आगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमम्, क्ली, (आङ् + गम + अच् ।) तन्त्रशास्त्रं । अस्यार्थः । यथा तन्त्रशास्त्रं ॥ “आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने । मतञ्च वासुदेवस्य तस्मादागममुच्यते” ॥ इति (एतल्लक्षणं यथा, -- “सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनं । साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च ॥ षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः । सप्तमिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः” ॥ इति यथा रघुवंशे । १० । २६ ॥ “बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः”)

आगमः, पुं, (आ + गम् + अच् ।) शास्त्रमात्रं ।) (“आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः” । इति किराते । ५ । २२ ।) आगमनं । इति मे- दिनीकरहेमचन्द्रौ ॥ (अर्थादीनामागमः । यथा, नीतिशतके ७३ श्लोके । “नित्यव्यया प्रचुरनित्य- धनागमा च” । इति । प्राप्तिः । उपार्जनम् । “नाधर्म्मेणागमः कश्चिन्मनुष्यान् प्रति वर्त्तते” । इति मनुः ॥) साक्षिपत्रादिः । इति व्यवहारमातृका ॥ प्रकृति- प्रत्ययानुपघाति कार्य्यं । इति व्याकरणं ॥ (शास्त्र- ज्ञानं । श्रुतवत्ता । यथा, “आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः” । इति रघुवश १ म सर्गे १५ । यथा च रघौ १४ । ८० । “तामर्पयामास च शोकदीनां तदागमप्रीतिषु तापसीषु” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगम¦ पु॰ आ + गम--घञ्।

१ आगतौ

२ प्राप्तौ

३ उत्पत्तौ च
“आगमापायिनोऽनित्यास्तांस्तितिक्षस्वभारत!” गीता, आगम्यते प्राप्यतेऽनेन करणेघञ्।

४ सामाद्युपाये
“आगमैः सदृशारम्भ आरम्भसदृ-शोदयः” रघुः आगम्यते स्वत्वभनेन। स्वत्वप्रापके

