अश्लेषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लेषा, स्त्री, (नास्ति श्लेषो यस्याम् ।) अश्वि- न्यादिसप्तविंशतिनक्षत्रान्तर्गतनवमनक्षत्रं । अस्य रूपं । चक्राकृतिषड्नक्षत्रात्मकं । इति दीपिका ॥ तस्याधिदेवता सर्पः ॥ यथा । अश्वि-यम दहन- कमलज-शशि-शूलभृददिति-जीव-फणि-पितरः । इत्यादि ज्योतिस्तत्त्वं ॥ सा केतुग्रहस्य जन्मनक्षत्रं । यथा, -- “विशाखानलतोयानि वैष्णवं भगदैवतं । पुष्या पौष्णं यमः सर्पो जन्मभान्यर्कतः क्रमात्” ॥ इति दीपिका ॥ सा च अधोमुखगणः । यथा, -- “अश्लेषवह्नियमपित्र्यविशाखयुक्तं पूर्ब्बात्रयं शतभिषा च नवाप्युडूनि । एतान्यधोमुखगणानि शिवानि नित्यं विद्यार्घ्यभूमिखननेषु च शोभितानि” ॥ इति ज्योतिस्तत्त्वं ॥ * ॥ तस्या मस्तकोपरि उदये रात्रिलग्ननिरूपणं यथा, -- “मौलिगे भुजगभे श्वपुच्छके भङ्गुराकृतिनि सप्ततारके । मारकेलिरसिके तुलोदयात् निर्ययुर्ज्जलधिखाक्षिलिप्तिकाः” ॥ ३ । २४ । इति कालिदासकृतरात्रिलग्ननिरूपणं ॥ तत्र जातफलं ॥ “वृथाटनः स्यादतिदुष्टचेताः कष्टप्रदश्चापि वृथा जनानां । सर्पे सदर्पो हि शठार्पितार्थः कन्दर्पसन्तप्तमना मनुष्यः” ॥ इति कोष्ठीप्रदीपः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लेषा¦ स्त्री न श्लिष्यति यत्रोत्पन्न न शिशुना श्लिष--घञ् न॰त॰। सप्तविंशतिधा विभक्तराशिचक्रस्य नवमे नक्षत्रे तन्नक्षत्रजातस्य शिशोःपित्रादिभिराषण्मासं दर्शनाभावस्याश्लेषाशा-न्तिशब्देवक्ष्यमाणस्य सूचकतया तस्या अश्लेषात्वम्। तत्स्वरू-पादि निरूपणाय सर्व्वताराणां स्वरूपं, संख्यविशेषः, योग-[Page0497-b+ 38] ताराश्च प्रसङ्गादत्राभिधीयन्ते यथाह श्रीपतिः।


