आततायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायी, [न्] त्रि, (आतत + अय + णिन् ।) बधोद्यतः । इत्यमरः ॥ “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥ आततायिनमायान्तं हन्यादेवाविचारयन् । नाततायिबधे दोषो हन्तुर्भवति कश्चन” ॥ इति भगवद्गीताटीकायां श्रीधरस्वामी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायिन् वि।

वधोद्यतः

समानार्थक:आततायिन्

3।1।44।2।3

विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः। कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायिन्¦ त्रि॰ आततेन विस्तीर्णेन शस्त्रादिना अयितुशीलमस्य अय--णिनि। बधोद्यते। विषयभेदेन आततायिबधे दोषादोषौ” प्रा॰ वि॰ उक्तौ यथा वृह॰
“नाततायिवधेहन्ता किल्विषं प्राप्नुयात् क्वचित्। विनाशार्थिनमायान्तं घात-यन्नापराध्न{??}त्”। किल्विषाभावःप्रायश्चित्तनिषेधार्थः अप-राधा{??}वोदण्डनिषेधार्थः। यतः
“सर्वत आत्मानं गोपा-यातेति” श्रुतिमूलमिदम् अतः पलायनादिनापि रक्षणाभावे इदं बोद्धव्यम्। कात्यायनः।
“आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महाभवेत्” जिघांसी सन् इयाद्गच्छेदित्यर्थः। देवलः।
“उद्यम्यशस्त्रमायान्तं भ्रूणमप्याततायिनम्। निहत्य भ्रूणहान स्यादहत्वा भ्रूणहा भवेत्”। भ्रूणोब्राह्मणविषेषः। दोष-दर्शनं नियमार्थम्। मनुविष्णू।
“गुरुं वा बालवृद्धौ वाब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवावि-चारयन्” एवकारोनियमार्थः। तथा
“नाततायिबधे दोषोहन्तुर्भवति कश्चन। प्रकाशं वाऽप्रकाशं वा मन्युस्तन्मन्युमृ-च्छति”। यस्माद्धन्तृमन्युर्हन्यमानमन्यु नाशयति न पुनःपुरुषोहन्ति हन्यते वेति हननविधेरपवादः। आततायिन-[Page0648-a+ 38] माह वशिष्ठः।
“अग्निदोगरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी च षडेते आततायिनः”। विष्णु-कात्यायनौ। उद्यतासिविषाग्निञ्च शापोद्यतकरन्तथा। आथर्व्वणेन हन्तारं पिशुनञ्चैव राजसु। भार्य्यातिक्रमि-णञ्चैव विद्यात्सप्ताततायिनः। यशोवित्तहरानन्याना-हुर्द्धर्म्मार्थहारकान्”। विशेषमाह कात्यायनः।
“अना-क्षारितपूर्ब्बोयस्त्वपराधे प्रवर्त्तते। प्राणद्रव्यापहारे च प्र-वृत्तस्याततायिता”। अनाक्षारितोऽनपकृतः। तेन पूर्ब्बकृ-तापकारस्य मारणोद्यतस्य नाततायिता। तेन प्रत्युपका-रकवधे दोषएव। ननु आततायिनोरपि गोब्राह्मणयोर्हन-ने दोषमाह सुमन्तुः।
“नाततायिबधे दोषोऽन्यत्र गोब्रा-ह्मणात् यदा हन्यात् प्रायश्चित्तं कुर्य्यात्”। तथा भविष्ये।
“घातकानपि गोविपान्न हन्याद्वै कदाचनेति”। अतःपू-र्ब्बवचनविरोधः। सत्यम्। अत्र व्यवस्थामाह कात्यायनः।
“आततायिनि चोत्कृष्टे तपःस्वाध्यायजन्मतः। बधस्तत्रतु नैव स्यात् पापे हीने बधोमतः”। जन्मपदेन जातिःकुलञ्चोच्यते। तेन हन्त्रपेक्षया तपोविद्याजातिकुलैरुत्कृष्टोनायतायी बध्यस्तदन्योबध्यएव। अतएव भगवद्गीतायामाह।
“पापमेवाश्रयेदस्मान् हत्वैतानाततायिन” इति। एतान् भीष्मादीन् अत्यन्तोत्कृष्टगुणानित्यर्थः। एवंभूता-ततायिनश्चाहनने फलमप्याह वृहस्पतिः।
“आतता-यिनमुत्कृष्टं वृत्तस्वाध्यायसंयुतम्। योन हन्याद्बधप्राप्तं-सोऽश्वमेधफलं लभेत्”। यद्यपि
“गुरुम्बहुश्रुतं हन्यादिति”। श्रूयते। तथापि गुरोः सकाशात् कुलविद्यातपोभिः शिष्य-स्याप्युत्कर्षसम्भवः। एवं बहुश्रुतादावपि। एवमधमवर्ण-स्योत्तमवर्ण्णो न बध्यः। पूर्ब्बकृतापकारविषयं वा सुमन्तुवच-नम्। गौरातताय्यपि न बध्यः।
“नखिनां शृङ्गिणाञ्चैवदंष्ट्रिणाञ्चाततायिनाम्। हस्त्यश्वानान्तथान्येषां बधे हन्ता नदोषभागिति” कात्यायनवचनं गोव्यतिरिक्तशृङ्गिविषयम्। विशेषमाह कात्यायनः। उद्यतानान्तु पापानां हन्तुर्दोषोन विद्यते। निवृत्तस्तु यदारम्भाद्ग्रहणं न बधःस्मृतः” इत्यन्तेन। तत्रत्यम्रूणशब्दार्थमाह देबलः
“अनूचानो गुणो-पेतो यज्ञस्वाध्याययन्त्रितः। भ्रूण इत्युच्यते शिष्टैः शेषभोजीजितेन्द्रियः”। मिताक्षरायामपि
