अस्मिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मिता¦ स्त्री अस्मि--भावः तल्। अहमिति ममेतिवेत्यभिमाने
“अविद्यास्मितारागद्वेषाभिनिवेशाः” पात॰ सू॰ सचाभि-मानोमोह इत्युच्यते यथाह सां॰ कौ॰।
“देवा ह्यष्टवि-धमैश्वर्य्यमासाद्यामृताभिमानिनोऽणिमादिकमात्मीयं शाश्व-तिकमभिमन्यन्ते इति सोऽयमस्मितामोहोऽष्टविधैश्वर्य्यविषयत्वादष्टविधः” तल्लक्षणमुक्तं पात॰ सू॰।
“दृग्दर्शनशक्त्योरेकात्मतेवास्मिता” दृक्शक्तिः पुरुषः दृश्यते इतिदर्शनं तच्छक्तिः बुद्धिः शक्तिशब्दोयोग्यतार्थः भोक्तृभोग्ययोरत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृता आत्मता तादात्म्यम्इवशब्देन अहमस्मीत्यस्य भ्रान्तिकृतत्वम् तादात्म्यस्यद्योतितम् सास्मितेत्यर्थः इयं हृदयग्रन्थिरित्युच्यतेब्रह्मवादिभिः इति” वृत्तिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मिता [asmitā], Egotism; दृग्दर्शनशक्त्योरेकात्मतेवास्मिता Pat. Sūtra 1.17. 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । तत्रा- नित्येषु नित्यत्वाभिमानः ।' इति टीका Śi.4.55.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अस्मिता/ अस्मि--ता f. egoism Yogas. Comm. on S3is3. iv , 55 , etc.

"https://sa.wiktionary.org/w/index.php?title=अस्मिता&oldid=490076" इत्यस्माद् प्रतिप्राप्तम्