अहित
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहितः, त्रि, (न हितः । नञ्समासः ।) शत्रुः । इत्यमरः । (यथा रघुवंशे ४ । २८ ॥ “स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा । अहिताननिलोद्धुतैस्तर्जयन्निव केतुभिः” ।) अपथ्यं इति शब्दचन्द्रिका ॥ (“एकान्ताहितानि दहनपचनमारणादिषु प्रवृ- त्तान्यग्निक्षारविषादीनि ।” इति सुश्रुते । प्रतिकूलः । अशुभकरः । यथा वैराग्यशतकं । “लोकस्तथाप्यहितमाचरतीति चित्रम्” । ३५ ॥ “परोऽपि हितवान् शत्रुर्बन्धुरप्यहितः परः । अहितो देहजो व्याधिर्हितमारण्यमौषधं” ॥ इति हितोपदेशः । अहिताहारोपयोगिनां पुनः कार- णतो न सद्यो दोषवान् भवत्यपचारः, नहि सर्व्वाण्यपथ्यानि तुल्यदोषाणि न च सर्व्वे दोषा- स्तुल्यबलाः । नच सर्व्वाणि शरीराणि व्याधि- क्षमत्वे समर्थानि । तदेव ह्यपथ्यं देशकालसंयोग- वीर्य्यप्रमाणातियोगात् भूयस्तरमपथ्यं सम्पद्यते ॥ स एव दोषः संसृष्टयोर्निर्विरुद्धोपक्रमो गम्भो- रानुगतः प्राणायतनसमुत्थो मर्म्मोपघाती वा भूयान् कष्टतमः क्षिप्रकारितमश्च सम्पद्यते इति चरकः । “इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगत- श्चैकान्तहितान्येकान्ताहितानि हिताहितानि भवन्ति” । “एकान्ताहितानि दहनपचनमारणा दिषु प्रवृत्तान्यग्निक्षारविषादीनि ।” “दुग्धस्यैकान्तहिततां विषस्यैकान्ततोऽहि तं एवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु ॥ एकान्तहिततां विद्धि वत्स ! सुश्रुत ! नान्यथा” ॥ “विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः । तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितं” ॥ इति सुश्रुतः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहित पुं।
शत्रुः
समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र
2।8।11।1।3
द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥
वैशिष्ट्यवत् : वैरम्
: क्षुद्रशत्रुः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहित¦ पु॰ न॰ त॰।
१ शत्रौ।
२ पथ्यभिन्ने त्रि॰। सुश्रु-तोक्तानि अहितानि अपथ्यशब्दे
२२
६ पृष्ठे उक्तानि
“अहिताननिलोद्भूतैस्तर्जयन्निव केतुभिः” रघुः
“राम-नाम इति तुल्यमात्मजे वर्त्तमानमहिते च दारुणे” रघुः
“निन्दन्तस्तव सामर्थ्यं वदिष्यन्ति तवाहिताः” गीता। चतु-र्ण्णामपि वर्ण्णानां प्रेत्य चेह हिताहितान्। अष्टाविमान्समासेन स्त्रीविवाहान्निबोधत” मनुः।
“अहितो देह-जोव्याधिर्हितमारण्यमौषधम्”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहित¦ mfn. (-तः-ता-तं)
1. Hostile, inimical.
2. Hurtful, prejudicial. m. (-तः) An enemy. n. (-तं) Food, &c. contra-indicated in a disease. E. अ neg. and हित friendly, fit, proper.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहित [ahita], a.
Not placed, put, or fixed.
Unfit, improper; चतुर्णामपि वर्णानां प्रेत्य चेह हिताहितान् Ms.3.2.
Hurtful, detrimental, harmful, injurious, prejudicial,
Disadvantageous, evil.
Inimical, hostile. -तः An enemy; अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः R.4.28,9.17, 11.68; तदहितयुवतेरभीक्ष्णमक्ष्णोः Śi.7.57 rival; अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः Bg.2.36; K.5,77.
तम् Damage.
Food. -Comp. -इच्छु a. not wishing well, malevolent.-कारिन् a. inimical, acting unkindly. -नामन् a. having as yet no name assigned. -मनस् a. not friendly minded, hating, inimical. -हितम् good and evil; ˚विचारशून्यबुद्धि H.2.44.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अहित/ अ-हित mfn. unfit , improper RV. viii , 62 , 3
अहित/ अ-हित mfn. unadvantageous S3Br. Ka1tyS3r. Mn. iii , 20 , etc.
अहित/ अ-हित mfn. noxious , hostile Katha1s.
अहित/ अ-हित m. an enemy Bhag. ii , 36 Ragh.
अहित/ अ-हित n. damage , disadvantage , evil A1p. R. etc.
अहित/ अ-हित n. N. of certain veins(See. also हिता) Ya1jn5. iii , 108.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--an यक्ष--a son of देवजनी and मण्वर. Br. III. 7. १२९.