आतिवाहिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिवाहिक¦ त्रि॰ अतिवाहे इहलोकात् परलोकप्रापणेनियुक्तः ठक्। एतल्लोकात् परलोकप्रापणे ईश्वरनियुक्तेअर्चिराद्यभिमानिदेवगणे धूमाद्यभिमानिदेवगणे च।
“आतिवाहिकास्तल्लिङ्गात्” शा॰ सू॰। अतिवाहने नियु-क्ताश्च द्विविधाः दक्षिणमार्गे उत्तरमार्गे च तत्र कर्मिणांदक्षिणमार्गेण ज्ञानिनाञ्चोत्तरमार्गेण गमनात् तत्रनयनाय ईश्वरनियुक्ता धूमादयः अर्च्चिरादयश्च ते चछा॰ उ॰ दर्शिता यथा।
“अथ य इमे ग्राम इष्टापूर्त्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति धूमाद्रात्रिं रात्रेरपरपक्षनपरपक्षाद्यान्षड्द-क्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यःपितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमोराजा तद्देवानाभन्नं तं देवा भक्षयन्ति”।
“इष्टापूर्त्तेइष्टमग्निहोत्रादि वैदिकं कर्म्म, पूर्व्वं वापीकूप-तडागारामादिकरणम्। दत्तं च बहिर्वेदि, यथाशक्त्य-र्हेम्यो द्रव्यसम्भागो दत्तम्। इत्येवंविधं परिचरण-परित्राणाद्युपासते। इतिशब्दस्य प्रकारदर्शनार्थत्वात्। ते दर्शनवर्ज्जितत्वाद्धूमं धूमाभिमानिनीं देवतामाभिमुख्येनसम्भवन्ति प्रतिपद्यन्ते। तयाऽतिवाहिता धूमाद्रात्रिं रात्रि-देवतां, रात्रेरपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीम-परपक्षात् यान् षण्मासान् दक्षिणा दक्षिणां दिशमेतिसविता तान् मासान् दक्षिणायनान् षण्मासाभिमानि-नीर्देवताः प्रतिपद्यन्त इत्यर्थः। सङ्घचारिण्यो हि षण्मा-सदेवता इति मासानिति बहुवचनप्रयोगस्तासु। नैतेकर्म्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिर्नी देवताम-{??}प्राप्नुवन्ति। कुतः पुनः संवत्सरपाप्तिप्रसङ्गो यतः प्रति-षिध्यते। अस्ति हि संवत्सरस्य प्रसङ्गोह्येकस्यावयवभूतेदक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासे-भ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता। अत इहापि तदव-[Page0651-b+ 38] यवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनःसंवत्सरस्यापि पूर्व्ववत्प्राप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यतेनैते संवत्सरमभिप्राप्नुवन्तीति। मासेभ्यः पितृलोकं, पितृ-लोकादाकाशमाकाशाच्चन्द्रमसम्। कोऽसौ यस्तैः प्राप्यःचन्द्रमाः य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानांतदन्नं देवानां तं चन्द्रमसमन्नं देवता इन्द्रादयो भक्षयन्ति। अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्म्मिणो देवैर्भक्ष्यन्तेनन्बनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् नैष दोषः। अन्नमित्युपकरणमात्रस्य विविक्षतत्वात्। न हि ते कवलो-त्क्षेपेण देवैर्भक्ष्यन्ते। किं तर्ह्युपकरणमात्रं देवानांभवन्ति ते स्त्रीपशुभृत्यादिवत्। दृष्टश्चान्नशब्द उप-करणेषु स्त्रियोऽन्नं पशवोऽन्नं राज्ञामित्यादि। न चतेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति। त मात्कर्मिणो देवतानामुपभोग्या अपि सन्तः सुस्विनो देवैःक्रीडन्ते। शरीरञ्च तेषां तेषूपभोगयोग्यं चन्द्रम-ण्डले आप्यमारभ्यते। तदुक्तं
