असिद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धिः, स्त्री, (न सिद्धिः । नञ्समासः ।) अनि- ष्पत्तिः । न्यायमते सा त्रिविधा । पक्षासिद्धिः १ यथा काञ्चनमयपर्ब्बतो वह्निमान् इत्यादिः १ । स्वरूपासिद्धिः २ यथा, पर्ब्बतः काञ्चनमय- वह्निमान् इत्यादिः २ । व्याप्यत्वासिद्धिः ३ यथा, पर्ब्बतो वह्निमान् ज्वलत्वादित्यादिः ३ । (यथा भाषापरिच्छेदे । “आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यतासिद्धिरपरा स्यादसिद्धिरतः स्त्रिधा ॥ पक्षासिद्धिर्यत्र पक्षो भवेन्मनिमयो गिरिः । ह्रदो द्रव्यं घूमवत्वादत्रासिद्धिरथापरा ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धि¦ स्त्री सिध--क्तिन् न॰ त॰।

१ अनिष्पत्तौ,

२ पाकाभावे

३ योगोक्तसिद्ध्यभावे न्यायमते

४ आश्रयासिद्धिप्रभृतिहेतुदोषेच। सिद्धयश्च त्रिविधाः।
“आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ। व्याप्यतासिद्धिरपरा स्यादसिद्धिरत-स्त्रिधा। पक्षासिद्धिर्यत्र पक्षोभवेन्मणिमयोगिरिः। ह्रदो-द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा व्याप्यत्वासिद्धिरपरानीलधूमादिके भवेत्” इति च भाषा॰। नीलधूमत्वं गुरु-तया न हेतुतावच्छेदकम् समानाधिकरणव्याप्यताव-च्छेदकधर्म्मान्तराघटितण्यैव व्याप्यतावच्छेदकचत्वात्एतासां दूषकतावीजं तु असिद्धिसामान्यविशेषलक्षणकथनपूर्ब्बकं दर्शितं मुक्ता॰ यथा
“आश्रयासिद्ध्याद्यन्य-तमत्वमसिद्धित्वम्। आश्रयासिद्धिः पक्षे पक्षतावच्छेदकस्याभावः। यत्र काञ्चनमयः पर्व्वतो वह्निमानितिसाध्यते तत्र पर्व्वतो न काञ्चनमय इति ज्ञाने विद्यमानेकाञ्चनमयपर्व्वते परामर्शप्रतिबन्धः फलम्। स्वरूपासिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्यभावः। अत्र च ह्रदोद्रव्यंधूमादित्यादौ पक्षे व्याष्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षेसाध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शप्रतिवन्धः फलम्॥ साध्यासिद्धिरपि व्याप्यत्वासिद्धिः। सा च साध्ये साध्यतावच्छेदकाभावः। तथा च काञ्चनमयवह्निमानित्यादौसाध्ये साध्यतावच्छेदकाभावे ज्ञाते साध्यतावच्छेदकविशिष्टसाध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिवन्धःफलम्। सिद्धिः साध्यवत्तानिश्चयः अभावे न॰ त॰।

५ साध्यवत्तानिश्चयाभावे
“दृष्टान्तासिद्धेश्च” सां॰ सू॰। दृष्टान्ते
“क्षणिकत्वासिद्धेश्च न क्षणित्वानुमानम्” भा॰।
“स्थिर-[Page0555-a+ 38] कार्य्यासिद्धे क्षणिकत्वम्” सां सू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धि¦ f. (-द्धिः)
1. Failure, imperfect or incomplete accomplishment.
2. (In logic,) Want of proof, conclusion not warranted by the premises. E. अ neg. सिद्धि completion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धिः [asiddhiḥ], f.

Imperfect accomplishment, failure; सिद्धसिद्धयोः्य्योः समो भूत्वा Bg.2.48;4.22.

Want of ripeness.

Non-accomplishment (in Yoga Phil.).

(In logic) Conclusion not warranted by the premises.

Want of resolution.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


असिद्धि/ अ-सिद्धि f. imperfect accomplishment , failure TBr. Gaut.

असिद्धि/ अ-सिद्धि f. (in logic) want of proof , conclusion not warranted by the premises

असिद्धि/ अ-सिद्धि f. (in सांख्यphil. ) incompleteness (eight forms of it are enumerated)

"https://sa.wiktionary.org/w/index.php?title=असिद्धि&oldid=489913" इत्यस्माद् प्रतिप्राप्तम्