अस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस ल भावे । (अदां-परं-अकं-सेट् ।) भावः सत्ता । सा चेह विद्यमानतैव । ल अस्ति विष्णुः । इति दुर्गादासः ॥ (वि + अति) । अतिक्रमे । पराभवे । “अन्यो व्यतिस्ते तु ममापि धर्म्मः” इति मट्टौ । (अभि) भागसत्तायाम् । “यदत्र ममामिस्यात् दीयताम्” । इति पाणिनिः । (आविस्) आविर्भावे । “तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम्” । इति कुमारे । (प्रादुस्) प्रादुर्भावे । उद्भवे । “महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” । इति मनुः ।)
अस इ र् य उ क्षेपे । (दिवां-परं-सकं-सेट् ।) इति कविकल्पद्रुमः ॥ य अस्यति । उ असित्वा अस्त्वा । इर् आस्थत् आसीत् । अस्यमानं महागदा इति भट्टौ ताच्छील्ये शतुः शानः । इति दुर्गा- दासः ॥ (“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” । इति रघुवंशे । (अति) अतिक्रमे । पराभवे । “बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” । इति रामायणे । (वि + अति) उत्ताने । “व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” । इति मनुः । (अप) टूरनिक्षेपे । चीरानपास्यज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्ब्बा” । इति रामायणे । (अभि) अभ्यासे । “अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” । इति कुमारे । (नि) निक्षेपे । “न मद्विधो न्यस्यति भारमुग्रम्” । इति भट्टौ । (उप + नि) प्रस्तावे । “स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” । इति किराते । (सं + उप + नि) प्रमा- णादिना दृढीकरणे । “त्वया च मया समुपन्यस्तेष्वपि मन्त्रेष्ववज्ञानं वाक्पारूष्यञ्च कृतम्” । इति हितोपदेशे । (प्रति + नि) स्थापने । “तथैवायुधजालानि भ्रातृभ्यां कवचानि च । रथोपस्थे प्रतिन्यस्य सचर्म्म कठिनं च यत्” ॥ इति रामायणे । (निर्) दूरीकरणे । पराभवे । “यशांसि सर्व्वेषुभृतां निरास्थत्” । “तानर्द्दिददखादीच्च निरास्थच्च तलाहतान्” ॥ इति च भट्टौ । (परि) विस्तृतौ । “पर्य्यस्यन्निह निचयः सहस्रसंख्यां” । किराते ॥ “ताम्रोष्ठ- पर्य्यस्तरुचः स्मितस्य” । इति कुमारे ॥ पातने च । “दासौघटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा” । इति मानवे ॥ (सम्) संयोगे । एकत्र संश्लेषे । यथा, -- “सर्व्वोऽप्यवयवोऽह्ना समस्यते ।” “अव्ययं समर्थेन सह समस्यते ॥” इति च पाणिनिः ॥ इत्यादिः ॥
अस ञ् अषार्थे । (भ्वादिं-उभं-सकं-सेट् ।) अषार्थो दीप्तिग्रहणगतयः ॥ “वासुदेवं परित्यज्य योऽन्य- देवमुपासते” । उपगच्छतीत्यर्थः । लावण्य उत्पाद्य- इवास यत्न इत्यादिसिद्ध्यै अनेकाथत्वात् सत्ता- र्थोऽयमपीति रमानाथः । अनुप्रयोगादन्यत्रापि परोक्षायामस्तेर्भूभावं केचिन्नेच्छन्तीति धातुप्रदी- पः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस¦ दीप्तौ अक॰ ग्रहणे गतौ च सक॰ भ्वादि॰ उभ॰ सेट्। असति तेआसीत् आसिष्ट।
“लावण्य उत्पाद्य इवास यत्नः” कुमा॰।
अस¦ विद्यमानतायाम् अदा॰ अक॰ पर॰ सेट्। अस्ति स्तःसन्ति असि स्थःस्थ अम्मि स्वः स्मः। स्यात् स्युः। अस्तुस्ताम् सन्तु एधि--असानि। आसीत्। अस्य असार्व्वधातुकेभ्वादेशः। तेन भूधातुवद्रूपम्। विद्यमानता च कालसंबन्धधारणं तदुक्तं हरिणा
“आत्मानमात्मना बिभ्रदस्ती-व्यवदिश्यते। अन्तर्भावाच्च तेनासौ कर्मणा न सकर्म्मकः”
“अस्त्युत्तरस्यां दिशि देवतात्मा” कुमा॰ यच्चावहासार्थमसत्कृतोऽसि गीता”
“प्रपन्नोऽत्मि स्वैरं रतिरसमहानन्दनिर-ताम्” श्यामास्तवः।
