असिपत्रवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असिपत्रवनम्, क्ली, (असिरिव तीक्ष्णं पत्रं यस्य तादृशं वनं ।) नरकविशेषः । “पत्रैर्यत्र विदा- र्य्यते” । इति मनुः ॥ (“यस्त्विह वै निजपथादना- पद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं प्रवेश्य कषया प्रहरन्ति तत्रासावितस्ततो धावमानः उभयतोधारै स्तालवनासिपत्रैश्छिद्यमानसर्व्वाङ्गो हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते” । इति श्रीभागवते ॥ “अशिपत्रवनं नाम नरकं शृणु चापरम् । योजनानां सहस्रं वै ज्वलदग्न्यास्तृतावनिः ॥ तप्ता सूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः । प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ॥ तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते । पत्राणि यत्र खङ्गानि फलानि द्विजसत्तम” ॥ इति मार्कण्डेयपुराणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असिपत्रवन¦ न॰ असिरिव पत्रमस्य तादृशं वनम्। असिपत्रवने नरकभेदे तत्स्वरूपादि भाग॰

५ स्क॰। अन्ध-तामिस्रादिकमुपक्रम्य
“कालसूत्रमसिपत्रवनं सूकरमुख” मित्या-दिना नरकभेदान् दर्शयित्वा तत्स्वरूपं कारणञ्चोक्तं तत्रैव
“यस्त्विह वै निजपथादनापद्यपगतः पाषण्डञ्चोपगतस्त-मसिपत्रवनं प्रवेश्य कशया प्रहरन्ति तत्रासावितस्ततोधाकमान उभयतोधारैस्तालवनासिपत्रैच्छिद्यमानसर्वा-ङ्गोहाहतोस्मीतिपरमया वेदनया मूर्च्छितः पदेपदेनिपतति स्वधर्म्महा पाषण्डानुगमनफलं भुङ्क्ते”
“असि-पत्रवनं नाम नरकम् शृणु चापरम् योजनानां सहस्रंवैज्वलदग्न्यास्तृतावनिः। तप्तासूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः। प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः। तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते। पत्राणि यत्रखड्गानि फलानि द्विजसत्तम!। श्वानश्च तत्र शवलाश्चर-न्त्यामिषलोभिनः। महावक्त्रा महादंष्ट्रा व्याघ्रा इवमहानखाः। ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः। प्रयान्ति प्राणिनस्तत्र तृट्तापपरिपीडिताः। हा तात![Page0555-b+ 38] हा मातरिति क्रन्दन्तोऽतीव दुःखिताः। दह्यमागाङ्घ्रियुग-लाधरणिस्थेन वह्निना। तेषां गतानां तत्रासिपत्रव्यापिसमीरणः। प्रवाति तेन पात्यन्ते तेषां खड्गास्तथो-परि। छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये। लेलि-ह्यमाने चातीव व्याप्ताशेषमहीतले। सारमेयास्ततः शीघ्रंशातयन्ति शरीरतः। तेषां खण्डानि रुदतामदन्त्याननभीषणाः। असिपत्रवनं तात! मयैतत् परिकीर्त्तितम्” इति मार्क॰ पु॰।
“असिपत्रवनं चैव लोहदारकमेवच” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

असिपत्रवन¦ n. (-नं) A hell where the trees have leaves as sharp as swords. E. असि and पत्र a leaf, वन a wood.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--one of २८ hells. Intended for those who leave the Vedic path to that of the पाखण्डस्; here their bodies are torn to pieces by the sharp edges of असिपत्र leaves (lit. forest where leaves are swords); फलकम्:F1: भा. V. २६. 7 & १५; Br. II. २८. ८४; IV. 2. १४९ and १७३; ३३. ६१; M. १४१. ७१; वा. १०१. १७०; Vi. I. 6. ४१; II. 6. 3.फलकम्:/F in it fall those who cut and deal in camels and hunters who cut off animals, besides those fallen from karma. फलकम्:F2: वा. ५६. ७९; ११०. ४३.फलकम्:/F Those that cut trees for no reason also fall into this. फलकम्:F3: Vi. II. 6. 3 and २६.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

Asipatravana : nt.: Name of a forest (?)

Yudhiṣṭhira while going in the company of the Devadūta to see his brothers after their death passed through Asipatravana (lit. ‘a forest having leaves as sharp as the blade of a sword’) which was covered with sharp razors (niṣitakṣurasaṁvṛta) 18. 2. 23; a wicked king, after death, before going to hell is merged in the hot Vaitaraṇī river and then gets his body pricked in the Asipatravana (asipatravanabhinnagātraḥ) 12. 309. 31.

_______________________________
*4th word in right half of page p291_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

"https://sa.wiktionary.org/w/index.php?title=असिपत्रवन&oldid=489920" इत्यस्माद् प्रतिप्राप्तम्