“पुरस्ताच्छ्रद्धा शब्दा आपोद्युलोकाग्नौ हुताः सोमो राजा सम्भवन्तीति”। ता आपःकर्म्म समवायिन्य इतरैश्च भूतैरनुगताः द्युलोकं प्राप्य चन्द्र-त्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति। इति” भा॰ पितृयानःपन्था दर्शितः देवयानस्तु।
“अथ यदु चैवास्मिञ्छव्यं कुर्व्वन्ति यदि च नार्च्चिषमेवाभि-सम्भवन्त्यर्च्चिषोऽहरह्न आपूर्य्यमाणपक्षमापूर्य्यमाणपक्षा-दुयान् षडुदङ्ङेति मासांस्तान्मासेभ्यः संवसत्सरं, संवत्सरा-दादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवःस एतान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्य-माना इमं मानवमावर्त्तं नावर्त्तन्ते नावर्त्तन्ते”
“अथेदानींयथोक्तब्रह्मविदो गतिरुच्यते यद्यदि उ च एवास्मान्नेवं-विदि शव्यं शवकर्म्म मृते कुर्व्वन्ति यदि च न कुर्व्वन्तिऋत्विजः, सर्व्वथाप्येवंवित्तेन शवकर्म्मणा अकृतेनापि नप्रतिबद्धो ब्रह्म प्राप्नोति न च कृतेन शवकर्म्मणाऽस्य कश्च-नाभ्यधिको लोकः
“न कर्म्मणा वर्द्धते नो कनीयानिति” श्रुत्यन्तरात्। शवकर्म्मण्यनादरं दर्शयन् विद्यां स्तौति, नपुनः शवकर्म्म एवंविदो न कर्त्तव्यमिति। अक्रियमाणे हिशवकर्म्मणि कर्म्मणां फलारम्भे प्रतिबन्धः कश्चिदनुमीयतेअन्यत्र। यत इह विद्याफलारम्भकाले शवकर्म्म स्याद्वान वेति विद्यावतोऽप्रतिबन्धेन फलारम्भं दर्शयति। येसुखाकाशमक्षिस्थं संयद्वामनीत्वेनोपासते प्राण-सहितामग्निविद्यां, तेषामन्यत्कर्म्म भवतु मा वा भूत्[Page0652-a+ 38] सर्ब्बथापि तेऽर्च्चिषमेवाभिसम्भवन्त्यर्च्चिरभिमानिनीं देवता-मभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः। अर्च्चिषोऽर्च्चिर्देव-ताया अहरहरभिमानिनीं देवतामह्न आपूर्य्यमाणपक्षंशुक्लपक्षदेवतामापूर्य्यमाणपक्षान् षण्मासानुदङ्ङुत्तरांदिशमेति सविता तान्मासानुत्तरायणदेवतां, तेभ्यो मासेभ्यःसंवत्सरं संवत्सरदेवतां ततः संवत्सरादादित्यमादित्याच्चन्द्र-मसं चन्द्रमसो विद्युतं तत्तत्स्थांस्तान् पुरुषः कश्चिद्ब्रह्म-लोकादेत्यअमानवो मानव्यां सृष्टौ भवो मानवो न मानवोऽ-ऽमानवः स पुरुष एतान् ब्रह्म सत्यलोकस्थं गमयति ग-न्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः। सन्मात्र ब्रह्मप्राप्तौ तद-नुपपत्तेः।
“ब्रह्मैव सन् ब्रह्माऽप्येतीति हि वक्तुं न्याय्यम्। सर्व्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति। न चादिष्टोमार्गो गमनायोप्रतिष्ठते।
“स एनमविदितो न भुनक्तीति” श्रुत्यन्तरात्। एष देवपथो देवैरर्चिरादिभिर्गमयितृत्वेना-धिकृतैरुपलक्षितः पन्था देवपथ उच्यते। ब्रह्म गन्तव्यं तेनचोपलक्षित इति ब्रह्मपथः। एतेन प्रतिपद्यमाना गच्छन्तोब्रह्म इमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमा-वर्त्तं नावर्त्तन्ते। आवर्त्तन्तेऽस्मिन् जननमरणप्रबन्धचक्रा-रूढा घटीयन्त्रवत् पुनः पुनरित्यावर्त्तस्तं न प्रतिपद्यन्ते। नावर्त्तन्त इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्ति-दर्शनार्थां” भा॰। यथा चैषामातिवाहिकत्वं तथा निरूपितम् शा॰सू॰ भा॰।