“स्याद्वा संख्यावतोऽर्थस्य समुदायो-ऽभिधायकः” फणिभा॰
“स्यातामसित्रे मित्रे च सहज[Page0527-a+ 38] प्राकृतावपि” माघः कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोवराः” मनुः
“दिनेदिने त्वं तनुरेधि रेऽधिकम्” नैष॰
“आसी-दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः।
“नत्वेवाहं जातुनासमिति” गीता। सन् सन्तौ सन्तः।
“सदेव सोम्येदमग्रआसीत्” छा॰ उ॰
“योऽन्यथा सन्तमात्मानमन्यथा प्रति-पद्यते” मनुः।
“नासतोविद्यततेऽभावोनाभावो विद्यते सतः” गीता स्त्रियां ङीप्
“सती सती योगविसृष्टदेहा” कुमा॰
“सती वाऽविद्यमाना वा प्रकृतिः परिणामिनी हरिः वि +अति + व्यतिहारे परस्परमेकरूपेण स्थितौ
“अन्योव्यतिस्ते तु ममापि धर्म्मः” भट्टिः।
अस¦ क्षेपे दिवा॰ पर॰ सक॰ सेट्। अस्यति अस्येत् अस्यतुआस्यत् आस्थत् आस। असिता--अस्ता असिष्यति। अस्यत् अस्यमानः अस्तः। असितुम्--अस्तुम्। असित्वा-अस्त्वा अभ्यस्य, निरस्य
“आरे अस्मद्दैव्यं हेलो अस्यतु”। ऋ॰
१ ,
११
४ ,
४ ,
“दस्यवे हेतिमस्यार्य्यम्” ऋ॰
१ ,
१०
३ ,
३ ,अति--अतिदूरक्षेपणे
“बहुभिश्चैकमत्यस्यन्नेकेन च बहून्जनान्” भा॰ अत्यस्तः पा॰। वि + अति। वैपरीत्येन स्थापने
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” मनुः
“व्यत्या-सश्छलयोगतः” स्मृतिः अधि--आरोपे आरोपश्च अतस्मिन्तद्बुद्धिःअन्योपरिस्थापनञ्च आद्यार्थे
“अप्रत्यक्षेऽपि ह्याकाशेबालास्तलमलिनताद्यध्यस्यन्ति”
“आह कोऽयमध्यासोनाम” उच्यते स्मृतिरूपः परत्रपूर्ब्बदृष्टावभासः” शा॰ भा॰। अनु-पश्चात् सह वा क्षेपणे अन्वस्तः।
“मुञ्जमेखला वल्कलेनान्वस्ताभवति” शत॰ ब्रा॰। अप--दूरीकरणे
“गतिरपास्तसंस्थामतिः” मालतीमा॰
“किमित्यपास्याभरणानि यौवने” कुमा॰। अभि--अभ्यावृत्तौ,
“अभ्यस्यन्ति तटाघातं निर्जितैरावतागजाः” कुमा॰
“अभ्यासेन तु कोन्तेय! वैराग्येण चगृह्यते” गीता।
“शैशवेऽभ्यस्तविद्यानाम्” रघुः। अव--अवक्षेपे
“तामवास्यतो गच्छति च सृजम्” शत॰ ब्रा॰समन्तात्क्षेपे
“तामवास्यत्यागच्छति मुदम्” शत॰ ब्रा॰उद्--ऊर्द्धोत्क्षेपणे
“पुच्छमुदस्यति” सि॰ कौ॰। परि + उद्भिन्नतया बोघने।
“प्राधान्यं हि विधेर्यत्र प्रतिषेधेऽप्र-धानता। पर्य्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ्” मीमां॰यथा श्राद्धादौ पर्य्युदस्तकालोरात्र्यादिः
“अमावास्यायांपितृभ्योदद्यात्”
“रात्रौ श्राद्धं न कुर्वीते” त्युभयोरेकवाक्य-तया रात्रीतरामावस्यायां श्राद्धं कुर्व्वीतेति हि बोधः तत्ररात्रिः पर्य्युदस्ता एवमन्यत्रापि। परितःक्षेपणे च
“अन्त्याःसर्वे पर्य्युदस्ता मृषिष्ठिरनिवेशने” भा॰ स॰ प॰। वि +[Page0527-b+ 38] उद्--निवारणे।
“चीराणीव व्युदस्तानि रेजुस्तत्र महा-वने”
“रामा॰ त्वन्तु हेतूनतीत्यैतान् कामक्रोधौ व्युदस्यच”। भा॰ स॰ प॰। उप--समीपस्थापने
“तस्याधस्त स्तद्बहिरु-पास्यति चमसेषु” कात्या॰
१० ,
५ , नि--अर्पणे
“न मद्विधेन्यस्यति भारमग्र्यम्”। निक्षेपरूपेणार्पणे च
“न्यासीकृतास्थानभिदास्मरेण” कुमा॰
“राज्यं न्यासमिवाभुनक्” रघुः। उच्चारणपूर्ब्बकं तत्र तत्र स्थाने अर्पणीतया ध्याने च।
“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम्। अङ्कुलि-व्यापकन्यासौ हृदादिन्यास एव च” तन्त्रम्। उप + नि + वाचारम्भणे
“उपन्यासस्तु वाङ्मुखम्” अमरः। प्रथमब्रयोगे च
“भूतमप्यनुपन्यस्तं पूर्ब्बंमावेदितंन चेत्। हीयते व्यवहारेण” स्मृतिः
“स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः” किरा॰ सम् + नि त्यागे
