आकार

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारः, पुं, (आ + कृ + घञ् ।) इङ्गितं । अभि- प्रायानुरूपचेष्टाविष्करणं । संकेत ठार इत्यादि भाषा । आकृतिः । मूर्त्तिः । इत्यमरः ॥ (“तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” । इति रघौ १ । २० । “आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च” । इति हितोपदेशे सुहृद्भेदः । मूर्त्तिः । “आकार- सदृशप्रज्ञः” । इति रघौ १ । १५ ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकार पुं।

अभिप्रायानुरूपचेष्टा

समानार्थक:आकार,इङ्ग,इङ्गित

3।2।15।1।3

निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम्. परिणामो विकारे द्वे समे विकृतिविक्रिये॥

पदार्थ-विभागः : , क्रिया

आकार पुं।

आकृतिः

समानार्थक:आकार

3।3।163।1।2

प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती। किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकार¦ पु॰ आ + कृ--घञ्।

१ मूर्त्तौ,

२ अवयवसंस्थानविशेषेच। आक्रियते आविष्क्रियते हृद्गतोभावोऽनेन आ-कृ--करणे घञ्।

३ हृद्गतभावावेदके मुखप्रसादवैवर्ण्यरूपेप्रीत्यप्रीतिसूचके देहचेष्टने। भावे घञ्।

४ हृद्गगतभावावेदने,

५ इङ्गिते च।
“आकारश्छाद्यसानोऽपि न शक्योविनि-गूहितुम्। बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्”
“आकारसदृशप्रज्ञः” रघुः।
“तस्य संवृतमन्त्रस्य गूढा-कारेङ्गितस्य च” रघुः। इङ्गितं हृहतोभावो बहिराकारआकृतिः”। सज्जनः।

६ तादात्म्ये

७ अभेदोपगमे च। आकरश्च सांख्यादिभतसिद्धः अभेदस्थानीयः पदार्थभेदःविषयिताविशेषो वा।
“यत् संबद्धं सत् तदाकारोल्लेखिविज्ञानं तत् प्रत्यक्षमिति” सां॰ सू॰।
“सम्बद्धं भवत्सम्बद्धवस्त्वाकारधारि भवति यद्विज्ञानं बुद्धिवृत्तिस्तत्प्रत्यक्षम् स्वार्थसन्निकर्षजन्याकाराश्रयो वृत्तिः प्रत्यक्षमितिफलितम्।
“वृत्तिः संबन्धार्थं सर्पती” त्यागामिसूत्रात्वृत्तेर्न सन्निकर्षजन्यत्वमित्याकाराश्रयग्रहणम् चक्षुरादिद्वारकबुद्धिवृत्तिश्च प्रदीपस्य शिखातुल्या बाह्यार्थसन्निकर्षा-नन्तरमेव तदाकारोल्लेखिनी भवतीति नासम्भवः” भा॰। वेदान्तिभिरपि अन्तःकरणस्य सावयवत्वस्वीकारेण बुद्धि-वृत्तेस्तदाकारत्वमुररीकृतं यथोक्तं वेदा॰ परिभा॰।
“यथातडागोदकं छिद्रान्निर्गत्य कुल्यात्यना केदारान् प्रविश्यतद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकर-णमपि चक्षुरादिद्वारा धटादिविषयदेशं गत्वा घटादि-विषयाकारेण परिणमते। स एव परिणामो वृत्ति-[Page0591-a+ 38] रित्युच्यते। अनुमित्यादिस्थले तु अन्तःकरणस्य नवह्न्यादिदेशगमनं वह्न्यादेश्चक्षुराद्यसन्निकर्षात् तथा चायंघटैत्यादि प्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहि-रेकत्र देशे समवस्थानात् तदुभयावच्छिन्नं चैतन्यमेकमेवविभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोरेकदेशस्थितत्वेनभेदाजनकत्वात्”। सचाकारस्तेषां मते बाह्यवस्तुविषय-सत्त्वेन तत्सन्निकर्षेण सम्भवति। बाह्यवस्तुसत्त्वानङ्गीकर्तृमतेतु अनादिवामनयैव तदाकारोल्लेख इति यथोक्तं सर्व्वदर्श-न स॰”।
“तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिकाबुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदितिसिद्धम्। तदुक्तम्
“नान्योऽनुभाव्यो बुद्ध्यास्ति तस्यानानुभवोऽपरः। ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैवप्रकाशते” इति। ग्राह्यग्राहकयोरभेदश्चानुमातव्यःयत् येन वेद्यते तत्ततो न भिद्यते यथा ज्ञाने-नात्मा, वेद्यन्ते ज्ञानेन नीलादयः। भेदे हि सत्यधुनाअनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य नियमहे-तोरभावात् तदुत्पत्तेरनियामकत्वात् यश्चायं ग्राह्य-ग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमसिद्वित्वावभास इव भ्रमः अत्राप्यनादिरविच्छिन्नप्रवाहा-ऽभेदवासनैव निमित्तम्। यथोक्तम्
“सहोपालम्भ-नियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्दृश्ये-तेन्दाविवाद्वये” इति। अविभागोऽपि बुद्ध्यात्मा विपर्य्यासि-तदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यत इति” च। न च रसवीर्य्यविपाकादि समानमाशामोदकोपार्जि-तमोदकानां स्यादिति वेदितव्यं वस्तुतो वेद्यवेदकाकार-विधुराया अपि बुद्धेर्व्यवहर्तृ परिज्ञानानुरोधेन विभिन्नग्रा-ह्यग्राहकाकाररूपवत्तया तिमिराद्युपहताक्षाणां केशेन्द्र-नाडीज्ञानाभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोपपत्तेःपर्य्यनुयोगायोगात्। यथोक्तम्
“अवेद्यवेदकाकारा यथाभ्रान्तैर्निरीक्ष्यते। विभक्तलक्षणाग्राह्यग्राहकाकारविप्लवाः। तथा कृतव्यवस्थेयं केशाद्रिज्ञानभेदवत्। यदा तदा नसञ्चोद्या ग्राह्यग्राहकलक्षणेति”। तस्माद्बुद्धिरेवानादिवा-सनावशादनेकाकारावभासत इति सिद्धम्”।
“अन्येतु न तन्म-न्यन्ते तथा हि यदुक्तं ग्राह्यं वस्तुजातं नास्तीति तदयुक्तंप्रमाणाभावात्। न च सहोपालम्भनियमः प्रमाणमितिवक्तव्यं वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयो-जकत्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपा-लम्भनियमात्मकं साधनं न स्यादिति चेन्न ज्ञानस्यान्त[Page0591-b+ 38] र्मुखतया च भेदेन प्रतिभासमानतया एकदेशत्वैककालत्व-लक्षणसहत्वनियमासम्भवाच्च। नीलाद्यर्थस्य ज्ञानाकारत्वेअहमिति प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिःप्रत्ययादव्यतिरेकात्। अथोच्येत ज्ञानस्वरूपोऽपिनीलाकारो भ्रान्त्या बहिर्वद्भेदेव प्रतिभासत इति नतत्राहमुल्लेख इति। यथोक्तं
“परिच्छेदान्तरा-द्योऽय भागो बहिरिव स्थितः। ज्ञानस्याभेदिनो बाह्यप्रतिभासोऽप्युवप्लव” इति
“यदन्तर्ज्ञेयतत्त्वं तद्बहिर्वदवभासत” इति च। तदयुक्तं बाह्यार्थाभावे तदुत्पत्तिरहिततयाबहिर्वदित्युपमानोक्तेरयुक्तेः न हि वसुमित्रो बन्ध्यापुत्र-वदवभासत इति प्रेक्षावानाचक्षीत भेदप्रतिभासस्य भ्रान्तत्वेअभेदप्रतिभासस्य प्रामाण्यं, तत्प्रामाण्ये च भेदप्रति-भासस्य भ्रान्तत्वमिति षरस्पराश्रयप्रसङ्गाच्च अविसंवादा-न्नीलतादिकमेव संविदाना बाह्यमेवोपाददते जग-त्युपेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च। एवञ्चायमभेद-साघको हेतुर्गोमयपायसीयन्यायवदाभासतां भजेत्। अतो-बहिर्वदिति वदता बाह्यं तद्ग्राह्यमेवेति भावनीयमितिभवदीय एव वाणो भवन्तं प्रहरेत्। ननु ज्ञानाभिन्न-कालस्यार्थस्य बाह्यत्वमनुप्रपन्नमिति चेत् न तदनुपपन्नम्इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पक-तया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेःअतएव प्रर्य्यनुयोगपरिहारौ समग्रहीषाताम्।
“भिन्नकालंकथं ग्राह्यमिति चेत् ग्राह्यतां विदुः। हेतुत्वमेव चव्यक्तेर्ज्ञानाकारार्पणक्षममिति”। तथा च यथा पुष्ट्याभोजनमनुमीयते यथा च भाषयया देशः यथा वा सम्भ्र-मेण स्नेहः तथा ज्ञानाकारेण ज्ञेयमनुमेयम्”। आकारे कुशलः ठञ् आकारिकः। तत्र निपुणे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकार¦ m. (-रः)
1. Hint, sing, token.
2. Form.
3. The letter आ E. आङ्, कृ to make, affix घञ्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकारः [ākārḥ], [आ-कृ-घञ्]

