अस्थि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि, क्ली, (अस्यते क्षिप्यते यत् । अस् + क्थिन् ।) शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः । हाड इति भाषा । तत्सङ्ख्यादि शारीरशब्दे द्रष्टव्यं ॥ तत्- पर्य्यायः । कीकसं २ कुल्यं ३ मेदोजं ४ । इत्य- मरादयः ॥ (अस्थिस्वरूपाद्युक्तं भावप्रकाशे । “मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितं । तदस्थिसंज्ञां लभते स सारः सर्ब्बविग्रहे ॥ अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः । अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवं ॥ तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् । अस्थीनि न विनश्यन्ति सारा एतानि सर्व्वथा” ॥ “मेदसोऽस्थि ततो मज्जा मज्जतः शुक्रसम्भवः” ॥ इति सुश्रुतः ॥ त्रीणि सषष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते । शल्यतश्रेषु त्रीण्येवशतानि । तेषां सविंशमस्थि- शतं शाखासु । सप्तदशोत्तरं शतं स्रोणि पार्श्व- पृष्ठोदरोरस्सु । ग्रीवां प्रत्यूर्द्धं त्रिषष्टिः । एव- मस्थ्नां त्रीणि शतानि पूर्य्यन्ते ॥ एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्च- दश । तलकूष्ठगुल्फसंश्रितानि दश । पार्ष्ण्यामेकं । जङ्घायां द्वे । जानुन्येकं । एकमूराविति । त्रिंशदेव- मेकस्मिन् सक्थीनि भवन्ति । एतेनेतर सक्थि- बाहू च व्याख्यातौ ॥ श्रोण्यां पञ्च तेषां गुदभग नितम्बेषु चत्वारि । त्रिकसंश्रितमेकं । पार्श्वे षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवं । पृष्ठे त्रिं- शत् । अष्टावुरसि । द्वे अक्षकसंज्ञे । ग्रीवायां नवकं । कण्ठनाड्यां चत्वारि । द्वे हन्वोः । दन्ता द्वात्रिंशत् । नासायां त्रीणि । एकं तालुनि । गण्ड- कर्णशङ्खेष्वेकैकं । षट् शिरसि ॥ एतानि पञ्च- बिधानि भवन्ति । तद्यथा । कपाल-रुचक-तरुण-बलय-नलकसंज्ञानि । तेषां जानुनितम्बांसगण्डतालुशङ्खशिरस्सु कपालानि । दशनास्तु रुचकानि । घ्राणकर्णग्रीबाक्षिकोषेषु तरुणानि । पाणिपादपार्श्वपृष्ठोदरोरस्सु बल- यानि । शेषाणि नलकसंज्ञानि ॥ “मांसान्यत्रनिबन्धानि सिराभिः स्नायुभिस्तथा । अस्थीन्यालम्बनं कृत्वा नशीर्य्यन्ते पतन्ति वा” ॥ इति च सुश्रुतः ॥) वीजं । इति रायमुकुटः वैद्य- कश्च ॥ आ~टी इति भाषा ।
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि नपुं।
अस्थिः
समानार्थक:कीकस,कुल्य,अस्थि
2।6।68।22।5
पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ। स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च॥
: शिरोस्थिखण्डः, शरीरगतास्थिपञ्चरः, पृष्ठमध्यगतास्थिदण्डः, मस्तकास्थिः, पार्श्वास्थिः
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि¦ न॰ अस्यते अस + क्थिन्। मांसाभ्यन्तरस्थे (हाड) इति[Page0568-b+ 38] ख्याते धातुभेदे। अस्थिस्वरूपाद्युक्तं भावप्रका॰।
“मेदोयत्स्वाग्निना पक्वं वायुना चातिशोषितम्। तदस्थिसंज्ञांलभते स सारः सर्वविग्रहे। अभ्यन्तरगतैः सारैर्यथा-तिष्ठन्ति भूरुहाः। अस्थिसारैस्तथा देहाध्रियन्ते देहिनांध्रुवम्। तस्माच्चिरविनष्टेषुत्वङमांसेषु शरीरिणाम्। अस्थीनिन विनश्यन्ति सारा एतानि सर्वथा”। अथास्थ्नां संख्या-माह।
