अश्वत्थामन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्वत्थामन्¦ पु॰ अश्वस्येव स्थाम बलमस्य अश्वैव तिष्ठति युद्धेस्थिरत्वात् स्था--क वा पृषो॰। भारतप्रसिद्धे

१ द्रोणाचार्य्यकृ-पीसुते वीरे।
“गोतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः। अश्वत्थाम्नस्तु जननी कृपश्चैव महाबलः। अश्वत्थामा ततो-जज्ञे द्रोणादेव महाबलः” भा॰ आ॰ प॰। तस्य नाम-निरुक्तिरपि दर्शिता भा॰ आ॰

१३

० अध्या॰। यथा
“शारद्वतीं ततोभार्य्यां कृपीं द्रोणोऽन्वविन्दत। अग्निहोत्रेच धर्मे च दमे च सततं रताम्। अलभद्गौतमी पुत्र-मश्वत्थामानमेव च। स जातमात्रो व्यनदद्यथैवोच्चैः-श्रवाहयः। तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत्। अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम्। अश्वत्था-मैव बालोऽयं तस्मान्नाम्ना भविष्यति”
“अश्वस्य स्था-म्नोऽकारः वार्ति॰ अकारः। अश्वत्थामः। भवार्थे तु तस्यलुप् अश्वत्थामा तद्भवे।

२ भारतप्रसिद्धे पाण्डवसैन्यस्थेमालवेशेन्द्रवर्म्मणः

२ गजभेदे तत्कथा च
“मतिमान् श्रेयसेयुक्तः केशवोऽर्ज्जुनमब्रवीत्। नैष युद्धेन संग्रामे जेतुं शक्यःकथञ्चन। सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः। न्यस्तशस्त्रस्तु संग्रामे शक्यो हन्तुं भवेन्नृभिः। आस्थी-यतां जये योगो धर्ममुत्सृज्य पाण्डवाः!। यथा नःसंयुगे सर्व्वान्न हन्याद्रुक्मवाहनः। अश्वत्थाम्नि हतेनैष युध्येदिति मतिर्मम। तं हतं संयुगे कश्चिदस्मै शंसतुमानवः। एतन्नारोचयद्राजन्! कुन्तीपुत्रो धनञ्जयः। अन्ये त्वरोचयन् सर्वे कृच्छ्रेण तु युधिष्ठिरः। ततो भीमोमहाबाहुरनीके स्वे महागजम्। जघान गदया राज-न्नश्वत्थामानमित्युत। परप्रमथनं घोरं मालवस्येन्द्रवर्म्मणः। भीमसेनस्तु सव्रीड उपेत्य द्रोणमाहवे। अश्वत्थामा हतइति शब्दमुच्चैश्चकार सः। अश्वत्थामेति हि गजः ख्यातोनामाहतोऽभवत्। कृत्वा मनसि तं भीमो मिथ्या व्या-हृतवांस्तदा। भीमसेनवचः श्रुत्वा द्रोणस्तत्परमप्रियम्। मनसा सन्नगात्रोऽभूत् यथा सैकतमम्भसि। शङ्कमानः सतन्मिथ्या वीर्य्यज्ञः स्वसुतस्य वै। हतः स इति च श्रुत्वानैव धैर्य्यादकम्पत”।
“सन्दह्यमानो व्यथितः कुन्तीपुत्रंयुधिष्ठिरम्। अहतं वा हतं वेति पप्रच्छ सुतमात्मनः। स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यते ऽनृतम्। त्रया-णामपि लोकानामैश्वर्य्यार्थे कथञ्चन। तस्मात्तं परिपप्रच्छनान्यं कञ्चिद्द्विजर्षभः। तस्मिंस्तस्य हि सत्याशाबाल्यात्प्रभृति पाण्डवे। ततो निष्पाण्डवामुर्व्वीं करि-ष्यन्तं युधाम्पतिम्। द्रोणं ज्ञात्वा धर्मराजं गोविन्दो[Page0508-a+ 38] व्यथितोऽब्रवीत्। यद्यर्द्धदिवसं द्रोणो युध्यते मन्युमा-स्थितः। सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति। स भवांस्त्रातु नो द्रोणात् सत्याज्ज्यायोऽनृतं पुनः। अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः। कामिनीषुविवाहेषु गवां भक्ते तथैव च। ब्राह्मणाभ्युपपत्तौ चअनृते नास्ति पातकम्। तयोः संवदतोरेवं भीमसेनो-ऽब्रवीदिदम्। श्रुत्वैवं ते महाराज बधोपायं महात्मनः। गाहमानस्य मे सेनां मालवस्येन्द्रवर्म्मणः। अश्वत्थामेतिविक्रान्तो गजः शक्रगजोपमः। निहतो युधि विक्रम्यततोऽहं द्रोणमब्रुवम्। अश्वत्थामा हतो ब्रह्मन्निवर्त्त-स्वाहवादिति। नूनं नात्र मृषावाक्यमेवं मे पुरुषर्षभ। स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः। द्रोणायनिहतं शंस राजन्! शारद्वतीसुतम्। त्वयोक्तो नैष युध्येतजातु राजन् द्विजर्षभः। सत्यवान् हि त्रिलोकेऽस्मिन्भवान् ख्यातो जनाधिप!। तस्य तद्वचनं श्रुत्वा कृष्ण-वाक्यप्रचोदितः। भावित्वाच्च महाराज! वक्तुं समुपचक्रमे। तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः। अव्यक्तमब्रवी-द्वाक्यं हतः कुञ्जर इत्युत। तस्य पूर्ब्बं रथः पृथ्य्वांचतुरङ्गुलमुन्नतः। बभूवैवन्तु तेनोक्ते तस्य वाहोऽस्पृश-न्महीम्”।
“अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वास्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा” इतिवेणीसं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्वत्थामन्¦ m. (-मा) The name of a saint and warrior, the son of DRONA. E. अश्व, स्था to stand or stay, and मनिन् affix; the story is that at his birth he made a noise like a horse; also with a final vowel अश्वत्थाम।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्वत्थामन् [aśvatthāman], m. [अश्वस्येव स्थाम बलमस्य, पृषो˚ समासः; cf. Mb. अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालो$यं तस्मान्नाम्ना भविष्यति ॥] N. of a celebrated Brāhmaṇa warrior and general on the side of the Kauravas, son of Droṇa and Kṛipī. [After the last great battle in which Duryodhana was mortally wounded, Aṣvatthāman, with two other surviving Kauravas, entered the Paṇdava camp at night, where he stamped Dhṛiṣṭadyumna, the slayer of his father, to death and killed the five young sons of Pāṇḍavas, killing even Parīkṣit while yet in the mother's womb who was, however, restored to life by Kṛiṣṇa. The next morning Draupadī clamoured for revenge upon the murderer of her children, but she consented to forego her demand for his blood if the precious jewel he wore on his head were brought to her. Bhīma, Arjuna, and Kṛiṣṇa overtook Aśvatthāman and compelled him to yield the jewel which, Yudhiṣṭhira afterwards wore on his head. He is represented as a very brave, fiery-tempered, young warrior, the embodiment of Brāhmanic and saintly lustre, and his altercation with Karṇa about the nomination of a general to succeed Droṇa clearly brings out the chief features of his character; see Ve. 3rd act. He is one of the 7 Chirajivins 'ever-living persons'.] cf. अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

