आजीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीवः, पुं, (आङ् + जीव + घञ् ।) जीविका । इत्यमरः ॥ (“बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे” ॥ इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीव पुं।

जीवनोपायः

समानार्थक:आजीव,जीविका,वार्ता,वृत्ति,वर्तन,जीवन

2।9।1।2।1

ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने॥

 : परचित्तानुवर्त्तनम्, कर्षणम्, तण्डुलादियाचितः, वाणिज्यम्, ऋणसम्बन्धिकालान्तरद्रव्येण_लोकजीविका

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीव¦ पु॰ आजीव्यतेऽनेन आ + जीव--करणे घञ्।

१ आजीवनोपाये द्रव्यादौ

२ उपाये च। अन्नाशनमुपक्रम्य
“तस्मिन् काले स्थापयेत्तत्पुरस्तात् वस्त्रं शस्त्रं पुस्तकंलेखनीञ्च। स्वर्ण्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवै-स्तस्य वृत्तिः प्रदिष्टा” मु॰ चि॰। नृणां जन्मलग्नावधिदशमभावे मेषादीनां क्षेत्रहोराद्रेक्काणनवांशद्वादशां-शत्रिं शाशरूपैः षड्भिर्वर्गैः क्रमेणाजीवोपायविशेषज्ञानंभवति यथोक्तं जातके
“अथ कल्याणवर्म्मोक्तांदशमेऽंशविभेदजाम्। वृत्तिचिन्तां लिखेत्कर्म्माजीवो-क्तामपि चिन्तयेत्।
“वाटिकाकृषिबणिग्रससेवादूत्यतोऽ-जगणतः स्वभे भवेत्। जोवनं वृषगणाच्चतुष्पदैः पक्षि-धान्यशकटादिसंग्रहैः। मौक्तिकादिजलजैर्लिपिलेख्यै-र्विद्रु मादिकबणिक्क्रियादिभिः। द्वन्द्वभागत अथो कु-लीरतोनीरजैर्विषभगाग्निशस्त्रजैः। वनाद्रिकाष्ठसन्नाहकुप्याकुप्यैश्च धान्यकैः। कृषिपाषाणबाणिज्यैर्वृत्तिःसिंहांशतः खभे। गान्धर्वशिल्पशकटैर्मणिहेमकर्म्मगन्धक्र-यैर्नभसि षट्कगणैश्चलेख्यैः। हेमाम्बुगोमहिषधान्यकृषि-क्रयैश्च मूलैर्धनैर्नृपतितोऽपि तुलोत्थवर्गे। स्त्रीसङ्गमाप्तधनचौ-र्य्यचिकित्सितैश्च निन्द्योद्यमैर्नृपतिसेवनतोऽलिवर्गे। भैषज्यरू-पगणितादिकयन्त्रबिद्याभूपालमन्त्रिगिरिदुर्गवशाद्धनुःस्थे। [Page0642-a+ 38] वराङ्गना वारिभवोत्थवित्ताः श्रेष्ठा रताश्चापि रसायने स्युः। क्रीडासु रामासु महापणेषु मृगास्यवर्गे दशमेऽतिवित्ताः। शस्त्राग्निभेदखननादिकवीर्य्यभारस्कन्धोपवृत्तिरपि बाहु-बलाद्घटोत्थे। खस्थे गणे झषभवे जवशस्त्रवाहयोनिप्रपायनधनानि नरस्य पण्यैः”। भावे घञ्।

३ आजीवार्थ-मालम्बने। आजीवति कर्त्तरि अच्।

४ आजीवनकारिणि” कर्म्माजीवः नृपाजीव इत्यादो तु आ + जीव--अण्। उप॰ स॰ इति भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीव¦ m. (-वः) Livelihood, subsistence. E. आङ् before जीव to live, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीवः [ājīvḥ] वनम् [vanam], वनम् 1 Livelihood, subsistence, maintenance, भवत्याजीवनं तस्मात् Pt.1.48; cf. words like रूपाजीव, अजाजीव, शस्त्राजीव, स्त्र्याजीव &c.; आजीवनार्थः Ms.1.79,11.63 means of livelihood; बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे Rām.2.56.14.

Profession, the means of maintaining oneself; विशुद्ध इदानीमाजीवः Ś.6. -वः A Jaina beggar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीव/ आ-जीव m. livelihood S3vetUp. Mn. xi , 63 MBh. etc.

आजीव/ आ-जीव m. = आजीविकSee. L.

"https://sa.wiktionary.org/w/index.php?title=आजीव&oldid=490491" इत्यस्माद् प्रतिप्राप्तम्