आग्नेय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्नेयम्, क्ली, (अग्निर्देवता यस्य ।) स्वर्णं । इति राज- निर्घण्टः ॥ देशविशेषः । इति शब्दरत्नावली ॥ रक्तं । इति हेमचन्द्रः ॥ घृतं । इति पाणिनिः ॥

आग्नेयः, पुं, (अग्निर्देवतास्य अण् । अग्निनोक्तं पुराणं यदाग्नेयं वेदसम्मितमित्त्यक्तलक्षणे महापुराण- भेदे बह्निपुराणे च । अग्निदेवताके द्रव्यमात्रे च त्रिं । अग्नियोषिति स्वाहायाम् अग्निदेवता- कायामृचि च । आग्नेयव्रतं । यथा मनौ ९ । ३१० । “दुष्टसामन्तहिंस्रस्य तदाग्नेयव्रतं स्मृतम्” ।) अगस्त्यमुनिः । इति पाणिनिः ॥ अग्निसम्बन्धीये त्रि

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्नेय¦ त्रि॰ अग्नेरिदम् अग्निर्देवता वास्य ढक्। अग्निदेव-ताके

१ हविरादौ
“आग्नेयः षुरोडाशो भवति” शत॰ ब्रा॰

२ अग्निसम्बन्धिनि च

३ कृत्तिकानक्षत्रे न॰ तस्य अग्नि-देवताकत्वात्तथात्वम्
“आग्नेयाप्पतिदैवतेति” ज्योति॰। अग्निना प्रोक्तं पुराणं ढक्।
“आग्नेयं वेदसस्मितम्” इत्युक्ते अग्निप्रोक्ते महापुराणभेदे अग्निपुराणशब्देविवृतिः

४ प्रतिपदि तिथौ स्त्री तस्याः तद्देवताकत्वमुक्तंयथा
“अग्निः प्रजापतिः गौरी गणेशोऽहिर्गुहोरविः। शिवोदुर्गायमोविश्वोहरिः कामोहरः शशी। पितरःप्रतिपदादीनां तिथीनामघिपाः क्रमात्”।


५ स्वर्ण्णे तस्यतद्वीर्य्यजातखात् तथात्वम्। अग्निरेतः शब्दे विवृतिः। [Page0621-a+ 38]

६ कार्त्तिकेये पु॰ तस्य तद्वीजजातत्वात् तथात्वम्अग्निकुमारशब्दे विवृतिः।

७ रुधिरे न॰ जठरानल-जायमानत्वात् देहस्थपित्तरूपाग्नेर्विकारत्वात् वाऽस्य तथा-त्वम्। अग्नये हितम् ढक्। जठरानलादिवृद्धिकरेवैद्यकोक्ते