५ क्रयप्रतिग्रहादौ
“आगमोनिष्फलस्तत्र भुक्तिःस्तोकापियत्र नो” या॰ स्मृतिः
“अनागमन्तु यो भुङ्क्ते बहून्य-ब्दशतान्यपि” स्मृतिः” यादशागमस्व प्रामाण्यं तन्नि-रूपितम् मिता॰।
“भोगमात्रस्य स्वत्वव्यभिचारात्कीदृशोभोगः प्रमाणमित्यत आह।
“आगमोऽभ्यधिकोभो-गाद्विना पूर्व्वेक्रमागतात्” या॰ स्वत्वहेतुः प्रतिग्रहक्रेयादि-रागमः। स भोगादभ्यधिकोबलीयान् स्वत्वबोधने॰ भोग-स्यागमसापेक्षत्वात्। यथाह नारदः।
“आगमेन विशुद्धेनभोगोयाति प्रमाणताम्। अविशुद्धागमो भोगः प्रामाण्यंनैव गच्छतीति”। न च भोगमात्रात्स्वत्वावगमः परकीय-स्याप्यपहारादिनोपभोगसम्भवात्। अतएव
“भोग तु केवलं-यस्तु कीर्त्तयेन्नागमं क्वचित्। भोगच्छलापदेशेन विज्ञेयःस तु तस्कर” इति स्मर्य्यते। अतश्च सागमोदीर्घकालोनिरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तोभोगः प्रमाणमित्युक्तम्भवति। तथा च स्मर्य्यते।
“सागमोदीर्घकालश्चाविच्छेदोऽन्यरवोज्झितः। प्रत्यर्थिसन्निधानश्चपरिभोगोऽपि पञ्चधेति”। क्वचिच्चागमनिरपेक्षस्यापिभोगस्य प्रामाण्यमित्याह। विना पूर्व्वक्रमागतादिति। [Page0615-a+ 38] पूर्ब्बेषां पित्रादीनां त्रयाणां क्रमः पूर्बक्रमस्तेनागतो यो भोग-स्तस्माद्विना आगमोऽभ्यधिक इति सम्बन्धः। स पुनरागमाद-भ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः तत्राप्यागमज्ञान-निरपेक्षो न सत्त्वनिरपेक्षः सत्ता तु तेनैवावगम्यत इति बोद्ध-व्यम्। विना पूर्ब्बक्रमागतादित्येतच्च स्मार्त्तकालप्रदर्शनार्थम्।
“आगमोऽभ्यधिकोभोगादिति” च स्मार्त्तकालविषयम्। अतश्चस्मरणयोग्येकाले योग्यानुपलब्ध्यागमाभावनिश्चयसम्भवादा-गम ज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम्। स्मार्त्ते तु कालेयोग्यानुपलब्ध्यभावेनागमाभावनिश्चयासम्भवादागमज्ञाननिरपेक्ष एव सन्ततो भोगः प्रमाणम्। एतदेव स्यष्टीकृत-ङ्कात्यायनेन।
“स्मार्त्तेकाले क्रिया भूमेः सागमा भुक्तिरिष्यतेस्मार्त्तेत्वनुगमाभावात् क्रमात् त्रिषुरुषागता”। स्मार्त्तश्चकालो वर्षंशतपर्य्यन्तः
“शतायुर्वै पुरुष इति” श्रुतेः। अनु-गमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चया-भावादिति। अतश्च वर्षशताधिको भोगः सन्ततोऽप्रतिरवःप्रत्यर्थिप्रत्यक्षश्चागमाभावे चानिश्चिते अव्यभिचारादाक्षि-प्तागमः स्वत्वं गमयति। स्मार्त्तेऽपि कालेऽनागमस्मृति-परम्परायां सत्यां न भोगः प्रमाणम्। अतएव
“अनागमन्तुयो भुङ्क्ते बहून्यब्दशतान्यपि। चौरदण्डेनतम्पापन्दण्डयेत्-पृथिवीपति” रित्युक्तम्। न चानागमन्तु यो भुङ्क्तैत्येकवचन-निर्द्देशाद्बहून्यब्दशतान्यपीत्यपिशब्दप्रयोगात् प्रथमस्य पुरुषस्यनिरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यंद्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रस-ङ्गात् नचैतदिष्यते
“आदौ तु कारणन्दानं मध्ये भुक्तिस्तुसागमेति” नारदस्मरणात्। तस्मात् सर्वत्र निरागमोपभोगे
“अनागमन्तु योभुङ्क्त इत्येतद्द्रष्टव्यम् यदपि
“अन्यायेनापियद्भुक्तं पित्रा पूर्बतरैस्त्रिभिः। न तच्छक्यमपाहर्त्तुं क्रमात्त्रि-पुरुषागतमिति”। पित्रा सह पूर्बतरैस्त्रिभिरिति योज्यम्। तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मार्त्तकालोपलक्षणम्। त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसम्भ-वाद्द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गःतथा सति
“स्मार्त्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यत” इति स्मृतिविरोधः।
“अन्यायेनापि यद्भुक्तमित्येतच्चा-न्यायेनापि भुक्तमपहर्त्तुन्न शक्यं किम्पुनरन्यायानिश्चय-इति व्याख्येयमपिशब्द श्रवणात्। यच्चोक्तम्।
“यद्विनाग-ममत्यन्तम्भुक्तं पूर्ब्बैस्त्रिभिर्भवेत्। न तच्छक्यमपाकर्त्तुंक्रमात् त्रिपुरुषागतमिति” तत्राप्यत्यन्तमागमं विनेत्यत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयम्। न पुनरागम[Page0615-b+ 38] स्वरूपं विनेति आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भव-तीत्युक्तं क्रमात्त्रिपुरुषागतमित्येतदुक्तार्थम्। ननु स्मरणयोग्येकाले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम्। तथाहि। यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्यस्वत्वे आगमे वा प्रामाण्यम् अथ प्रामाणान्तरेण नागमोऽवगतःकथन्तद्विशिष्टोभोगः प्रमाणम्। उच्यते। प्रामाणान्तरेणावग-तागमसहित एव निरन्तरोभोगः कालान्तरे स्वत्वङ्गमयति। अवगतोऽप्यागमोभोगरहितो न कालान्तरे स्वत्वङ्गमयितुमलंमध्ये दानविक्रयादिना स्वत्वापगमसम्भवादिति सर्वमनवद्यम्। आगमसापेक्षो भोगः प्रमाणमित्युक्तम्। आगमस्तर्हि-भोगनिरपेक्ष एव प्रमाणमित्यत आह।
