अष्टाङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाङ्ग¦ पु॰ अष्टावङ्गानि यस्य। यमनियमासनप्राणायामप्र-त्याहारधारणाध्यानसमाधिरूपे योगशास्त्रोक्ते

१ योगविशेषे
“यमनियमासनप्राणायासप्रत्याहारधारणाध्यान-[Page0523-b+ 38] समाधयोऽष्टावङ्गानीति पात॰ सू॰”। यमोनियम-श्चासनञ्च प्रजाणायामस्ततःपरम्। प्रत्याहारोधारणाच ध्यानं सार्द्धं समाधिना। अष्टाङ्गन्याहुरेतानियोगिनां योगसिद्धये इति” पुरा॰। एतेषां लक्ष्मअष्टाङ्गयोगशब्दे वक्ष्यते।
“जानुभ्याञ्च तथा पद्भ्यांपाणिभ्यामुरसा धिया। शिरसा वचसा दृष्ट्या प्रणामो-ऽष्टाङ्गईरित” इत्युक्तलक्षणे

२ प्रणामे
“आपः क्षोरंकुशाग्रं च दधि सर्पिः सतण्डुलम्। यवः सिद्धा-र्थकश्चैव अष्टाङ्गोऽर्घः प्रकीर्त्तितः” इत्यष्टद्रव्यघटिते

३ पूजोप-करणेऽर्घे,
“आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि। रक्तानि करवीराणि तथा वै रक्तचन्दनम् अष्टाङ्गएष वा अर्घो भानवे परिकोर्त्तितः” काशीख॰ उक्ते

४ अष्ट-द्रव्यात्मके सूर्य्यार्घे

५ शारीफलके च तस्य प्रत्येकपङ्क्तौअष्टपदरूपाङ्गकत्वात्तथात्त्वम्।


६ शल्याद्यष्टाङ्गके आयु-र्वेदे यथा
“तद्यथा शल्यं शालाक्यं कायचिकित्साभूतविद्या कौमारभृत्यमगदतन्त्रं रसायनतन्त्रं वाजीकरण-तन्त्रमिति। अथास्य प्रत्यङ्गलक्षणसमासः। तत्र

१ शल्यंनाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनख-पूयास्रावान्तर्गर्भशल्यीद्धरणार्थं यन्त्रशस्त्रक्षाराग्निप्रणिधानब्रणविनिश्चयार्थञ्च॥

२ शालाक्यंनाम ऊर्द्ध्वजत्रुगतानांरोगाणां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुप-शमनार्थम्॥

३ कायचिकित्सा नाम सर्व्वाङ्गसंसृतानांव्याधीनां ज्वरातीसाररक्तपित्तशोथोन्मादापस्मारकुष्ठमेहा-दीनामुपशमनार्थम्॥

४ भूतविद्या नाम देवासुरगन्धर्व्वय-क्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्म्मब-लिहरणादिग्रहोपशमनार्थम्॥

५ कौमारभृत्यं नामकुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्था-नाञ्च व्याधीनामुपशमनार्थम्॥

६ अगदतन्त्रं नामसर्पकीटलूतावृश्चिकमूषिकादिदष्टविषव्यञ्जनार्थ विविधविषसंयोगविषोपहतोपशमनार्थभ्॥

७ रसायनतन्त्रं नामवयःस्थापनमायुर्मेधाबलकरं रोगप्रहरणसमर्थञ्च॥

८ वा-जीकरणतन्त्रं नाम अल्पदुष्टविशुष्कक्षीणरेतसामाप्यायनंप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थञ्च॥ एवमसावायु-र्वेदोऽष्टाङ्ग उपदिश्यते” सुश्रुतः॥ कर्म॰ संज्ञात्वान्नद्विगुः। अष्टसु तत्तदङ्गेषु न॰ ब॰ व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाङ्ग¦ n. (-ङ्गं)
1. Eight parts of the body, the hands, breast, forehead, eyes, throat and middle of the back; or four first, with the kness and feet; or these six, with the words and mind.
2. Any whole con- sisting of eight parts or members.
3. The eight parts of a court, or the law, the judge, assessors, scribe and astrologer, gold, fire and water.
4. A die, dice. E. अष्ट eight, and अङ्ग a limb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टाङ्ग/ अष्टा mf( आ)n. consisting of eight parts or members (as medical science [ MBh. ii , 224 and 442 ] or a kingdom [ MBh. xv , 177 ] etc. )

अष्टाङ्ग/ अष्टा mf( आ)n. (in comp. )the eight parts (as of an army [ MBh. ii , 197 ] ; or of a court , viz. the law , the judge , assessors , scribe , and astrologer , gold , fire , and water L. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the name of a book on medical science. M. २१५. ३४.

"https://sa.wiktionary.org/w/index.php?title=अष्टाङ्ग&oldid=489704" इत्यस्माद् प्रतिप्राप्तम्