असाधारणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असाधारणम्, त्रि, (न साधारणं सामान्यधर्म्मयुक्तम् । नञ्समासः ।) साधारणभिन्नं । असामान्यं । विशेषः । न्यायमते साध्यव्यापकीभूताभावप्रति- योगिहेतुः । यथा वह्निमान् जलत्वादित्यादिः । यथा । “यत्तु प्रयागे च्यहस्राने क्रोडीकृते माघसप्तमीलानादावसाधारणसङ्कल्पेन पुनस्तथैव प्रातःस्नानाचरणं” इति तिथ्यादितत्त्वं ॥ किञ्च “असाधारणशरीरव्यापारार्ज्जितं अविद्वद्भ्यो दातु- मनिच्छन्न दद्यात्” । इति दायभागः ॥ अतुल्यं । इति शूद्रवर्गे साधारणशब्दार्थदर्शनात् ॥

"https://sa.wiktionary.org/w/index.php?title=असाधारणम्&oldid=114649" इत्यस्माद् प्रतिप्राप्तम्