Form, shape, figure, द्विधा˚ of two forms or sorts; Pt.3.37.

Aspect, appearance. mien, countenance; आकारसदृशप्रज्ञः R.1.15,16.7, Ś.1;

(Particularly) expression of the face, as giving a clue to one's inward thoughts or mental disposition; तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च R.1.2; Pt.1; भवानपि संवृताकारमास्ताम् V.2; Ś.7; Ki.1.14; साकारो निःस्पृहः Pt.3.88 giving no clue to his inward thoughts, reserved; K.233; Mv.6; Ms.7.63,8.25; -आकारैरिङ्गि- तैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यते$न्तर्गतं मनः ॥ Ms.8.26.

Hint, sign, token.

Identity, oneness

Recognition of identity (in Sāṅ. Phil.).

The letter आ. -Comp. -गुप्तिः, -गोपनम्, -गूहनम् dissimulation, suppressing all outward manifestation of the internal feelings. -वर्ण, -सुश्लक्ष्ण a. Delicate in shape and colour.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकार/ आ-कार रण, etc. See. आ-कृ.

आकार/ आ-कार m. ( ifc. f( आ). R. i , 28 , 24 Ragh. xii , 41 )form , figure , shape , stature , appearance , external gesture or aspect of the body , expression of the face (as furnishing a clue to the disposition of mind) Mn. MBh. etc.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the second face of the fourteen faced Deva, Manu स्वारोचिष born in white colour. वा. २६. ३३.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकार पु.
‘आ’ - संज्ञक वर्ण, ‘आहव’ की अभिव्यक्ति (उच्चारण) के साथ किसी देवता के आमन्त्रण के समय प्लुत (अथवा चार मात्रा वाला) शां.श्रौ.सू. 1.2.1; ला.श्रौ.सू. 5.12.14; 7.11.11, द्रा.श्रौ.सू. 15.4.7; निदा.सू. 2.1० ः 1०।

"https://sa.wiktionary.org/w/index.php?title=आकार&oldid=490235" इत्यस्माद् पुनः प्राप्तिः