“आगमेऽपि बलंनैव भुक्तिस्तोकापि यत्र नो” या॰ यस्मिन्नागमे स्वल्पापिभु-क्तिर्नोनास्ति तस्मिन्नागमे बलं सम्पूर्णं नैवास्ति। अयमभिसन्धिः स्वत्वनिवृत्तिपरस्वत्वापादनञ्च दानम्। परस्वत्वापा-दानं च परो यदि स्वीकरोति तदा सम्पद्यते नान्यथा। स्वीका-रस्त्रिविधोमानसो वाचिकः कायिकश्चेति। तत्र मानसो-ममेदमिति संकल्परूपः। वाचिकस्तु ममेदमित्याद्यभि-व्यवहारोल्लेखी स विकल्पकः प्रत्ययः। कायिकः पुनरुपा-दानाभिमर्शनादिरूपोऽनेकविधः तत्र च नियमः स्मर्य्यते
“दद्यात्कृष्णाजिनम्पुच्छे गां पुच्छे करिणङ्करे। केशरेषुतथैवाश्वन्दासींशिरसि दापयेदिति”। आश्वलायनोऽप्याह।
“अनुमन्त्रयेत् पाणिनाभिमृशेत् प्राणिनं कन्यां चेति”। तत्रहिंरण्यवस्त्रादावुदकदानान्तमेवोपादानादिसम्भवात् त्रि-विधोऽपि स्वीकारः सम्पद्यते। क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासम्भवात् स्वल्पेनाप्यपभोगे-न भवितव्यम्। अन्यथा दानक्रयादेः सम्पूर्णतान भक-तीति फलोपभोगलक्षणकायिकस्वीकारविकलश्चागमो दुर्ब-लो भवति तत्सहितादागमात्। एतच्च द्वयोः पूर्ब्बा-परकालापरिज्ञाने। पूर्वापरकालज्ञाने तु विगुणोऽपि पूर्व्व-कालागम एव बलीयानिति। अथ वा
“लिखितं साक्षिणो-भुक्तिः प्रमाणं त्रिविधं स्मृत” मित्युक्तम्। एतेषां समवाये-कुत्र कस्य प्राबल्यमित्यत्रेदमुपतिष्ठते।
“आगमोऽभ्यधिकोभोगाद्विनापूर्व्वक्रमागतात्। आगमेऽपि बलं नैव भुक्तिः स्तो-कापि यत्र नो” इति अयमर्थः। आद्ये पुरुषे साक्षिभि-र्भावितश्चागमो भोगादभ्यधिकोबलवान्पूर्वक्रमागताद् भोगाद्विना। स पुन पूर्व्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखिते-न भावितादागमात्बलवान् मध्यमे तु भोगरहितादाग-मात् स्तोकभोगसहितोऽप्यागमो बलवानिति। एतदेव[Page0616-a+ 38] नारदेन स्पष्टीकृतं
“आदौ तु कारणन्दानं मध्ये भुक्तिस्तुसागमा। कारणं भुक्तिरेवैका सन्तता या चिरन्तनीति”
“पश्यतो ब्रुवत इत्यत्र विंशतिवर्षभोगादूर्द्ध्वं भूमेर्द्धनस्यापिदशवर्षभोगादूर्द्धं फलानुसरणं न भवतीत्युक्तम्। तत्रफलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्यपुरुषव्यवस्थया प्रमाणव्यवस्थया च दण्डव्यवस्थां दर्शयि-तुमाह।
“आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत्। नतत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसो” या॰। येन पुरुषेणभूम्यादेरागमःस्वीकारः कृतः। स पुरुषः कुतस्ते क्षेत्रादि-कमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखितादिभिरुद्ध-रेत् भावयेत्। अनेनचाद्यपुरुषस्यागममनुद्धरतोदण्ड इत्युक्तंभवति तत्सुतो द्वितीयोऽभियुक्तोनागममुद्धरेत्, किन्तु अ-विच्छिन्नाप्रतिरवसमक्षभोगम्। अनेनचागममनुद्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टम्भोगमनुद्धरतो दण्ड इतिप्रतिपादितम्। तत्सुतस्तृतीयोनागमं नापि विशिष्टम्भो-गमुद्धरेदपि तु क्रमागतम्भोगमात्रम्। अनेनापि तृतीयस्यक्रमायातभोगानुद्धरणे दण्डोनागमानुद्धरणे न विशिष्ट-भोगानुद्धरणे वेत्यभिहितम्। तत्र तयोर्द्वितीययोर्भु-क्तिरेव गरीयसी। तत्रापि द्वितीये गुरुः तृतीयेगरोयसीति विवेक्तव्यम्। त्रिष्वप्यागमानुद्धंरणेऽर्थहानिः समा-नैव दण्डे तु विशेष इति तात्पय्यार्थः। उक्तञ्च।
“आगमस्तु कृतोयेन स दण्ड्यस्तमनुद्धरन्। न तत्सुत-स्ततसुतो वा भोगहानिस्तयोरपि”। अस्मार्त्तकालोपभो-गस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्ब्बक्रमागतादित्यत्र तस्यापवाद माह।
“योऽभियुक्तः परेतः स्यात्तस्य रि-क्थी तमुद्धरेत्। न तत्र कारणम्भुक्तिरागमेन विनाकृता” या॰ यदा पुनराहर्त्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एवपरेतःस्यात्परलोकगतोभवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत्। यस्मात्तत्र तस्मिन् व्यवहारे भुक्तिरा-गमरहिता साश्यादिभिः साधितापि न प्रमाणम्। ” व्यव॰ त॰ रघुनन्दनेन तु षष्ट्यब्दएव स्मार्त्तकालतया उक्तः। यथा तद्धृतं व्यासवाक्यम्
“वर्षाणि विंशतिं भुक्तास्वामिनाऽव्याहता मही। भुक्तिः सा पौरुषी भूमेर्द्विगुणातु द्विपौरुषो। त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगम” इति। त्रिपुरुषभोगे विशेषमाह तत्रैव व्यासः। प्रपितामहभुक्त यत् तत्पुत्रेण विना च तम्। तौविना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः। पिता पिताम-होयस्य जोवेच्च प्रपितामहः। त्रयाणां जीवतां भोगो[Page0616-b+ 38] विज्ञेयस्त्वेकपुरुषः” इति एवञ्च शतषष्टिवर्षयोः स्मार्त्त-कालत्वं देशभेदात् व्यवस्थापनीयम्। अत्राप-वादः।
“भुक्तिस्त्रैपौरुषी सिध्येदपरेषां न संशयः। अनि-वृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति। अस्वामिनाच यद्भुक्तं गृहक्षेत्रापणादिकम्। सुहृद्बन्धुसकुल्यस्यन तद्भोगेन होयते। विवाह्यश्रोत्रिवैर्भुक्तं राज्ञाऽमात्यै-स्तथैव च। सुदीर्घेणापि कालेन तेषां स्वत्वं न सिध्यति” वृह॰। अत्रापि विशेषमाह तत्रैव
“स्त्रीधनञ्च नृपेन्द्राणांकदाचन न जीर्य्यति। अनागमं भुज्यमामपि वर्षशतै-रपि” आगम्यते तत्त्वमनेन।