“व्रीडादमुं देवमुदीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः” कुमा॰ विहितकर्म्मणां विधानेन त्यागे च
“दशलक्षणकंधर्म्ममनुतिष्ठन् समाहितः। वेदान्तं विधिवच्छुत्वा सन्यस्ये-दनृणो द्विजः” मनुः।
“न हि संन्यसनादेव सिद्धिंसमधिगच्छति”
“मयि संन्यस्य कर्म्माणि” गीता। निस्--निर्--निष्ठीवने दूरीकरणे च। निरस्यति
“निष्ठीवतिष्ठिवु निरसने” पा॰ धातुपा॰
“निरस्तः परावसुः तृणनि-रसने भवदेवः
“निरस्तगाम्भीर्य्यमपास्तधैर्य्यम्” माघः
“निरासभृङ्गं कुपितेव पद्मिनी” भट्टिः
“क्वणदलिकुलनूपुरानिरासे” किरा॰। त्वरितोच्चारणे च
“निरस्तं त्वरितो-दितम्” अमरः। परा--निराकारणे
“एतेन खण्डनकारमतमपि परास्तम्” चिन्ता॰परि--परावर्त्तनेन स्थापने
“मुखेन पर्य्यस्तविलोचनेन” कुमा॰।
“पर्य्यस्यन्निह निचयः सहस्रसंख्याम्” किरा॰। अर्पणेच
“ताम्रौष्ठपर्य्यस्तरुचः स्मितस्य” कुमा॰। वि--परि--वैप-रीत्ये, परिवर्त्तने भ्रान्तिज्ञाने च
“इतरथा पात्रे वि-पर्य्यस्येते” शत॰ ब्रा॰।
“संशयविपर्य्यासनिवारणेनेति” चिन्ता॰
“विपर्य्यासितदर्शनैः” बौद्धका॰। प्र--प्रक्षेपे
“अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्” मनुः
“अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते” गीता। अनु--प्र--आनुलोम्येन अनुगततया एकरूपेण निवेशने अनुप्रासःप्रति--प्रतिरूपक्षेपणे।
“तद्यथाऽहिनिर्लयणी वल्मीके मृता प्र-त्यस्ता शयीत” शत॰ ब्रा॰। वि--विशेषरूपेण सम्यगवबोधनाय निवेशने व्यासः विग्रहवाक्यम्तस्य समस्तवाक्यार्थस्य विशेषेणावबोधहेतुतया निवेशनात्[Page0528-a+ 38] तथात्वम् विभागे
“विव्याम वेदान् यस्मात् स तस्मात्व्यास इति स्मृतः” भा॰ आ॰ प॰। पारावारेतिव्यस्तं समस्तंविपरीतञ्च” सि॰ कौ॰। व्यस्तः
“व्यस्तरात्रिन्दिवस्य ते” कुमा॰ पृथक्करणे एवैकशः प्रयीगे व्यस्तः
“व्यस्तसम-स्तमहाव्याहृतिहोमे” भवदेव। निवारणे च
“व्यस्यन्नु-दन्यां शिशिरैः पयोभिः” भट्टिः। विक्षेपे
“व्यस्तास्तारा-गणाइव” भा॰। वि--नि--अर्पणे।
“विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावलीविन्यस्ता” सि॰ मु॰
“विभागविन्यस्तमहार्घरत्नम्” भट्टिः। सम्--संक्षेपे
“समासेन निबोधत” पुरा॰ समस्या। संक्षिप्यन्यसनेयथा पीतम् अम्बरमिति समुदायस्य पीताम्बर इतिसंक्षेपेण प्रयोगः समासः।
“सर्व्वोऽप्येकदेशोऽह्ना सह सम-स्यते” वार्त्ति॰।
“समस्यमानपदार्थातिरिक्तपदार्थबोध-कत्वं बहुव्रीहित्वमिति सारमञ्जरी।
“ससासः षडिबधोब्धैः” हरिः साकल्ये च समस्तम्
“ज्ञानमस्ति समस्तस्य देवीमा॰
“व्यस्तसमस्त महाव्याहृति होमे विनि॰” भवदे॰संयोजने च समस्य सम्पादयत गुणैरिमाम्” किरा॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस (ञ)¦ r. 1st. cl. (असति-ते)
1. To go or move.
2. To take or receive.
3. To shine. (ल) r. 2d cl. (अस्ति) To be. (य, उ, इर्) r. 4th cl. (अस्यति-ते) To throw or direct. With अनु prefixed, to sit down: with अप, to quit or abandon: with नि, to deposit: with निर्, to expel: with परि and उप, to sit around: with प्र, to throw away, to reject, to confute: with वि, to divide: with वि and आङ्, to class, to arrange: with सम् and नि, to abandon the world: with सम्, to collect, to combine or compound.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस/ अ-स ( Pa1n2. 6-1 , 132 )not he S3is3. i , 69 (See. अ-तद्.)