अश्वत्थामन्/ अश्व--त्थामन् See. ss.vv. below.

अश्वत्थामन् mfn. id. Pa1n2. 4-1 , 85 Siddh.

अश्वत्थामन् m. N. of a son of द्रोणMBh.

अश्वत्थामन् m. of one of the seven ऋषिs of the period of मनुसावर्णिHariv. 453.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--son of द्रोण and गौतमी. (कृपि- वि। प्।). Killed the sons of द्रौपदी while asleep thinking that it would please his master. Fought with Arjuna, was defeated and taken prisoner. Roused द्रौपदी's pity in that state and was released after being deprived of his crown and hair. फलकम्:F1:  भा. I. 7. १४-52; Vi. IV. १९. ६८.फलकम्:/F Hit the infant in the womb of Uttara with ब्रह्मशिरस्। कृष्ण's protection of परीक्षित् in the womb from अश्वथामन्'s arrow, and of Arjuna from अश्वथा- man's arrows. फलकम्:F2:  भा. I. 8. १२; १२. 1; १५. १६; १६. १५.फलकम्:/F Destroyed the Kurus by his ब्रह्मास्त्र। फलकम्:F3:  भा. IX. २२. ३४.फलकम्:/F In Duryodhana's army. Survived कुरुक्षेत्र war. फलकम्:F4:  भा. X. ७८. [९५. (V) १६]; ८०[2].फलकम्:/F A sage of the first epoch of शावर्ण Manu फलकम्:F5:  वा. १००. १२; M. 9. ३२.फलकम्:/F hurled ब्रह्मास्त्र when परीक्षित् was in his mother's womb. फलकम्:F6:  Vi. IV. २०. ५२.फलकम्:/F
(II)--(द्रोणपुत्र) becomes a sage of the 8th manvantara. भा. VIII. १३. १५. [page१-127+ ३५]
(III)--a son of अश्विनी and अक्रूर. M. ४५. ३२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Aśvatthāman : m.: Name of a famous elephant.

In the army of Indravarman, king of Mālava, who was fighting from the side of the Pāṇḍavas; as tall as a mountain; could be compared with the elephant of Indra; Bhīma killed him to proclaim “Aśvatthāman is dead” 7. 164. 71, 73, 101, 102; 7. 165. 113, 115, 116 (also cf. 7. 165. 28-33); Yudhiṣṭhira told Droṇa indistinctly (avyaktam) “Aśvatthāman, the elephant, is killed” 7. 165. 115; 7. 164. 106; but cf. 12. 27. 16-17 (kuñjaraṁ cāntaraṁ kṛtvā mithyopacaritaṁ mayā/…mayokto gurur āhave/aśvatthāmā hata iti kuñjare vinipālite/).

_______________________________
*3rd word in left half of page p4_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=अश्वत्थामन्&oldid=489616" इत्यस्माद् प्रतिप्राप्तम्