अश्वगन्धा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वगन्धा, स्त्री, (अश्चस्य गन्ध एकदेशोमेढ्रनिव मूल- मस्याः ।) स्वनामख्यातक्षुद्रवृक्षविशेषः । अश्वगन्ध इतिख्याता । तत्पर्य्यायः । हयगन्धा २ वाजि- गन्धा ३ अश्वगन्धिका ४ बल्या ५ तुरगगन्धा ६ कम्बुका ७ अश्वावरोहिका ८ कम्बुकाष्ठा ९ अव- रोहिका १० वाराहकर्णी ११ तुरगा १२ वनजा १३ वाजिनी १४ हया १५ पुष्टिदा १६ बलदा १७ पुष्टिः १८ पीवरा १९ पलाशपर्णी २० वातघ्नी २१ श्यामला २२ कामरूपिणी २३ काला २४ प्रिय- करी २५ गन्धपत्री २६ हयप्रिया २७ वाराहपत्री २८ अस्या गुणाः । कटुत्वं । उष्णत्वं । तिक्तत्वं । मदगन्धित्वं । बलशुक्रकारित्वं । वायुकाशश्वास- क्षयव्रणजराव्याधिनाशित्वञ्च । इति रत्नमाला- राजनिर्घण्टराजबल्लभाः ॥ “गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया । वाराहकर्णी वरदा वरदा कुष्ठगन्धिनी” ॥ क्वचित्पुस्तके अन्त्यवरदास्थाने वदरीति पाठः । “अश्वगन्धानिलश्लेष्मश्वित्रशोथक्षयापहा । बल्या रसायनी तिक्ता कषायोष्णातिशुक्रला” ॥ इति भावप्रकाशः ॥ (“यवाश्वगन्धा यष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम् । शतावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः” ॥ इति सुश्रुते ॥ “अश्वगन्धाशु वातघ्नी बल्या वृष्या रसायणी” ॥ इति वैद्यकद्रव्यगुणः ॥ “पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत् । घृतं पेयं कुमाराणां पुष्टिकृद्वलबर्द्धनं” ॥ ॥ * ॥ अश्वगन्धाघृतं ॥ * ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वगन्धा¦ स्त्री अश्वस्य गन्ध एकदेशोमेढ्रमिव मूलमस्याः। वराहकर्णतुल्यपत्रे स्वनामख्याते क्षुद्रवृक्षभेदे।
“गन्धान्तोवाजिनामादिरश्वगन्धा हयाह्वया। वराहकर्ण्णी वरदाऽवरो-हा कुष्ठघातिनी। अश्वगन्धानिलश्लेष्मपित्तशोथक्षयापहा। वल्या रसायनी तिक्ता कषायोष्णातिपिच्छला” भा॰ प्र॰उक्तेः हयादिकगन्धान्तनामिका हयनामिका च
“यवा-श्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनम् हितम्”।
“शतावर्य्यश्व-गन्धाभ्यां वायस्येरण्डजीवनैः” इति च सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वगन्धा¦ f. (-न्धा) A plant, (Physalis flexuosa.) E. अश्व, and गन्ध smell; having the smell of a horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वगन्धा/ अश्व--गन्धा f. the plant Physalis Flexuosa Sus3r. Comm. on Ka1tyS3r.

"https://sa.wiktionary.org/w/index.php?title=अश्वगन्धा&oldid=489604" इत्यस्माद् प्रतिप्राप्तम्