आज्ञान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञान¦ न॰ आ + ज्ञा--ल्युट्। आज्ञाकरणे मानसवृत्ति-भेदे। मानसवृत्तयश्च यथा।
“संज्ञानं विज्ञानंप्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिःसंकल्पः क्रतुरसुः कामोवशः इति सर्व्वाण्येवैतानिप्रज्ञानस्य नामधेयानि” ऐ॰ उ॰।
“तदन्तःकरणोपाधि-कस्योपलब्धुः प्रज्ञानरूपस्य ब्रह्मण उपलब्ध्यर्था अ-न्तःकरणवृत्तयो बाह्यान्तर्वर्त्तिविषयविषयास्ता इमा इत्यु-च्यन्ते। संज्ञानं संज्ञप्तिश्चेतनभावः। आज्ञानम् आज्ञ-प्तिरीश्वरभावः। विज्ञानं कलादिपरिज्ञानम्। प्रज्ञानंप्रज्ञप्तिः प्रज्ञता। मेधा ग्रन्थधारणे सामर्थ्यम्। दृष्टि-रिन्द्रियद्वारा सर्वविषयोपलब्धिः। धृतिर्धारणमवसन्नानांशरीरेन्द्रियाणां ययोत्तम्भनं भवति। धृत्या शरीरमुद्वह-न्तीति हि वदन्ति। मतिर्मननम्। मनीषा तत्र स्वा-तन्त्र्यम्। जूतिश्चेतसोरुजादिदुःखिभावः। स्मृतिःस्मरणम्। संकल्पः शुक्लकृष्णादिभावेन संकल्पनम्रूपादीनाम्। क्रतुरध्यवसायः। असुः प्राणनादिजीव-नक्रियानिमित्ता वृत्तिः। कामोऽसन्निहितविषयाकाङ्क्षा। वशः स्त्रीव्यतिकराद्यभिलाष इत्येवमाद्याः अन्तःकरण-वृत्तयः” शङ्करभाष्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञानम् [ājñānam], The act of observing, perceiving (आज्ञानं = आज्ञप्तिः ईश्वरभावः Śaṅkara.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आज्ञान/ आ-ज्ञान n. noticing , perceiving AitUp.

"https://sa.wiktionary.org/w/index.php?title=आज्ञान&oldid=490507" इत्यस्माद् प्रतिप्राप्तम्