस्त्वग्दोषो राजयक्ष्माश्वासोमधुमेहो भगन्दरः। उदरोऽश्मरीत्यष्टौ महा-रोगाः” शु॰ त॰ नार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी¦ f. (-री)
1. Strangury.
2. Stone or gravel, (the disease.) E. अश्मर stony, and ङीप् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी [aśmarī], [अश्मानं राति रा-क गौरा˚ ङीष्] (In medicine) A disease called stone (in the bladder), gravel, strangury. -Comp. -घ्नः N. of the tree वरुण (used as a lithontriptic). -भेदनम् a lithontriptic. -हरः N. of the tree Pentaptera Arjuna, used as a lithontriptic (Mar. वायवरणा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्मरी f. ( Pa1n2. 4-2 , 80 ) , (in comp. sometimes अश्मरिSus3r. )strangury , stone or gravel (the disease) Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=अश्मरी&oldid=489559" इत्यस्माद् प्रतिप्राप्तम्