आढ्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आढ्यः, त्रि, (आढौकते ढौकृ गतौ बाहुलकात् ढ्यः ।) धनवान् । इत्यमरः ॥ युक्तः । विशिष्टः । अन्वितः । यथा, धनाढ्यः गुणाढ्य इत्यादिः ॥ (यथा मनुः ८ । १६९ । “चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिड् नृपः” । यथा भगवद्गीतायां, -- “आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया” ॥)

"https://sa.wiktionary.org/w/index.php?title=आढ्यः&oldid=115305" इत्यस्माद् प्रतिप्राप्तम्