“गुरुं वा बालवृद्धौ वाब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्या-देवाविचारयन्। नाततायिबधे दोषो हन्तुर्भवति कश्चन। प्रच्छन्नं वा प्रकाशं वा मन्युस्तन्मन्युमृच्छति”। तथा
“आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्त-[Page0648-b+ 38] ञ्जिघांसीयान्न तेन ब्रह्महा भवेत्” इत्याद्यर्थशास्त्रम्।
“इयं विशुद्धिरुदिता प्रमाप्याकामतोद्विजम्। कामतोब्राह्मणबधेनिष्कृतिर्न विधीयत” इत्यादि धर्म्मशास्त्रमनयो-र्विरोधे धर्मशास्त्रं बलवदिति युक्तम्। अनयोरेकविषयत्वा-सम्भवेन विरोधाभावान्न बलावलचिन्ता अवतरति। तथाहि
“शस्त्रंद्विजातिभिर्ग्राह्यन्धर्मोयत्रोपरुध्यते” इत्युपक्रम्य
“आत्मनश्च परित्राणेदक्षिणानाञ्च सङ्गरे। स्त्रीविप्राभ्युप-पत्तौ च धर्मेण घ्नन्न दुष्पती” त्यात्मरक्षणे दक्षिणादीनां यज्ञो-पकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायाञ्च आत-तायिनमकूटशस्त्रेण घ्नन् न दण्डभागित्युक्त्वा तस्यार्थवादार्थमिदमुच्यते।
“गुरुं वा बालवृद्धौ वेत्यादि”। गुर्वादी-नत्यन्ताबध्यानप्याततायिनोहन्यात् किमुतान्यानिति। वा-शब्दश्रवणादपि वेदान्तगमित्यत्राप्यपिशब्दस्य श्रवणान्न गुर्वा-दीनां बध्यत्वप्रतीतिः
“नाततायिबधे दोषोऽन्यत्र गोब्राह्मणब-धादिति” सुमन्तुवचनात्।
“आचार्य्यं च प्रवक्तारम् पितर-म्मातरं गुरुम्। न हिंस्याद्ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विन” इति मनुवचनाच्च। आचार्य्यादीनामाततायिनां हिंसा-प्रतिषेधेनेदं वचनमर्थबन्नान्यथा हिंसामात्रप्रतिषेधस्यसामान्यशास्त्रेणैव सिद्धत्वात्।
“नाततायिबधे दोषोहन्तु-र्भवति कश्चन” इत्यतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव। यतः
“अग्निदोगरदश्चैव शस्त्रपाणिर्द्धनापहः। क्षेत्रदारहरश्चैवषडेते आततायिनः” तथा
“उद्यतासिविषाग्निश्च शापो-द्यतकरस्तथा। आथर्वणेन हन्ता च पिशुनश्चापि राजनि। भार्य्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः। एवमाद्यान् वि-जानीयात्सर्बानेवाततायिन” इति--सामान्येनाततायिनो-दर्शिताः। अतश्च ब्राह्मणादय आततायिन आत्मादित्रा-णार्थं हिंसानभिसन्धिना निवार्यमाणाः प्रमादाद्यदि विप-द्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति”। ब्राह्मणा-द्यातताधिबधे दोष उक्तः। अतएव भीष्मादीनामा-ततायिनामपि हननेन
“अश्वमेधेन शुध्यन्ति महापातकिन-स्त्विमे” इति भारते युधिष्ठिरादीनां महातकित्वमुक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायिन्¦ mfn. (-यि-यिनी-यि) A felon, a thief, a murderer, incendiary, ravisher, &c. E. आतत extended, every where, ई to go, and णिनि affix.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायिन् [ātatāyin], a. or s. [आततेन विस्तीर्णेन शस्त्रादिना अयितुं शीलमस्य Tv.]

'One whose bow is stretched to take another's life', endeavouring to kill some one; a desperado; गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिन- मायान्तं हन्यादेवाविचारयन् ॥ Ms.8.35-51; Mb.3.36.1, Bg.1.36.

Anyone who commits a heinous crime; such as a thief, ravisher, murderer, incendiary, a felon &c.; अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः । क्षेत्रदारहरश्चै- तान् षड् विद्यादाततायिनः ॥ Śukra. ˚-ता -त्वम् murdering, stealing, destroying &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आततायिन् mfn. having one's bow drawn VS. xvi , 18

आततायिन् mfn. " one whose bow is drawn to take another's life " , endeavouring to kill some one , a murderer Mn. viii , 350 seq. MBh. etc. (in later texts also incendiaries , ravishers , thieves etc. are reckoned among आततायिनस्).

"https://sa.wiktionary.org/w/index.php?title=आततायिन्&oldid=215377" इत्यस्माद् प्रतिप्राप्तम्