आकाशदीपः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाशदीपः, पुं, (आकाशे दीयमानो दीपः ।) कार्त्तिकमासे भगवदुद्देशेन नभसि दत्तप्रदीपः । यथा । कार्त्तिके आकाशदीप उक्तो निर्णयामृते पुष्करपुराणे । “तुलायां तिलतैलेन सायंकाले समागते । आकाशदीपं यो दद्यात् मासमेकं हरिं प्रति ॥ महतीं श्रियमाप्नोति रूपसौभाग्यसम्पदम्” । इति तद्विधिश्च हेमाद्रौ आदिपुराणे । “दिवाकरेऽस्ताचलमौलिभूते गृहाददूरे पुरुषप्रमाणं । यूपाकृतिं यज्ञियवृक्षदारु- मारोप्य भूमावथ तस्य मूर्द्ध्नि ॥ यवाङ्गुलच्छिद्रयुतास्तु मध्ये द्विहस्तदीर्घा अथ पट्टिकास्तु । कृत्वा चतस्रोऽष्टदलाकृतीस्तु यामिर्भवेदष्टदिशानुसारी ॥ तत्कर्णिकायान्तु महाप्रकाशो दीपः प्रदेयो दलगास्तथाष्टौ । निवेद्य धर्म्माय हराय भूम्यै दामोदरायाप्यथ धर्म्मराज्ञे ॥ प्रजापतिभ्यस्त्वथ सत्पृतृभ्यः प्रेतेभ्य एवाथ तमःस्थितेभ्यः” । इति । अपरार्के त्वन्यो मन्त्रो यथा, -- “दामोदराय नभसि तुलायां लोलया सह । प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे” ॥ इति निर्णयसिन्धौ २ परिच्छेदे कार्त्तिकमाहात्म्यं ॥

"https://sa.wiktionary.org/w/index.php?title=आकाशदीपः&oldid=115028" इत्यस्माद् प्रतिप्राप्तम्