आतपत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्रम्, क्ली, (आतप + त्रै + कः) छत्रं । इत्यमरः ॥ (यथा शाकुन्तले, -- “राज्यं स्वहस्तधृतदण्डमिवातपत्रं” । यथा रामायणे, -- “पाण्डरेणातपत्रेण ध्रियमाणेन मूर्द्धनि” ॥ “छत्रशब्देऽस्य गुणादयो ज्ञातव्याः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्र नपुं।

छत्रम्

समानार्थक:छत्र,आतपत्र

2।8।32।1।2

हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत्. भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका॥

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

 : नृपच्छत्रम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्र¦ न॰ आतपात् त्रायते त्रै--क। छत्रे। स्वार्थे कन्। आतपत्रकमप्यत्र।
“तमातपक्लान्तमनातपत्रम्”।
“एकात-पत्रं जगतः प्रभुत्वम्”।
“पद्मा पद्मातपपत्रेण भेजेसास्राज्यदीक्षितम्” इति च रघुः।
“राज्यं स्वह-स्तधृतदण्डमिवातपत्रम्” शकु॰।
“तस्यातपत्रं बिभरा-म्बभूवे” माघः।
“निजातपत्रस्य तलस्थले नलः” नैष॰आतपत्रोत्पत्तिर्यथा भार॰ आनु॰ प॰

९२ ,

९३ अ॰।
“यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ!। छत्रञ्चोपानहौचैव केनैतत् संप्रवर्त्तितम्। कथञ्चैतत् समुत्पन्नं किम-र्थञ्चैव दीयते। न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते। बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते। एतद्विस्तरतोब्रह्मन्! श्रोतुमिच्छामि तत्त्वतः। भीष्म उवाच। शृणुराजन्नवहितश्छत्रोपानहविस्तरम्। यथैतत् प्रथितं लोकेयथा चैतत् प्रवर्त्तितम्। यथा चाक्षय्यतां प्राप्तं पुण्य-ताञ्च यथा गतम्। सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप!। जमदग्नेश्च संवादं सूर्य्यस्य च महात्मनः। पुरा म भष-वान्साक्षाद्धनुषाऽक्रीडत प्रमो। । सन्धाय सन्धाय शरां-श्चिक्षेप किल भार्गवः। तान् सर्व्वान् रेणुका क्षिप्तांस्तस्ये-षून् दीप्ततेजसः। आनीय सा तदा तस्मै प्रादादसकृद-च्युत!। अथ तेन--स शब्देन ज्यायाश्चैव शरस्य च। प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्। ततोमध्याह्नमारूढे ज्येष्ठामूले दिबाकरे। स सायकान् द्विजोमुक्त्वा रेणुकामिदमब्रवीत्। गच्छानय विशालाक्षि! शरा-नेतान् धनुश्च्युतान्। यावदेतान् पुनः सुभ्रु! क्षिपा-मीति जनाधिप!। सा गच्छन्त्यन्तरा छायां वृक्षसाश्रित्यभाविनी। तस्थौ तस्य हि सन्तप्तं शिरः पादौ तथैव च। [Page0649-b+ 38] स्थित्वा सा तु मुहूर्त्तं वै भर्त्तुः शापभयाच्छुभा। यया-वानयितुं भूयः सायकानलिनेक्षणा। प्रत्याजगाम चशरांस्तानादाय यशस्विनी। सा वै खिन्ना सुचार्व्वङ्गीपद्भ्यां दुःखं नियच्छती। उपाजगाम भर्त्तारं भया-द्भर्त्तुः प्रवेपती। स तामृषिस्तदा क्रुलो वाक्यमाह शुभा-ननाम्। रेणके! किं चिरेण त्वमागतेति पुनः पुनः। रेणुकोवाच। शिरस्तावत् प्रदीप्तं मे पादौ चैव तपोधन!सूर्य्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता। एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत् कृतं मया। एतच्छ्रुत्वा ममविभो! मा क्रुधस्त्वं तपोधन!। जमदग्निरुवाच। अद्यैनंदीप्तकिरणं रेणुके! तव दुःखदम्। शरैर्निपातयिष्यासिसूर्य्यमस्त्राग्नितेजसा। भीष्म उवाच। स विस्फार्य्यधनुर्द्दिव्यं गृहीत्वा च शरान् बहून्। अतिष्ठत् सूर्य्यम-भितो यतो याति ततोमुखः”। इत्येवं क्रोधेन आत्मानं(सूर्य्यं) पातयितुमिच्छवे जमठग्नये विप्ररूपं धृत्वागत्य तंच परितोष्य तस्मै छत्रसुपानहौ च सूर्य्योददावित्युक्तंततोऽध्यायान्तरे यथा।
“एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः। अथ सूर्य्योऽद-दत्तस्मै च्छत्रोपानहमाशु वै। सूर्य्य उवाचे। महर्षे!शिरसस्त्राणं छत्रं मद्रश्मिवारणम्। प्रतिगृह्णीष्वपद्भ्याञ्च त्राणार्थं चर्म्मपादुके। अद्यप्रभृति चैवेह लोकंसम्प्रचरिष्यति। पुण्यकेषु च सर्व्वेषु परमक्षय्यमेव च। भीष्म उवाच। छत्रोपानहमेतत्तु सूर्य्येणैतत् प्रवर्त्ति-तम्। पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत!। तस्मात्प्रयच्छ विप्रेषु च्छत्रोपानहमुत्तमम्। धर्मस्तेषु महान्भावी न मेऽत्रास्ति विचारणा। छत्रं हि भरतश्रेष्ठ! यःप्रदद्याद्द्विजातये। शुभम् शतशलाकं वै स प्रेत्य मुख-मेधते”। एतल्लक्षणं छत्रशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्र¦ n. (-त्रं) A large umbrella of silk or leaves, used in the east as a parasol. E. आतप sun-shine, त्र what preserves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतपत्र/ आ-तप--त्र n. " heat-protector "( ifc. f( आ). Megh. Katha1s. ), a large umbrella (of silk or leaves) MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=आतपत्र&oldid=490567" इत्यस्माद् प्रतिप्राप्तम्