६ तत्त्वावेदकशास्त्रे
“तस्मा-दपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सा॰ का॰।
“सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वाआगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः” इत्युक्ते

७ शास्त्रमात्रे
“शृण्वतां जायते भक्तिस्ततो गुरु-मुपासते। स च विद्यागमान् वक्ति विद्यायुक्स्वाश्रितोनृप!” देवीषु॰। स च गुरुः विद्यासाधनमागमं वक्तिउपदिशतीत्यर्थः।

८ वेदे च
“रक्षोहागमलघ्वसन्देहाःप्रयोजनम्”
“आगमः खल्वपि ब्राह्मणेन निष्फारणो-धर्मः षडङ्गोवेदोऽध्येयः ज्ञेयश्चेति” फ॰ भा॰।
“आगमःप्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्यदर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति कैयठः।
“आगमपदेन श्रुतिरिति” उद्द्योतः।
“बहवोप्यागमैर्भिन्नाःपन्थानः सिद्धिहेतवः” रघुः।

९ मन्त्रे च
“सर्ववेदःक्रियामूलं ऋषिभिर्बहुधोदितः। कालोदेशः क्रिया कर्त्ताकारणं कार्य्यमागमः। द्रव्यं फलमिदं ब्रह्मन्नवरोक्तोऽजया-हरिः”। भा॰

१२ ,

११ अध्या॰
“तत्र कालः प्रातरादिःदेशः समादिः क्रियाऽनुष्टानं कर्त्ता ब्राह्मणादि, कारणंस्त्रुवादि कार्य्यं यागादि आगमोमन्त्रादिः द्रव्यं व्रीह्यादिफलं स्वर्गादि” इति श्रीधरः। आ + गम--गत्यर्थत्वात् ज्ञाने भावे घञ्।

१० शब्दजन्यबोधे
“प्रत्यक्षमनुनानञ्च शास्त्रञ्च विविघागमम्। त्रयं सुविदितंकार्य्यं धर्म्मशुद्धिमभीप्सुना” मनुः। विविधानां धर्म्माणा-मागमोयस्मात्विविधागमम्। करणे घञ्।

११ शाब्दबोध-साधने शब्दरूपप्रमाणे च
“ऐन्द्रिह्यमनुमानञ्च प्रत्यक्षमपिचागमम्। येतु सम्यक्परीक्षन्ते कुतस्तेषामबुद्धिता” रामा॰
“आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने। मग्नश्चहृदयाम्भोजे तस्मादागम उच्यते” यामलोक्ते