“आतिवाहिकास्तल्लिङ्गात्” सू॰।
“तेष्वेवार्चिरादिषु संशयः किमेतानि मार्गचिह्नान्युतभोगभूमयोऽथ वा नेतारोगन्तृणामिति। तत्र मार्गलक्षण-भूता अर्चिरादय इति तावत् प्राप्तं तत्स्वरूपत्वा-दुपदेशस्य। यथा हि कश्चिल्लोको ग्रामं नगरंवा प्रतिष्ठासमानोऽनुशिष्यते गच्छेस्त्वममुं गिरिं ततो-न्यग्रोधं ततोनदीं ततोग्राभं ततोनगरं वा प्राप्स्य-सीति। एवमिहाप्यर्चिरर्चिषोऽहरह्न अपूर्य्यमाणपक्ष-मित्याह। अथ वा भोगभूमयएता इति प्राप्तम्। तथाहि लोकशब्देनाग्न्यादीनुपबध्नाति अग्निलोकमागच्छती-त्यादि। लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यतेसनुष्यलोकः पितृलोको देवलोक इति च। तथा चब्राह्मणम्
“अहोरात्रेषु लोकेषु सृज्यन्त” इत्यादि। तस्मा-न्नातिवाहिका अर्चिरादयः। अचेतनत्वादपि तेषामा-तिवाहिकत्वानुपपत्तिः। चेतना हि लोके राजनियुक्तापुरुषाः दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते[Page0652-b+ 38] ब्रूमः। आतिवाहिका एवैते भवितुमर्हन्ति। कुतः त-ल्लिङ्गात्। तथा हिचन्द्रमसोविद्युतं तत्पुरुषोऽमानवःस एतान् ब्रह्म गमयती{??} सिद्धवद्गमयितृत्वं दर्शयति। या-वद्वचनं वाचनिकमितिन्यायात्। तद्वचनं तद्विषये एवोपक्षो-णमि तिचेन्न प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य। यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो-युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति। ननु-लिङ्गमात्रभगमकं न्यायाभावात्। नैष दोषः। उभयव्या-मोहात्तत्सिद्धेः। एतावदर्चिरादिमार्गगास्ते देहवियो-गात्सं पिण्डितकरणग्रामाइत्यस्वतन्त्राः। अर्च्चिरादीनाम-प्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देवताविशोषा अतियात्रायां नियुक्ता इति गम्यते। लोके-ऽपि हि मत्तमूर्च्छि तादयः संपिण्डिकरणग्रामाः परप्रयु-क्तवर्त्मानो भवन्ति। अनवस्थितत्वादप्यर्चिरादीनां न मार्ग-लक्षणत्वोपपत्तिः। न हि रात्रौ प्रेतस्याहःस्वरूपाभिस-म्भव उपपद्यते। न च प्रतिपालनमस्तीत्युक्तमधस्तात्। ध्रुवत्वाद्देवतात्मनां नायं दोषो भवति। अर्चिरादिशब्दता-चैषामर्चिराद्यभिमानादुपपद्यते। अर्चिषोऽहरित्यादिनिर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते। अर्चिषा हेतुनाह-रभिसम्भवन्ति अह्ना हेतुनापूर्य्यमाणं पक्षमिति। तथा चलोके प्रसिद्धेष्वप्यातियात्रिकेष्वेवंजातीयक उपदेशोदृश्य-ते गच्छ त्वमितोबलवर्माणं ततोजयसिंहं ततः कृष्णगुप्त-मिति। अपिचोपक्रमे तेऽर्चिषमभिसन्धवन्तीति सम्बन्धमा-त्रमुक्तं न सम्बन्धविशेषः कश्चित्। उपसंहारे तु
“स एतान्ब्रह्म गमयतीति” सम्बन्धविशेषोऽतिवाह्यातिवाहकत्वलक्षणउक्तः तेन सएवोपक्रमेऽपीति निर्द्धार्य्यते। संपिण्डित-करणग्रामत्वादेव च गन्थृणां न तत्र भोगसम्भवः। लो-कशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते अ-न्येषां तल्लोकवासिनां भोगभूमित्वात्। अतोऽग्निस्वा-मिकं लोकं प्राप्तोऽग्निनाऽतिवाह्यते वायुस्वामिकलोकं प्राप्तोवायुनेति योजयितव्यम्। कथं पुनरातिवाहिकत्वपक्षेवरुणादिषु तत्सम्भवः विद्युतोह्यधिवरुणादय उपक्षिप्ताः। विद्युतश्चानन्तरमा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयि-तृत्वं श्रुतमित्यतौत्तरं पठति।
