अष्टचत्वारिंशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्ट(ष्टा)चत्वारिंशत्¦ स्त्री अष्टाधिका चत्वारिंशत् शा॰ त॰आत्वम्। (आटचल्लिश)

१ संख्यायां

२ तत्संख्येये च।
“अष्टचत्वारिंशत्संस्कारैः संस्कृत” इति मिताक्ष॰ गौत॰। तत्र गौतमेन चत्वारिंशदेव संस्काराः अष्टौ गुणाश्च ब्राह्मण्य-हेतुवो दर्शिताः चत्वारिंशत् संस्काराः गुणसहिताअष्टचत्वारिंशदित्येके। ते च
“गर्भाधानपुंसवनसीमन्तो-न्नयनजातकर्मनामकरणान्नप्राशनचौडोपनयनम्। चत्वारिवेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्चानां यज्ञाना-मनुष्ठानं देवपितृमनुष्यभूतब्रह्मणामेतेषाञ्चाष्टकान्वकापा-र्व्वंणश्राद्ध्वश्रावण्याग्रहायणीचैत्र्याश्वयुजीति सप्त पाकयज्ञ-संस्था, अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावग्रयणं चातुर्मा-स्यनिरूढपशुबन्धसौत्रामणीति सप्त हविर्यज्ञसंस्था अग्निष्टो-मोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तो-र्य्याम इति सप्त सोमसंस्था इत्येते चत्वारिंशत् संस्काराः। अथाष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचम-नायासोमङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत्संस्कारा नवाष्टावात्मगुणा न स ब्राह्मणः सायुज्यं सालो-क्यञ्च गच्छति। यस्य तु खलु संस्काराणामेकदेशोऽप्य-ष्टावात्मगुणा अथ स ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छतिअधिकं संस्कारशब्दे वक्ष्यते” गौ॰ संहितायां तु चत्वा-रिंशत्संस्कारैः संस्कृत इत्येव पाठः। मिताक्षराकृद्धृतपाठस्तु उक्तरीत्या समर्थितः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टचत्वारिंशत्/ अष्ट--चत्वारिंशत् f. = अष्टा-चत्व्See. Pa1n2. 6-3 , 49.

"https://sa.wiktionary.org/w/index.php?title=अष्टचत्वारिंशत्&oldid=212463" इत्यस्माद् प्रतिप्राप्तम्