११ तन्त्र-शास्त्रे पुं न॰ तथा च आगतादीतामाद्यक्षरयुक्तत्वात् तथात्वम्[Page0617-a+ 38] रुद्रयामले तु मतं श्रीवासुदेवस्येति पाठः क्लीवत्वेन
“आग-मोक्तविधानेन कलौ देवान् यजेत् सुधीः न हि देवाःप्रसीदन्ति कलौ चान्यविधानतः। पञ्चवर्ण्णैर्भवेद्दीक्षा-ह्यागमोक्तैः शृणुप्रिये!। यां कृत्वा कलिकाले च सर्वाभीष्टंलभेन्नरः” तन्त्रसारे यामलम्” प्रसङ्गात्तन्त्ररूपागमस्यप्रामाण्यं तदुपासनादिषु कलौ अधिकारिविशेषस्य कर्त्तव्यताच प्रदर्श्यते। निजनिजकर्मवासनारूपपाशबद्धान् अनात्मज्ञान्जन्ममरणादिक्लेशभाजः संसारपारं गन्तुमसमर्थान् प्राणिनोबिलोक्य परमेश्वरः वेदेन कर्मकाण्डोपासनाकाण्डब्रह्म-काण्डात्मकार्थान् समुपदिदेश। तत्र वेदानाम् उच्छिन्न-प्रायतया क्रमशो रागबाहुल्येन तदुक्तधर्मेषु उच्छिन्नप्रायेषुसत्सु अनुच्छिन्नानामप्यर्थस्य दुर्मेधसामिदानीन्तनादोनां दु-रधिगमतया आयासबाहुल्येन च तत्राप्रवर्त्त मानानांक्रमशोविलप्तेषु श्रौतधर्म्मेषु कथङ्कारमुद्धारः स्यादित्या-कलय्य कारुण्योदयेन वेदार्थप्रकाशनार्थं सुगमोपायेनजैमिनिव्यासनारदादिरूपोपधिभिरुपहितः सन् तत्त-द्ग्रन्थान् प्रणीतवान्। तत्र कर्म्मकाण्डार्थो जैमिनासन्वादिभिश्च सम्यक्तया व्याकृतः उपासनाकाण्डार्थः स्वयंशिवमूर्त्त्या तन्त्रशास्त्रं, नारदादिमूर्त्त्या च पञ्चरात्रादिकंविधाय विवृतः ब्रह्मकाण्डार्थश्च वेदव्यासमूर्त्त्येति विवेकः। ततश्च धर्मे वेदस्यैव स्वतःप्रमाणत्वेन वेदमूलकत्वादन्येषांप्रामाण्यंतत्र स्मृतीनामिव आगमस्यापि वेदमूलकत्वमनुमी-यते। वेदएव रामतापनीयनृसिंहतापनीयाद्यात्मके आग-मोक्तोपसनादिसंवादात् तन्मूलकत्वाधिगमात् येषां च मूलानिनाधिगम्यन्ते तेषामपि प्रामाण्यं स्मृति वाक्यवत् अनुमा-तव्यम् भ्रमप्रमादादिशून्यत्वहेतोः स्मृतिकर्त्तॄणामिव आग-मकर्त्तुः शिवस्य सत्त्वात् तन्त्रवाक्यस्य स्मृतिबाक्यवत्प्रामाण्यम् न च बौद्धागमादिवत् विप्रलम्भकवाक्यत्वंरागद्वेषादेस्तस्मिन्नसत्त्वात्। तत्रृ कृर्मकाण्डार्थे सर्वेषाम-पर्य्युदस्तानामधिकारः मुमुक्षोरपि तत्त्वज्ञानपर्य्यन्तंचित्तशोधनार्थं प्रत्यवायपरिहारार्थं च कर्म्मणां कर्त्तव्य-तोपदेशात्
“तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेनयज्ञेन तपसेत्यादि” श्रुतेः
“आरुरुक्षोर्मुनेर्योगम्कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारण-मुच्यते” गीतावाक्याच्च। ततोऽन्येषामपि ईश्वरार्पणेनफलानभिसन्धानेन च कृतानां कर्म्मणां बन्धाहेतुत्वात् क्रम-शोमुक्तिः फलम्। एवमुपासनाकाण्डार्थेऽपि सर्वेषामधिकारःश्रुतौ तपसेति निर्द्देशात्
“सर्वं खल्विदं ब्रह्म तज्जला-[Page0617-b+ 38] निति शान्त उपासीत स क्रतुं कुर्व्वीतेति” श्रुत्या सोपाधिकस्येश्वस्योपासनाविधानाच्च। उपासना च मानसी क्रिया ध्या-नपरपर्य्याया तत्र निराकारस्य ब्रह्मणोऽसम्भवात् सोभाधि-केश्वरविषयैवोपासना कर्त्तव्या। सा च गुणोपाधिविशिष्ट-स्येव तत्तदाकारोपहितस्यापि सम्भवति
“चिन्मयस्याद्विती-यस्य निष्कलस्याशरीरिणः। उपासकानां सिड्यथेब्रह्मणोरूपकल्पना” इत्युक्तेः। कल्पना च न स्वेच्चयाकिन्तु शास्त्रादिसिद्धैव। तथा चागमपुराणादिषु यानियानि रूपाणि वर्णितानि तद्रूपेणैव। उपासनाकर्त्तव्या। ब्रह्मकाण्डार्थे तु कर्मभिश्चित्तशुद्धौ साकारो-पासनेन तदैकाग्र्यवतः वेदान्तोक्तसाधनचतुष्ठयवत एवाधि-कार इति भेदः। तत्र तान्त्रिकोपासने कर्त्तव्येऽपि देवोभूत्वादेवं यजेत्” इत्युक्तेः भूतशुद्ध्यादिना आत्मानं शोधयित्वाउपास्यदेवेनैकोभूतमात्मानं ध्यात्वैवोपासनं कार्य्यम्
“अथयो-ऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मि न स वद यथापशुरेव स देवानामिति” श्रुत्या भेदेनोपासानाया निन्दनात्तान्त्रिकोपासनेऽपि कर्त्तव्ये वैदिककर्म्मसु सावित्रजत्मरूपोपनयनसंस्कारस्येव तन्त्रोक्तदीक्षायाएवाधिकारप्रयोज-कत्वम् तत्र दीक्षायाञ्च सर्वेऽपि वर्ण्णा अनुलोम्प्रतिलोमजाश्चाधिकारिणः
“मां हि पार्थ! व्यपाश्रित्ययेऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथाशूद्रास्तेऽपि यान्ति परां गतिमिति” गीतायां भग-वदुपासने सर्वेषामधिकारस्य पतिपादनात्। अत्र
“पुराणादौ कश्चित् विशेषो दर्शितः यथा
“यानि शास्त्राणिदृश्यन्ते लोकेऽस्मिन् विविधानि च। श्रुतिस्मृतिविरुद्धानितेषां निष्ठा तुतामसी। करालभैरवञ्चापि यामल वाममाश्रि-तम्। एवंविघानि चान्यानि मोहनार्थानि तानि तु। मयासृष्टानि चान्यानि मोहायैव भवार्ण्णवे” इति देवी-पुराणवचने वाममाश्रितमिति विशेषणात् श्रुतिस्मृतिविरुद्धानीति निर्द्देशाच्च श्रुतिस्मृतिविरुद्धवाममार्गस्यैव निन्दनात् तत्रैवाधिकारिविशेषस्यानधिकारो न तुतन्त्रोक्तेष्वपि इतरांशेषु वेदाविरुद्धेषु इति निर्णयः। वस्तुतः
“सौत्रामण्यां सुरां पिबेत्” इति श्रुत्याविहितस्य सौत्रमण्यां सुरासेवनस्येव वामदेवसामोपासकस्य
