आकुञ्चन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकुञ्चनम्, त्रि, (आङ् + कुचि + ल्युट् ।) न्यायमते पञ्चप्रकारकर्म्मान्तर्गतकर्म्मविशेषः । सङ्कोचः ॥ (प्रसारितस्य संक्षिप्तत्वसम्पादनं । नमन । वक्रता- सम्पादनं । यथा । भाषापरिछेदे । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकुञ्चन¦ न॰ आ + कुचि--ल्युट्। सङ्कोचे, प्रसारितस्यसंक्षिप्तत्वसम्पादनसाधने क्रियाभेदे
“आकुञ्चनन्तु सत्-स्वेवावयवानामारम्भकसंयोगेषु परस्परमवयवानामनार-म्भकसंयोगोत्पादकं वस्त्राद्यवयविकौटिल्योत्प्रादकंकर्म्म, यतो भवति सङ्कुचति पद्मं सङ्कुचति वस्त्रं सङ्कुचतिचर्म्मेति प्रत्ययः” वै॰ सू॰ उप॰। स च कर्म्मभेदः कर्म्मच पञ्चविधम्।
“उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणंगमनमिति कर्म्मांणि” वै॰ सू॰। अत्र च उत्क्षेपणत्वा-वक्षेपणत्वाकुञ्चनत्वप्रसारणत्वगमनत्वानि कर्म्मत्वसाक्षाद्याप्याःपञ्च जातयः” वै॰ सू॰ उ॰। कर्म्म च
“एकद्रव्य मगुणंमंयोगविभागेष्वनपेक्षकारणमिति कर्म्मलक्षणम्” वै॰ सू॰उक्वलजणकम्। विवृतञ्च उप॰
“एकमेव द्रव्यमाश्रयो-यस्य तदेकद्रव्य न विद्यते गुणोऽस्मिनित्यगुणम्” संयो-गविभागेष्वनपेक्षकारणगिति स्वोत्पत्त्यनन्तरोत्पत्तिकभावभूतानपेक्षमित्यर्थः तेन समवायिकारणापेक्षायां पूर्ब्बसंयो-गाभावापेक्षयाञ्च नासिद्धत्वम्। स्वोत्पत्त्यनन्तरोत्पत्तिका-नपेक्षत्वं वा विवक्षितम् पूर्ब्बसंयोगध्वं सस्यापि स्वोत्पत्त्यन-न्तरानुत्पत्तिकत्वेन अभावत्येन तस्याद्यक्षणे सम्बन्धा-भावात् तेन नित्यावृत्तिसत्तासाक्षाद्व्याप्यजातिमत्त्वं[Page0600-b+ 38] कर्म्मत्वम्। प्रचलतीति प्रत्ययासाधारणकारणतावच्छेदक-जातिमत्त्वं वा गुणान्यनिर्गुणमात्रवृत्तिजातिमत्त्वं वास्वोत्पत्त्यव्यवहितोत्तरक्षणवृत्तिविभागकारणतावच्छेदकजा-तिमत्त्वं वा”
“उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा। प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्ज च” भाषा॰
“सन्धिगतः पीड्यमानो न प्रवर्त्तत आकुञ्चनप्रसारणोन्न-मनविनमनप्रधावनोत्कासनप्रबाहणैश्च स्रवति”
“प्रसा-रणाकुञ्चनबन्धनपीडनैर्भृशमुपचरेत्” अनुगृह्यते चाकु-ञ्चनप्रसारणादिभिर्विशेषैः” इति च सुश्रुतः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकुञ्चन¦ n. (-नं)
1. Compression, contraction, shrinking.
2. Collecting, heaping.
3. Curving, flexure.
4. Contortion. E. आङ् before कुचि to contract, ल्युट् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकुञ्चनम् [ākuñcanam], 1 Bending, contraction, compression; Ku.78. &c. also उत्क्षेपणं तथावक्षेपणमाकुञ्चनं तथा Bhāsā. P.
Contraction regarded as one of the 5 karmans q. v.
Collecting, heaping.
Curving.
Contortion.
A kind of army movement; आकुञ्चनं तथा यानं प्रयाणमप- यानकम् Śukra.4.11.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आकुञ्चन/ आ-कुञ्चन n. bending (of a limb) Sus3r.