८ द्रव्यभेदे त्रि॰

९ बाह्याग्निबर्द्धकेजतुप्रभृतौ च

१० अग्निपर्व्वते

११ देशभेदे च पु॰ तस्यदेशस्याग्न्यधिष्ठितत्वात् तथात्वम् स च देशः। दक्षिणा-पथसन्निकृष्टकिष्किन्ध्यादेशसमीपस्थः माहेष्मतीपुरीयुक्तः तत्रहि{??}वह्निः नीलराजकन्यासौन्दर्य्येण मोहितःताञ्चकमेऽथवाञ्चोढ्वा तत्साहाय्यार्थं तत्रैव पुर्य्यां स्वयं स्थितः यथोक्तम्” भा॰स॰ प॰
“तत्र माहिष्मतीवासी भगवान् हव्यवाहनः। श्रूयतेहि गृहीतो वै पुरस्तात् पारदारिक। नीलस्य राज्ञोदुहिता बभूवातीव शोभना। साग्निहोत्रमुपातिष्ठद्बोध-नाय पितुः सदा। व्यजनैर्धूयमानोऽपि तावत् प्रज्व-लते न सः। यावच्चारुपुटौष्ठेन वायुना न विधूयते। ततः स भगवानग्निश्चकमे तां सुदर्शनाम्। नीलस्य राज्ञःसर्व्वेषामुपनीतश्च सोऽभवत्। ततो ब्राह्मणरूपेण रममाणोयदृच्छया। चकमे तां वरारोहां कन्यामुत्पललोचनाम्तन्तु राजा यथाशास्त्रमशिषद्धार्म्मिकस्तदा। प्रजज्वालततः कोपाद्भगवान् हव्यवाहनः। तं दृष्ट्वा विस्मितो राजाजगाम शिरसावनिम्। ततः कालेन तां कन्यां तथैव हितदा नृपः। प्रददौ विप्ररूपाय वह्नये शिरसा नतः। प्रतिमृह्य च तां सुभ्रूं नीलराज्ञः सुतां तदा। चक्रेप्रसादं भगवांस्तस्य राज्ञो विभावसुः। वरेण च्छन्दयामासतं नृपं स्विष्टिकृत्तमः। अभयञ्च स जग्राह स्वसैन्ये वैमहीपतिः। ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः। जिगीषन्ति बलाद्राजंस्ते दह्यन्ते स्म वह्निना। तस्यां पुर्य्यांतदा चैव माहिष्मत्यां कुरुद्वह!। वभूवुरनतिग्राह्या योषि-तश्छन्दतः किल। एवमग्निर्व्वरं प्रादात् स्त्रीणामप्रतिवा-रणे। स्वैरिण्यस्तत्र नार्य्यो हि यथेष्टं विचरन्त्युत। बर्ज्जयन्ति च राजानस्तत्पुरं भरतर्षभ। भयादग्नेर्म्म-हाराज! ततः प्रभृति सर्व्वदा। सहदेवस्तु धर्म्मात्मासैन्यं दृष्ट्वा भयार्द्दितम्। परीतमग्निना राजन्नाकम्पतयथाऽचलः। उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत् पावकंततः। सहदेय उवाच। त्वदर्थोऽयं समारम्भः कृष्ण-वर्त्मन्नमोऽस्तु ते। मुखं त्वमसि देवानां यज्ञस्त्वमसियावक!। पावनात् पावकश्चासि वहनाद्धव्यवाहनः। वेदा-स्त्वदर्थं जाता वै जातवेदास्ततो ह्यसि। चित्रभानुः सुरे-[Page0621-b+ 38] शश्च अनलस्त्वं विभावसो!। स्वर्गद्वारस्पृशश्चासि हुताशोज्वलनः शिखी। वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरिते-जसः। कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत्। अग्निर्द्ददातु मे तेजो वायुः प्राणं ददातु मे। पृथिवीबलमादध्याच्छिवञ्चापो दिशन्तु मे। अपां गर्भ! महासत्त्व!जातवेदः! सुरेश्वर!। देवानां मुखमग्ने! त्वं सत्येन विपु-नीहि माम्। ऋषिभिर्ब्राह्मणैश्चैव दैवतैरसुरैरपि। नित्यं सुहुतयज्ञेषु सत्येन विपुनीहि माम्। धूमकेतुःशिखी च त्वं पापहानिलसम्भवः। सर्वप्राणिषु नित्यस्थःसत्येन विपुनीहि माम्। एवं स्तुतोऽसि भगवन् प्रीतेनशुचिना मया। तुष्टिं पुष्टिं श्रुतिञ्चैव प्रीतिञ्चाग्ने। प्रयच्छमे। वैशम्पायन उवाच। इत्येवं मन्त्रमाग्नेयं पठन्यो जहुयाद्विभुम्। ऋद्धिमान् सततं दान्तः सर्वपापैःप्रमुच्यते। सहदेव उवाच। यज्ञविघ्नमिमं कर्त्तुं नार्हस्त्वंहव्यवाहन!। एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य्य मेदि-नीम्। विघिवत् पुरुषव्याघ्रः पावकं प्रत्युपाविशत्। प्रमुखे तस्य सैन्यस्य भियोद्विग्नस्य भारत। न चैनमत्य-गाद्बह्निर्वेलामिव महोदधिः। तमुपैत्य शनैर्वह्निरुवाच कुरु-नन्दनम्। सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः। उत्ति-ष्ठोत्तिष्ठ कौरव्य! जिज्ञासेयं मया कृता। वेद्मि सर्व-भभिप्रायं तव धर्म्मीसुतस्य च। मया तु रक्षितव्येयंपुरी भरतसत्तम। यावद्राज्ञो हि नीलस्य कुले वंशधराःनृपः”

१२ अग्न्युपासने मन्त्रे

१३ अग्निसम्बन्धिधारणाभेदेस्त्री
“आग्नेय्या धारणया देहं दग्ध्वेति भूतशुद्धिः।
“देहंधारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग॰

१४ दक्षिण-पूर्ब्बायां दिशि स्त्री। अग्नेर्भक्तः ढक्।

१५ अग्निभक्ते आग्नेयोवै ब्राह्मणो देवतया” श्रुतिः अग्नेरपत्यम् अग्नेरागतम्अग्नौ भवः अग्निनादृष्टं सामेति वा ढक्।

१६ अग्नेरपत्ये

१७ अग्नितआगते

१८ त्रि॰ अग्निना दृष्टे सामनिन॰
“मन्त्रं भौमं तथा तथाग्नेयं वायव्यं दिव्यमेव च। वारुणं मानसञ्चैव सप्त स्नानानि चक्षते” इति विभज्य
“आग्नेयं भस्मना स्नानमिति” पराशरोक्ते भस्ममर्द्दनपूर्वके

१९ स्नाने न॰।
“प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसुदुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतमिति” मनूक्ते

२० नृप-तिचरितभेदे न॰ अग्नौ अग्न्युद्दीपने साधु ढक्।

२१ अ-ग्न्युद्दीपनसाधने जतुघृतादौ त्रि॰
“जिघ्राणोऽस्य वसागन्धंसर्पिर्जतुविमिश्रितम्। कृतं हि व्यक्तमा{??}ग्नेयमिदं वेश्यपरन्तप!”
“अदीदं गृहमाग्नेयं विहितं मन्थते भवान्” [Page0622-a+ 38] इति च भा॰ आ॰ प॰

