आचरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरितम्, त्रि, (आङ् + चर् + क्तः) कृताचरणं । (“जलं वामकरे कृत्वा या सन्ध्याचरिता द्विजैः” । इति काशीखण्डे ।) व्यवहृतं ॥ (यदुक्तं । “दारपुत्त्रपशून् हत्वा कृत्वा द्वारोपवेशनं । यत्रार्थो दाप्यतेऽर्थं स्वं तदाचरितमुच्यते” ॥ एतत्तु पारिभाषिकं ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरित¦ न॰ आ + चर--भावे क्त।

१ आचारे
“वाग्देवताचरितचित्रितचित्त सद्मा” जयदेवः।

२ ऋणिकादृण ग्रहणोपायभेदे।
“धर्मेण व्यवहारेण छलेनाचरितेन च। प्रयुक्तं साधयेदर्थंपञ्चमेन बलेन च” मनुः।
“तत्र ऋणिको यदि निःस्वोव्यवहारेण दापयितव्यः अन्यत् कर्म्मोपकरणं धनं दत्त्वाकृषिबाणिज्यादिना व्यवहारयितव्यः तदुत्पन्नं धनंतस्मात् गृह्णीयादिति” मेधा॰। छसाचरितबलान्याहवृह॰।
“छद्मना याचितं चार्थमानीय ऋणिकाद्धनी। अन्याहृतादि व्याहृत्य दाप्यते तत्र सोपधिः। दारपुत्रप-शून् हृत्वा कृत्वा द्वारोपवेशनम्। यत्रार्थोदाप्यतेऽर्थं स्वंतदाचरितमुच्यते। बद्ध्वा स्वगृहमानीय ताडनार्थैरुपक्रमैः। ऋणिकोदाप्यते यत्र बलात्कार स उच्यते” कुल्लू॰ धृता। कर्मणि घञ्।

३ अनुष्ठिते त्रि॰।
“जलंवामकरे कृत्वा या सन्ध्याचरिता द्विजैः” काशो।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरित¦ mfn. (-तः-ता-तं)
1. Observed, practised, either as a rite or usage.
2. Usual, costomary.
3. Enjoined, fixed by rule. E. आङ् before चर to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरित [ācarita], p. p.

Done, observed, practised, as a rite or usage &c.

Usual, customary.

Enjoined, fixed by rule.

Inhabited, colonied; देशमुत्सादय- त्येनमगस्त्याचरितं शुभम् Rām.1.25.14.

तम् Conduct. behaviour. वाग्देवताचरितचित्रितचित्रसद्मा जयदेवः

One of the five means of recovering or paying back debt; धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ Ms.8.49; see also Bṛihaspati quoted by Kull.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचरित/ आ-चरित mfn. passed or wandered through , frequented by MBh. iii , 2651 R. BhP. etc.

आचरित/ आ-चरित mfn. observed , exercised , practised MBh. i , 7259 , etc.

आचरित/ आ-चरित mfn. (in Gr. )enjoined , fixed by rule RPra1t. Pa1n2. 1-4 , 51 Comm.

आचरित/ आ-चरित n. approaching , arrival Pa1rGr2.

आचरित/ आ-चरित n. conduct , behaviour BhP.

आचरित/ आ-चरित n. the usual way (of calling in debts) Mn. viii , 49.

"https://sa.wiktionary.org/w/index.php?title=आचरित&oldid=490426" इत्यस्माद् प्रतिप्राप्तम्