अहिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अहिः, पुं, (आहन्तीति । आ + हन् + इण् । हन हिंसागत्योः । आङि श्रिहनिभ्यां ह्रस्वश्चेति इण् । स च डित् । डित्वात् टिलोपः । आङो ह्रस्वश्च ।) वृत्रासुरः । सर्पः । इत्यमरः । सूर्य्यः । पथिकः । राहुः । इत्यनेकार्थध्वनिमञ्जरी ॥ (सीसकं । राहुः । वप्रः । अश्लेषानक्षत्रं । खलः । “विष- धरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । यदहिर्नकुलद्वेषी स्वकुलद्वेषी पुनः पिशुनः” । इति वासवदत्तायाः प्रस्तावनाश्लोकः ॥)

"https://sa.wiktionary.org/w/index.php?title=अहिः&oldid=490148" इत्यस्माद् प्रतिप्राप्तम्