१४

४ अध्या॰।

२२ अग्न्युद्दीपनसाधने घृते

२३ अस्त्रविशेषे च न॰। तत आगतः ढक्। अग्निप्रकृतिके

२४ कीटभेदे ते च चतुर्विंशतिविधाःयथाहसुश्रुतः।
“कौण्डिल्यकः करभको वरटी पत्र-वृश्चिकः। विनाशिका ब्रह्मणिका विन्दलोभ्रमरस्तथा। बाह्यकी पिच्चिटः कुम्भो वर्च कीटोऽरिसेदकः। पद्मकीटो दुन्दुभिश्च मकरः शतपादकः। पञ्चालकःपाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी। क्लीतः कृमिसरारीचयश्चाप्युत्क्लेशकः स्मृतः। एते ह्यग्निप्रकृतयश्चतुर्विंशतिरेवच। तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः।
“अ-ग्नायी देवताऽस्य ढक् पुंवद्भावः।

२५ स्वाहादेवताकेस्थाली-पाके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्नेय¦ mfn. (-यः-या-यं) Belonging or relating to fire or its deity. n. (-यं)
1. The name of a city, (Devikotta, on the Coromandel Coast.)
2. Blood.
3. Ghee or boiled butter. m. (-यः) A mane of the saint AGASTI. f. (-यी)
1. The wife of AGNI.
2. The south-east quarter, of which AGNI is the regent. E. अग्नि fire or its deity, ढक् affix which leaves एय।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्नेय [āgnēya], a. (-यी f.) [अग्नेरिदं अग्निर्देवता वास्य ढक्]

Belonging to Agni; fiery. Vāj.24.6.

Offered or consecrated to Agni; अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा Y.3.287.

Similar to fire (as an insect).

Increasing the fire in the stomach; stimulating digestion.

Kindling the fire (as ghee &c.) शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । आग्नेयान्युत सन्तीह Mb.1.144.9.

Belonging to Āgnāyī.

यः An epithet of Skanda or Kārtikeya.

N. of Agastya.

N. of a country.

A worshipper of Agni.

An offering or oblation to Svāhā.

यी N. of the wife of Agni.

The south-east quarter (presided over by Agni).

The first day of a month (प्रतिपत्तिथि which is presided over by Agni).

A kind of योगधारण; Bhāg.11.31.6.

यम् The lunar mansion called Kṛittikā. Mb.13.14. 127.

Gold.

Blood.

Lac, the red animal dye.

Ghee.

A missile presided over by Agni.

AMantra used in the worship of Agni.

A descendant of Agni.

Bathing by applying sacred ashes to the body (भस्ममर्दनपूर्वकस्नानम्).

A kind of worm.-Comp. -कीटः a kind of insect which flies into the fire. -पुराणम् = अग्निपुराण q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आग्नेय mf( ई)n. ( Pa1n2. 4-2 , 8 Comm. )belonging or relating or consecrated to fire or its deity अग्निVS. xxiv , 6 AitBr.

आग्नेय mf( ई)n. [with कीटm. an insect which flies into the fire (applied to a thief who breaks into a room and extinguishes the lamp) Mr2icch. ]

आग्नेय mf( ई)n. belonging or consecrated to अग्नायी(wife of अग्नि) Pa1n2. 6-3 , 35 Comm.

आग्नेय mf( ई)n. south-eastern VarBr2S.

आग्नेय m. N. of स्कन्दMBh. iii , 14630

आग्नेय m. of अगस्त्य(See. आग्निमारुतabove ) L.

आग्नेय m. pl. N. of a people MBh. iii , 15256 ( v.l. आग्रेय)

आग्नेय m. (= अग्नायी)the wife of अग्निL.

आग्नेय m. the south-east quarter (of which अग्निis the regent) VarBr2S.

आग्नेय n. blood L.

आग्नेय n. ghee , or clarified butter L.

आग्नेय n. gold L.

आग्नेय n. the नक्षत्रकृत्तिकाVarBr2S. Su1ryas.

आग्नेय n. N. of a सामन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the १८थ् kalpa. M. २९०. 7. [page१-147+ २८]
(II)--a division of the night. वा. ६६. ४३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āgneya : nt.: Name of the constellation Kṛttikā.

One should not perform any rite for gods or pitṛs under the Āgneya constellation (daivaṁ pitryam athāpi ca/na…kāryaṁ tathāgneye ca bhārata) 13. 107. 119. [See Kṛttikā ]


_______________________________
*3rd word in left half of page p231_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āgneya : nt.: Name of the constellation Kṛttikā.

One should not perform any rite for gods or pitṛs under the Āgneya constellation (daivaṁ pitryam athāpi ca/na…kāryaṁ tathāgneye ca bhārata) 13. 107. 119. [See Kṛttikā ]


_______________________________
*3rd word in left half of page p231_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आग्नेय&oldid=490373" इत्यस्माद् प्रतिप्राप्तम्