“न काञ्चन परिहरेदिति” सर्व्वस्त्रीगमनस्येवअधिकारिविशेषविषये तस्यापि ग्राह्यता। अतएवमनुना
“न मांसभक्षणे दोषो न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफलेति” सामा-[Page0618-a+ 38] न्यतो विहितमद्यादौ न दोष इत्युक्तम्। कुलाचारशब्देवक्ष्यमाणस्य कुलाचारधर्म्मस्य प्रायेणेदानीन्तनानां दुष्करत्वेन सुतरां तन्मार्गस्य तन्त्रनिर्द्दिष्टाधिकारिणामिदानी-मसत्त्वात् नैव कर्त्तव्यता। अथ कश्चित् प्राग्भववासनावशादधिकारी सम्पद्यते तथापि कूलचूडामणौ
“यत्रासवंतु देयं स्यात् ब्राह्मणस्तु विशेषतः। तत्रार्द्रकरसं दद्यात्ताम्रे वा विसृजेन्मधु। देव्यास्तु दक्षिणे भागे चक्रपार्श्वेनिवेदयेत्। मद्यद्रव्यं तु शूद्रस्य नान्येषान्तु कदाचन”।
“वैश्यस्य माक्षिकं शुद्धं क्षत्रियस्य तु साज्यकम्। ब्राह्म-णस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु। नारिकेलोदकंकांस्ये सर्वेषां चैव शोधनम् इति” च द्विजातीनामासवदान-निषेधेन गौणकल्प एवाधिक्रियते न मुख्यकल्पे।
“पीत्वा-पीत्वा पुनः पीत्वा पतितोधरणीतले! उत्थाय च पुनःपीत्वा पुनर्जन्म न विद्यते” इति वचनन्तु चतुर्थाश्रमविषय-मिति तन्त्रसारः।
“निस्त्रैगुण्येपथि विचरतां को विधिः कोनिषेध” इत्युक्तेश्चतुर्थाश्रमस्य विधिनिषेधातिक्तान्तत्वेऽपिपरमहंसाश्रमस्येव दोषाभाव इति युक्तमुत्पश्याभः।
“वरं प्राणाः प्रगच्छन्तु ब्राह्मणोनार्पयेत् सुराम्” ब्राह्मणोमद्यदानेन ब्राह्मण्यादेव हीयते” वृहत्सङ्गमतन्त्रम्। अतएव कालिका पु॰
“अवश्यं विहितं यत्र मद्यं तत्रद्विजः पुनः। नारिकेलोदकं कांस्ये ताम्रे वाविसृजेन्मधु” इत्यनुकल्पो गृहस्थद्विजातिमात्रे विहितःएवं मत्स्यमांसयोर्निषिद्धयोरपि वाममार्गिणां दानादिकं न स्मृतिविरुद्धं
“देवान् पितॄन् समभ्यर्च्य खादन् सांसंन दोषभाक्” इति मनुनां देवार्चनावशिष्टमांसभोजनस्यविधानात्। एतदपि दिव्यभावविषयमिति तन्त्रसारः
“मादकंसर्वदा वर्ज्यं मद्यं मांसं सुलोचने!। ज्ञानेन संस्कृतं तत्तुमहापातककनाशनमिति” कुलार्ण्णवोक्तेः। ज्ञानेनसर्वनरेषु आत्मत्वज्ञानेनेत्यर्थः। तदपि न श्रुतिविरुद्धंविश्वनरेषु आत्मदृष्टिमतो वैश्वानरसामोपासकस्य सर्वान्नभक्षणविधानवत् तस्यापि तादृशज्ञानमाहात्म्येन तत्र पापानुत्पत्तिसम्भवात् यथा वैश्वानरसामोपासकं प्रकृत्य
“न किञ्च-नानन्नं भवति आश्वभ्य आशकुनिभ्य इति” छा॰ उ॰ सर्व्वा-न्नभोजनं विहितमेवमस्यापि ज्ञानेन पूतत्वान्न तद्भक्षणंदोषावहमिति।
“कृते श्रुत्युदितोमार्गस्त्रेतायां श्रुति-नोदितः। द्वापरे तु पुराणोक्तः कलावागमसम्मतः” इत्यागमवचनं तु प्रशंसापरम् रागादिबाहुल्येनश्रौतादिघर्मस्य कलावसम्भवैति तादृशानां तन्त्राधिका-[Page0618-b+ 38] रित्वसूचनार्थञ्च
“चकार मोहशास्त्राणि केशवःसशिवस्तथा। कापिलं नाकुलं वामं भैरवं पूर्ब्बपश्चि-मम्। पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः,कर्म्म पु॰
“शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम्। येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि। प्रथमंहि मयैवोक्तं शैवं पाशुपतादिकम्” पद्मपु॰ इत्या-दिवचनैरागमस्य तामसत्वेन मोहशास्त्रत्वेन निषिद्धत्वेऽपिवेदाविरुद्धांशस्यग्राह्यतैव।
“तथापि योऽंशोमार्गाणां वेदेनन विरुध्यते। सोऽंशः प्रमाणमित्युक्तः केषाञ्चिदधिकारि-णाम्” सूतसंहितावचनात् अत्र केषाञ्चिदित्युक्तेः नसर्वेषायधिकारितेति सूचितम् तत्राधिकारिणः शाम्बपु॰दर्शिताः।
“श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चित्तपराङ्मुखः। क्रमेण श्रौतसिद्ध्यर्थं ब्राह्मणस्तन्त्रमाश्रयेत्”
“पाञ्चरात्रंभागवतं तन्त्रं वैखानसाभिधम्। वेदभ्रष्टान् समुद्दिश्य कम-लापतिरुक्तवान्” इति च। ततश्च इदानीन्तनानां विशे-षतो गौडदेशवासिनां श्रौतधर्म्माग्निहोत्रादिधर्म्मो-च्छेददर्शनेन तत्पापनाशाय प्रायश्चित्तपराङ्मुखताद-र्शनेन च श्रौतमार्गभ्रष्टतया क्रमेण श्रौताधिकारस्यप्राप्त्यर्थं तन्त्रोक्तोपासनादिषु वेदाविरुद्धेषु अधिकारः। वेदविरुद्धेषु वाममार्गेषु तु चतुर्थाश्रमस्य तन्त्रोक्ताद्भुता-श्रमस्यैवाधिकारः न गृहस्थद्विजानाम् प्रागुक्तैः वचनजातैर्ब्राह्मणादिषु मुख्यमद्यदानसेवनयोर्निषेधात् गृहस्थशूद्रस्यतु मुख्येऽप्यधिकारः द्विजानामनुकल्पाचरणेन तन्मार्गा-श्रयणेऽप्यधिकार इतिविवेकः। तल्लक्षणन्तु
“सृष्टिश्च प्रलय-श्चैव देवानां च तथार्च्चनम्। साधनञ्चैव सर्व्वेषां पुर-श्चरणमेव च। षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्विधःसप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदोविदुः” इति आगमभेदाश्चतन्त्रशब्दे वक्ष्यन्ते। अतएव कलिधर्म्म प्रकरणे” एवं क्रिया-योगपरैः पुमान् वैदिकतान्त्रिकैः। अर्च्चन्नुभयतः सिद्धिम्मत्तोविन्दत्यभीप्सितम्” भाग॰

