आक्षेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः, पुं, (आङ् + क्षिप् + घञ् ।) अपवादः । इत्यमरः ॥ भर्त्सनं । (यथा -- नीतिशतके । ४२ ॥ ‘क्षान्त्येवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः सन्तः साश्चर्य्यचर्य्याजगति बहुमता कस्यनाभ्यर्थनीयाः’ आकर्षणं । (“नवपरिणयलज्जाभूषणां तत्र गौरीं । वदनमपहरन्तीं तत्कृताक्षेपमीशः” ॥ इति कुमारे । ७ । ९५ । विन्यासः । स्थापनं । “कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे । तस्याः कपोले परभागलाभात्” । इति कुमारे । ७ । १७ अपहरणं । यथा, -- “यत्रांशुकाक्षेपविलज्जितानां” । १ । १४ कुमारे । उपस्थितिः । यथा साहित्यदर्पणम् । “मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये” । इति ।) काव्यालङ्कारः । इति मेदिनी ॥ (अल- ङ्कारप्रकरणे विशेषो द्रष्टव्यः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप पुं।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।1।2

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

आक्षेप पुं।

अद्भुतप्रश्नः

समानार्थक:चोद्य,आक्षेप,अभियोग

1।6।17।2।2

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप¦ पु॰ आ + क्षिप--घञ्।

१ भर्त्सने,

२ अपवादे,

३ आक-र्षणे, धनादिन्यासरूपे,

४ निक्षेपे

५ अर्थालङ्कारभेदे स च

३९

४ पृष्ठे दृश्यः।

६ निवेशने
“गोरोचनाक्षेपनितान्तगौरैः” कुमा॰

७ उपस्थापने
“स्वसिद्धये पराक्षेपः परार्थे स्वसम-र्पणम्। उपादानं लक्षणं चेति” काव्यप्र॰।

८ अनुमानेयथा जातिशक्तिवादिनां मते व्यक्तेराक्षेपात् बोघः। सचानुमानमेव। तथा हि गामानयेति वाक्येगोत्वकर्म्मका-नयनं गोकर्म्मकानयनं विनाऽनुपपन्नमित्यनुपपत्तिज्ञानेन गो-त्वाश्रयस्य व्यक्तेरनुमानेन भानम्। यथोक्तं शब्दशक्ति॰
“गामानयेत्यादौ गोत्वादिकर्म्मकत्वेनैवानयनादेरन्वयधोःगोत्वादिशक्तत्वेन पदज्ञानस्य गोत्वाद्यानयनबुद्धिं प्रत्येव-हेतुत्वात् गामनयेत्यादौ स्वाश्रयवृत्तित्वसम्बन्धेनैव प्रकृ-त्यर्थस्य गोत्वादेः साकाङ्क्षत्वात् गवादिकर्म्मताकत्वेन बोध-स्तूत्तरकालमाक्षेपात्। कर्म्मत्वं गोवृत्ति गोत्वनिष्ठकर्मता-त्वात्, आनयनं गोवृत्तिकर्मताकम् गोत्ववृत्तिकर्मताकत्वा-दित्याद्यनुमानसाम्राज्यात्”।

९ सतिस्कारवचनेच
“विरुद्ध-माक्षेपवचस्तितिक्षतः” किरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप¦ m. (-पः)
1. Throw, toss.
2. Abuse, reviling.
3. Censure, blame, re- proach.
4. Attraction.
5. A figure in rhetoric, (irony.) E. आङ्, क्षिप् to throw or send, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेपः [ākṣēpḥ], 1 Throwing off, tossing, pulling off, snatching away; अंशुकाक्षेपविलज्जितानाम् Ku.1.14; withdrawing; वदनमपहरन्तीं तत्कृताक्षेपमीशः Ku.7.95; movement, shaking; K.13.

Reviling, censure, blame, abuse, reproach, defiant censure; इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः Bhāg.12.6.22. ˚प्रचण्डतया U.5.28; विरुद्धमाक्षेपवचस्तितिक्षितम् Ki.14.25; Bh.2.69.

Drawing together, attraction, diverting; कथारसस्याक्षेपसामर्थ्यम् K.346,348 power to interest

Distraction, allurement; विषयाक्षेपपर्यस्तबुद्धेः Bh.3.47,23.

Throwing away, giving up.

Applying, laying on, putting in or into (as a colour); गोरोचनाक्षेपनितान्तगौरैः Ku.7.17.

Hinting at, reference to, taking to oneself or assuming as the meaning of another word; स्वसिद्धये पराक्षेपः K. P.2.

An inference.

A deposit.

An objection or doubt.

Convulsion, palpitation.

Sustaining, as a sound.

(In Rhet.) A figure of speech (cf. Greek paralipsis) in which something really intended to be said is apparently suppressed or denied to convey a particular meaning; आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् । चन्द्रसंदर्शयात्मानमथवास्ति प्रियामुखम् ॥ Kuval. For fuller definitions and explanations see K. P.1, S. D.714 and Akṣepaprakaraṇa in R. G.

Reach (of an arrow); सो$यं प्राप्तस्तवाक्षेपम् Mb.7.12.6. -Comp. -रूपकम् A simile in which the object compared is only hinted at; Kāv.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्षेप/ आ-क्षेप m. drawing together , convulsion , palpitation Sus3r. Kum. vii , 95 Ka1d.

आक्षेप/ आ-क्षेप m. applying , laying (as a colour) Kum. vii , 17

आक्षेप/ आ-क्षेप m. throwing away , giving up , removing Kum. i , 14 , etc.

आक्षेप/ आ-क्षेप m. " shaking about the hands " or " turning the hand " (in pronouncing the स्वरित) RPra1t.

आक्षेप/ आ-क्षेप m. charming , transporting Ka1d. etc.

आक्षेप/ आ-क्षेप m. (in rhetoric) pointing to (in comp. ) , hinting Sa1h. Das3ar. etc.

आक्षेप/ आ-क्षेप m. (See. also आक्षेपो-पमाbelow)

आक्षेप/ आ-क्षेप m. reviling , abuse , harsh speech BhP. etc. (See. सा-क्षेपम्)

आक्षेप/ आ-क्षेप m. objection (especially to rectify a statement of one's own) Sus3r. Ka1vya7d. Sa1h. etc.

आक्षेप/ आ-क्षेप m. challenge Katha1s.

आक्षेप/ आ-क्षेप m. N. of a man VP.

"https://sa.wiktionary.org/w/index.php?title=आक्षेप&oldid=490308" इत्यस्माद् प्रतिप्राप्तम्