“शल्यतन्त्रेऽस्थिखण्डानां शतत्रयमुदाहृतम्। तान्येवात्र निगद्यन्ते तेषां स्थानानि यानि च। सविंशति-शतन्त्व स्थ्नां शाखासु कथितं बुधैः। पार्श्वयोः श्रोणिफलके-वक्षःपृष्ठोदरेषु च! जानीयाद्भिषगेतेषु शतं सप्तदशोत्तरम्ग्रीवायामूर्द्ध्वगां विद्यादस्थ्नां षष्टिं त्रिसंयुताम्”। तत्रशाखागतान्याह।
“एकैकस्यां पादाङ्गुल्यां त्रीणि त्रीणितानि पञ्चदश पादतले पञ्चास्थिशलाकास्तदाधारभूत-मेकमस्थि। एवं षट् कूर्चे द्वे
२ गुल्फे द्वे
२ पार्ष्णावेकैकं
२ जङ्घयोर्द्वे
२ जानुन्येककैकम्
२ एवं त्रिंशदेक-स्मिन् सक्थिनि भवन्ति। एतेनेतरसक्थि बाहू चव्याख्यातौ। अथ पार्श्वादिगतान्याह।
“पार्श्वयोषट्त्रिंशत्
३६ षट्त्रिंशत्
३६ । शिश्ने भगे वा एकं
१ नितम्बयोरेकैकं
२ त्रिके एकम्
१ वक्षस्यष्टौ
८ पृष्ठे-त्रिंशत् अक्षकसंज्ञे द्वे
२ ” योगात्
११
७ । अथ ग्रीवोर्ध्व-गतान्याह। ग्रीवायां नव
९ कण्टनाड्यां चत्वारि
४ हन्वो-रेकैकं
२ दन्तेषु द्वात्रिंशत्
३२ नासायां त्रीणि
३ तालु-न्येकं
१ गण्डयोरेकैकं
२ कर्णयोरेकैकं
२ शङ्घयोरेकैकं
२ शिरसि षट्। एतान्यस्थीनि पञ्चविधानि भवन्ति तानियथा
“तरुणानि कपालानि रुचकानि भवन्ति च। वल-यान्यपि तानि स्युर्नलकानि च कानि चित्। अक्षिकोषश्रुतिघ्राणग्रीवासु तरुणानि हि। शिरःशङ्खकपोलेषु ताल्वं-सप्रोथजादिषु। कपालानि भवन्त्येषु, दन्तेषु रुचकानि च। प्रायः पार्श्वयुगे पृष्ठे वक्षोजठरपायुषु। पादयोर्बलयानिस्युर्नलकानि ब्रुवेऽधुना। हस्तपादाङ्गुलितले कूर्च्चे च मणि-बन्धयोः। बाहुजङ्घाद्वये चापि जानीयान्नलकानि तु”। अथैषां प्रयोजनमाह
“मांसान्यन्त्राणि बद्धानि शिराभिःस्नायुभिस्तथा। अस्थीन्यालम्बनं कृत्वा न दीर्य्यन्ते पतन्तिन” सुश्रुते। याज्ञ॰ तु
“प्राधान्यात् अन्याथासंख्याऽभिहितायथा।
“स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः। पाणि-पादशलाकाश्च तासां स्थानचतुष्टयम्। षष्ट्यङ्गुलीनां द्वेपार्ष्ण्योर्गुल्फेषु च चतुष्टयम्। चत्वार्य्यंरत्निकास्थीनि जङ्घयो-स्तावदेव तु। द्वे द्वे जानुकपोलोरफलकांससमुद्भवे। अक्ष-[Page0569-a+ 38] तालूषके श्रोणोफलके च विनिर्द्दिशेत्। भगास्थ्येकं तथापृष्ठे चत्वारिंशच्च पञ्च च। ग्रीवा पञ्चदशास्थिः स्याज्ज-त्र्वेकैकं तथा हनुः। तन्मूले द्वे ललाटाक्षिगण्डे नासाधनास्थिका। पार्श्वकाः स्थालकैः सार्द्धमर्वुदैश्च द्विसप्ततिः। द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा। उरःसप्तदशा-स्थीनि पुरुषस्यास्थिसंग्रहः”
“अस्थिभिरस्थीनि मांसैर्मा-सानि त्वचा त्वचम्” इति श्रुतिः
“मलमूत्रपुरीषास्थि निर्गतंह्यशुचि स्मृतम्” मनुः अल्पार्थे कन्। अस्थिकं तत्रार्थे।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि¦ n. (-स्थि) A bone. E. अस to throw, &c. and क्थिन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि [asthi], n. [अस्यते अस्-कथिन् Uṇ.3.154]
A bone (changed to अस्थ at the end of certain compounds; cf. अनस्थ, पुरुषास्थ).