१२ स्कन्धे

२७ अध्याये तान्त्रिक-पथेनाप्यर्चनं विहितम्।
“अथ सूतकिनः पूजां वक्ष्याम्यागमनो-दिताम्” शा॰ रा॰। आगच्छति प्रकृतिप्रत्ययावनुपहत्य उत्-पद्यते कर्त्तरि संज्ञायां घ।

१३ व्याकरणोक्ते प्रकृतिप्रत्ययानु-पघातके अट् इट् इत्यादौ शब्दभेदे
“आगमादेशयोर्मध्येबलीयानागमोविधिः” व्याकरणान्तरपरि॰
“यदागमा-स्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते”।
“आगमशास्त्रमनि-त्यम्” इति च परिभा॰।
“आगमा आद्युदात्ताः”
“आगमा अविद्यमानवद्भवन्तीति” च का॰ वा॰[Page0619-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगम¦ m. (-मः)
1. Arrival, coming, approach.
2. A Sastra or work on sacred science in general, supposed to be of divine origin.
3. A Tantra or any work inculcating the mystical worship of SIVA and SAKTI.
4. A grammatical augment, a syllable or letter inserted in any part of the radical word.
5. Record, title deed, legal title, a voucher or written testimony, &c. E. आङ् before गम् to go, to come, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगमः [āgamḥ], 1 Coming, arrival, approach, appearance; लतायां पूर्वलूनायां प्रसूनस्यागमः कुतः U.5.2; Śi.1.3; अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते Bg.8. 18; R.14.8, Pt.3.48; Ms.8.41; so व्यसन˚, अन्धकार˚ &c.

Acquisition; एषो$ स्या मुद्राया आगमः Mu.1; Ś.6. this is how I came by this ring; Dk.139; वेदानामागमः K.18; विद्यागमनिमित्तम् V.5.

Birth, origin, source; आगमापायिनो$नित्यास्तांस्तितिक्षस्व भारत Bg.2.14 coming and going, of short birth or duration, transient; आगमः काव्यामृतरसानाम् K.5.

Addition, accumulation, acquisition (of wealth); अर्थ˚, धन˚ &c.

Flow, course, current (of water); Ms.8.252,9.281; रक्त˚, फेण˚.

A voucher or written testimony; see अनागम. संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् Ms.8.2.

Knowledge; शिष्यप्रदेयागमाः Bh.2.15; प्रज्ञया सदृशागमः । आगमः सदृशारम्भः R.1.15; यस्यागमः केवलजीविकायै M.1.17; Y.2.212,92.

Supply of money, income, revenue.