१ तुरग-मुखसमृद्धं

२ योनिरूपं

३ क्षुराभं

४ शकटनिभमथैणस्यो-त्तमाङ्गेन

५ तुल्यम्।

६ मणि

७ गृह

८ शर

९ चक्राभानि

१० शालोपमं च

११ शयनसदृशमन्यच्चात्र

१२ पर्य्यङ्करूपम्।

१३ हस्ताकारमजस्रमौक्तिकसमं

१४ चान्यत्

१५ प्रबालोप-मम् धिष्ण्यं तोरणवत्

१६ स्थितं

१७ बलिनिभं स्यात्कुण्डलाभं

१८ परम्। क्रुध्यत्केशरिविक्रमेण सदृशं

१९ शय्यासमानं

२० परम् चान्यद्दन्तिविलासवत्

२१ स्थितमतः (अभि-जित्) शुङ्गाटकव्यक्ति च।

२२ त्रिविक्रमाभञ्च

२३ मृदङ्ग-रूपं

२४ वृत्तं ततोऽन्यद्यमलद्वयाभम्

२५ ।

२६ पर्य्यङ्कतुल्यं

२७ मुरजानुकारमित्येवमश्व्यादिभचक्ररूपम्” अत्राङ्कानु-सारेणाश्व्यादीनां रूपाणि ज्ञेयानि।
“वह्नित्रि ऋत्विषुगुणेन्दुकृताग्निभूतवाणाग्निनेत्रशरभूकुनगाग्निरामाः। रुद्राब्धि-रामशुचिवेदशतद्वियुग्मदन्ता बुधैर्निगदिताः क्रमशोभताराः”। यथा त्रिताराश्विनो भरणी च। षट्ताराः कृत्तिका। पञ्च-तारा रोहिणी। त्रितारा मृगशिरा। एकतारा आर्द्रा,चतुस्तारा पुनर्वसुः त्रितारा पुष्या, पञ्चतारा अश्लेषामधा च त्रितारा पूर्ब्बफल्गुनी द्वितारा उत्तरफल्गुनीपञ्चतारा हस्ता, एकतारा चित्रा, स्वातिश्च सप्तताराविशाखा, त्रितारा अनुराधा ज्येष्ठा च। एकादशतारामूला, चतुस्तारा पूर्व्वाषाढा त्रितारा उत्तराषाढा, श्रवणाचतुस्तारा धनिष्ठा शततारा शतभिषा। द्वितारापूर्व्वभाद्रपदा उत्तरभाद्रपदा च द्वात्रिंशत्तारा रेवती” एषांयोगतारा सूर्य्यसि॰।
“फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढ-योर्द्वयोः। विशाखाश्विनसौम्यानां योगतारोत्तरा” स्मृताएषामुक्तनक्षत्राण्णां प्रत्येकं स्वतारासु मुख्या उत्तराउत्तरदिक्स्था तारा योगतारा।
“पश्चिमोत्तर-तारा या द्वितीया पश्चिमे स्थिता। हस्तस्य योगतारासा श्रविष्ठायाश्च पश्चिमा” सू॰ सि॰। हस्तनक्षत्रं पञ्च-तारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारं ततो नैरृत्यदिग-वस्थिता पश्चिमावस्थितताराया उत्तरदिगाश्रिततारायाद्वितीया पूर्व्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थितासा हस्तस्य योगतारा ज्ञेया, उत्तरतारासन्ना पश्चिमाश्रितातारा हस्तस्य योगतारा” धनिष्ठायास्तारासु या पश्चिम-दिक्स्था सा तस्या योगतारा इति च रङ्गना॰।
“ज्येष्ठाश्रवणमैत्राणां वार्हस्पत्यस्य मध्यमा। भरण्याग्नेयपित्याणांरेवत्याश्चैव दक्षिणा” सू॰ सि॰
“ज्येष्ठाश्रवणानुराधानांपुष्यस्य च प्रत्येकं तारात्रयात्मकत्वात् मध्यमतारा योग-[Page0498-a+ 38] तारा” रङ्गना॰।
“रोहिण्यादित्यमूलानां प्राची सार्पस्यचैव हि। तथा प्रत्यवशेषाणां स्थूला स्यात् योगतारका” सू॰ सि॰ रोहिणीपुनर्वसुभूलानामश्लेषायाश्च प्रत्येकंस्वतारासु पूर्ब्धदिक्स्था तारा योगतारा। अवशिष्टानांआर्द्राचित्रास्वात्यभिजिच्छतताराणां यथायोग्यं स्वतारासुयात्यन्तं स्थूला सा योगतारा नक्षत्रप्रसङ्गात्ब्रह्मादिनक्षत्राणामपि स्थितिस्थानमुक्तं तत्रैव।
“पूर्ब्बस्यांब्रह्महृदयादंशकैः पञ्चभिः स्थितः। प्रजापतिर्वृषान्ते-ऽसौ सौम्येऽष्टत्रिशदंशकैः” सू॰ सि॰ ब्रह्महृदयस्था-नात् पूर्व्वभागे पञ्चभिरंशैः वृषान्तनिकटे एकराशिसप्तविं-शत्यंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। अस्य विक्षेपमाह असाविति। असौ ब्रह्मा सौम्ये उत्तरस्यांअष्टत्रिंशैः स्थित इत्यर्थः रङ्गना॰।
“अपांवत्सश्च चित्रा-याउत्तरेऽशैस्तु पञ्चभिः। वृहत् किञ्चिदतो भागैरापःषड्भिस्तथोत्तरे” सू॰ सि॰।
“तिष्यपुनर्वसूद्वन्द्वे पा॰ सू॰व्याख्यायां सरलायामस्माभिर्यत् पुनर्वसोर्द्वितारत्वमुक्तंतन्मनोरमादिमूलतया प्रामादिकमेव। एतच्छास्त्रालोच-नेन पुनर्वसुनक्षत्रस्य चतुस्तारात्मकत्वं पुष्यस्थ त्रितारात्म-कत्वं तेन बहुत्वे प्राप्ते द्वित्वविधायकं सूत्रं सार्थकमितिद्रष्टव्यम्।
“पादः पुनर्व्वमोरन्त्यः पुष्यो ऽश्लेषा च कर्कट”। ज्योति॰ नक्षत्राधिपा उक्ताः वृहत्सं॰।
“अश्वियम-दहनकमलजशशिशूलभृददितिजोवफणिपितरः। योन्य-र्य्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राः। शक्रोनिरृति-स्तोयं विश्वविरिञ्ची हरिर्वरुणः। अजपादोहिर्बुध्नःपूषा चेतीश्वरा भानाम्”।
“चित्राश्लेषास्वातिविशाखाभरणीपित्र्येशकृत्तिकाः। नातिशस्ताः प्रयाणेषु” ज्यो॰ त॰अस्य क्लीवत्वमपि
“अश्लेषवह्नियमपित्र्यविशाखयुक्तपूर्ब्बात्रयं शतभिषा च नवाप्यूडूनि” एतान्यधोमुख-गणानि कयितानि नित्यं विद्यार्थभूमिखननेषु च भूषि-तानि” ज्यो॰ त॰। तथा च नक्षत्रपरत्वे न॰ तारा-परत्वे स्त्रीत्वम्। एवं मूलाश्रवणादीनामपि द्विलिङ्गत्वम्। इयं तीक्ष्णगणः
“तीक्ष्णोऽहिरुद्रेन्दुयुक्” ज्यो॰ त॰ नास्तिश्लेषो यस्य।

२ असंबन्धे त्रि॰। श्लेषः काव्ये नानार्थपरतास नास्ति यत्र।

३ श्लेषशून्ये काव्ये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लेषा¦ f. (-षा)
1. The ninth Nakshatra or lunar mansion, containing five stars.
2. Disunion, disjunction. E. अ neg. and श्लेष union.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लेषा [aślēṣā], [न श्लिष्यति यत्रोत्पन्नेन शिशुना, श्लिष्-घञ् Tv.]

The 9th Nakṣatra of lunar mansion containing five stars.

Disunion, disjunction. -Comp. -जः, -भवः, -भूः N. of Ketu, i. e. the descending node. -शान्तिःf. an expiatory ceremony performed on account of the birth of a child under the Aśleṣā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्लेषा/ अ-श्लेषा f. sg. pl. (= अश्लेषाSee. )N. of the seventh (in later times the ninth) lunar mansion (containing five stars) MBh. xiii , 3262 Jyot. VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अश्लेषा&oldid=489589" इत्यस्माद् प्रतिप्राप्तम्