The kernel or stone of a fruit; जम्बूफलानामत्युच्चनिपातविशीर्णानामनस्थिप्रायाणाम् Bhāg.5.16. 19; न कार्पासास्थि न तुषान् Ms.4.78. [cf. L. os; Gr. osteon; Zend. asta; Pers. astah] -Comp. -कुण्डम् N. of a hell. -कृत्, -तेजस्, -संभवः, -सारः, -स्नेहः marrow; (पिबन्ति) अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः Māl.5.18. -च्छलितम् a particular fracture of the bone; (पार्श्वयोरस्थिहीनोद्गतम्).
जः marrow.
thunderbolt. -तुण्डः [अस्थीव कठिनं तुण्डमस्य]
a kind of bird whose mouth or beak is as hard as a bone.
a bird.-तोदः pain in the bones. -त्वच् f. periosteum.-धन्वन् m. N. of Śiva. -पञ्जरः 'a cage of bones', a skeleton. -प्रक्षेपः throwing the bones of the dead into the Ganges or any holy waters. -बन्धनम् Sinew; Rām.5. -भक्षः, -भुक् 'an eater of bones', a dog. -भङ्गः fracture of the bones. -भूयस्a. consisting chiefly of bones, dried up; भवत्यस्थिभूयान् Av.5.18.13.
भेदः fracturing or breaking a bone.
a sort of bone. -भेदकः a bone-breaker. -भेदिन्a. That cuts or pierces the bone; very smarting or severe; वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः Mb.3.312.3.
माला a string or wreath of bones.
a row of bones. -मालिन् m. N. of Śiva. -यज्ञः Bone sacrifice (part of a funeral ceremony). -युज् m. [अस्थि युनक्ति] a kind of tree (हस्तिशुण्डावृक्ष; Mar. कांडवेल, हाडसंधि). -योगः the joining of a broken limb. -विग्रह a. reduced to a skeleton. (-हः) N. of भृङ्गिन् Śiva's attendant.-विलयः Dissolving of bones in a sacred stream. -शृङ्खला संहारः, -संहारिका N. of the plant Heliotropium Indicum (ग्रन्थिमतीवृक्ष; Mar. इन्द्रवारुणी, कवंडळ). -शेष a. [अस्थिमात्रं शेषो$स्य] very lean, reduced to skeleton.-शोषः dryness and decay of the bones.
संहारकः bone-seizer.
the adjutant bird. -संचयः collecting the bones or their ashes after burning a corpse.
a heap of bones.
सन्धिः a joint, an articulation.
uniting a broken bone. -समर्पमण् throwing the bones of the dead body into the Ganges or holy waters.-सारः The marrow. -स्थूणः 'having the bones for its pillars', the body; Ms.6.76. -स्नेहः Marrow. -स्रंस a. Ved. causing the bones to fall asunder; Av.6.14.1.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अस्थि n. (See. अस्थन्) , a bone AV. VS. etc.
अस्थि n. the kernel of a fruit Sus3r. ( cf. 3. अष्टि); [ Lat. os , ओस्सिस्assimilated fr. ओस्तिस्; Gk. ?]