Lawful acqusition of anything; आगमेपि बलं नैव भुक्तिः स्तोकापि यत्र नो Y.2.27,28.

Increase of property.

A traditional doctrine or precept, a sacred writing or scripture, Śāstra; अनुमानेन न चागमः क्षतः Ki.2.28,5.18; परिशुद्ध आगमः 2.33; K.55,337.

The study of Śāstras, sacred knowledge or learning.

Science, a system of philosophy; साङ्ख्यागमेनेव प्रधानपुरुषोपेतेन K.51; बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः R.1.26

the Vedas, the sacred scripture; आत्मन्युपरते सम्यङ् मुनिर्व्युपरतागम Bhāg.1.2.4. न्यायनिर्णीतसारत्वा- न्निरपेक्षमिवारामे Ki.11.39.; आगमः खल्पपि Mbh. on P.I.1.1.

The last of the four kinds of proof, recognized by the Naiyāyikas (also called शब्द or आप्त- वाक्य, the Vedas being so regarded).

An affix or suffix.

The addition or insertion of a letter; भवेद्- वर्णागमाद्धंसः Sk.

An augment; इडागमः.

Theory (opp. प्रयोग); चतुःषष्टिकलागमप्रयोगचतुरः Dk.12.

(-मः, -मम्) A work inculcating the mystical worship of शिव and शक्ति, a Tantra; आगतं पञ्चवक्त्रात्तु गतं च गिरिजानने । मतं च वासुदेवस्य तस्मादागममुच्यते ॥ Śabdak.

The mouth of a river.

What comes later or afterwards. आगमवदन्त्यलोपः स्यात् MS.1.5.1. (आगमवत् as explained by शबर is यथा समाजेषु समासेषु चं ये आगन्तवो भवन्ति ते पूर्वोपविष्टाननुपमृद्यैव निविशन्ते एवमिहापि द्रष्टव्यम् ।

A way of worship; लब्धानुग्रह आचार्यात्तेन सन्दर्शिता- गमः । महापुरुषमभ्यर्चेन्मूर्त्याभिमतमात्मनः ॥ Bhāg.11.3.48.

A road or way journey; आगमास्ते शिवाः सन्तु Rām.2.25.21. -Comp. -अपायिन् Having creation and destruction; आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत Bg. 2.24. -आवर्ता N. of the plant Targia Involucrata Lin. (वृश्चिकाली; Mar. लघुमेडशिंगी.). -निरक्षेप a. independent of a voucher. -नीत a. studied, read, examined. -रहितa.

without a voucher.

devoid of Śāstras. -वृद्ध a. advanced in knowledge, a very learned man; प्रतीप इत्यागमवृद्धसेवी R.6.41. -वेदिन् a.

knowing the Vedas.

learned in Śāstras; (m.) an epithet of Śaṅkarāchārya's preceptor Gauḍapāda. -शास्त्रम् N. of a supplement to the माण्डूक्योपनिषद्. -श्रुतिः f. Tradition. -साक्षेप a. supposed by a voucher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगम/ आ-गम mf( आ)n. coming near , approaching AV. vi , 81 , 2 ; xix , 35 , 3

आगम/ आ-गम m. ( ifc. f( आ). )arrival , coming , approach R. etc.

आगम/ आ-गम m. origin Mn. viii , 401 R. etc.

आगम/ आ-गम m. appearance or reappearance MBh. ii , 547

आगम/ आ-गम m. course (of a fluid) , issue( e.g. of blood) Mn. viii , 252 Sus3r.

आगम/ आ-गम m. income , lawful acquisition (of property , अर्थ, धन, वित्त, द्रविण) Mn. MBh. etc.

आगम/ आ-गम m. reading , studying Pat.

आगम/ आ-गम m. acquisition of knowledge , science MBh. Ya1jn5. etc.

आगम/ आ-गम m. a traditional doctrine or precept , collection of such doctrines , sacred work , ब्राह्मणMn. xii , 105 MBh. etc.

आगम/ आ-गम m. anything handed down and fixed by tradition (as the reading of a text or a record , title-deed , etc. )

आगम/ आ-गम m. addition Nir. i , 4

आगम/ आ-गम m. a grammatical augment , a meaningless syllable or letter inserted in any part of the radical word Pra1t. Pa1n2. Comm.

आगम/ आ-गम m. N. of a rhetorical figure

आगम/ आ-गम n. a तन्त्रor work inculcating the mystical worship of शिवand शक्ति.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम्:F1:  Vi. I. १७. ५८.फलकम्:/F--the rules of; फलकम्:F2:  Br. II. ३०. १९ and २७; III. २१. ४६.फलकम्:/F for digging wells, constructing tanks and gardens; फलकम्:F3:  M. ५८. ५५; १४३. १३.फलकम्:/F cited for यज्ञस् where पशु was not involved and where बीज (seeds) served the purpose of the animal. फलकम्:F4:  वा. ५३. १२२; ५७. १००.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आगम पु.
(आ + गम् + घञ्) किसी रज्जु की बढ़ाई हुई लम्बाई, मा.श्रौ.सू. 1०.1.11।

"https://sa.wiktionary.org/w/index.php?title=आगम&oldid=490348" इत्यस्माद् प्रतिप्राप्तम्