“वैद्युतेनैव तच्छ्रुतेः”। ततो विद्युदभिसम्भवादूर्द्धं विद्युदनन्तरवर्त्तिनैवामानयेनपुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तो-त्यवगन्तव्यम्। तान् वैद्युतान् पुरुषोऽमानवः स एतान्ब्रह्मलोकं गमयतीति तस्यैव गमयितृत्वश्रुतेः। वरुणादयस्तु[Page0653-a+ 38] तस्यैवाप्रतिबन्धकरणेन साहचर्य्यानुष्ठानेन वा केनचि-दनुग्राहकाइत्यवगन्तव्यम्। तस्मात्सूक्तमातिवाहिकादेवतात्मानोऽर्चिरादय इति” शाङ्करभाष्यम्। अतिवाहे अतिवाहकाले इतोलोकान्तरगतिकाले भवःठञ्। मनुष्याणां गृत्युकालभवे

२ देहभेदे पु॰ शरीरविशेष-णत्वे न॰।
“तत्क्षणादेव गृह्णाति शरोरमातिवाहिकम्। ऊर्द्ध्वं व्रजन्ति भूतानि ग्रीण्यस्मात्तस्य विग्रहात्”। विष्णुघ॰। त्रीणि भूतानि तोजीवाय्वाकाशानि उर्द्धंगच्छन्ति गुरुत्वाभावात् पृथिवीजले तु गुरुत्वादधोगच्छतइत्यभिप्रायः तत्क्षणात् मृत्युक्षणं प्राप्येत्यर्थः
“आति-वाहिकसंज्ञोऽसौ देहो भवति भार्गव! केवलं तन्मनुष्याणांनान्येषां प्राणिनां क्वचित्”। इति च तत्रैवोक्तम्। पञ्च-भूतानामुर्द्ध्वाधोगतिश्च स्थूलभूतविषया सूक्ष्माणान्तु लिङ्ग-शरीराश्रयतया सर्वजीवानां देहान्तरप्राप्तौ तद्देहारम्भसा-धनतयासहैव गमनम् यथाह
“तदन्तरप्रतिपत्तौ रंहति संपरि-ष्वक्तः प्रश्ननिरूपणाभ्याम्” शा॰ सू॰ व्याख्यातभिदं शङ्करा-चार्य्येण
“जोवोमुख्यप्राणसचिवः सेन्द्रियः समनस्कोविद्या-कर्म्मपूर्ब्बप्रज्ञापरिग्रहः पूर्ब्बदेहं विहाय देहान्तरं प्रति-पद्यत इत्ये तदवगतं अथैनमेते प्राणा अभिसमायन्तीत्येवमा-देरन्यन्नवतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छ-व्दात् धर्म्माधर्म्म फलोपभोगसंभवाच्च। स किं देहवीजै-र्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित् संपरिष्वक्तइति चिन्त्यते किं तावत् प्राप्तं असंपरिष्वक्त इति। कुतः करणोपादानवत् भूतोपादानस्याश्रुतत्वात्।
“स एता-स्तेजोमात्राः समभ्याददानः” इत्यत्र तेजोमात्राशब्देन कर-णानामुपादानं संकीर्त्तयति वाक्यशेषे चक्षरादिसंकीर्त्तनात्। नैवं भूतमात्रीपादानसंकीर्त्तनमस्ति सुलभाश्च सर्व्वत्र भूत-मात्रा यत्रैव देह आरव्धव्यस्तत्रैव सन्तीति ततश्च तासांनयनं निष्पयोजनम्। त स्मादसंपरिष्वक्तोयातीत्येवं प्राप्तेपठत्याचार्थ्यः
“तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त” इति। तदन्तरप्रतिपत्तौ देहात् देहान्तरप्रतिपत्तौ देहवीजैर्भू-तसूक्ष्मैः संपरिष्वक्तो गच्छतीत्यवगन्तव्यं कुतः प्रश्ननिरूप-णाभ्याम्। तथा हि प्रश्नः
“वेत्थ यथा पञ्चम्यामाहुतावापःपुरुष वचसो भवन्तीति”। निरूपणञ्च प्रतिवचनं द्युपर्ज्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतो-रूपाः पञ्चाहुतीर्दर्शयित्वा
“इति तु पञ्चम्यामाहुता-वापः पुरुषवचसो भवन्तीति”। तस्मादद्भिः परिवेष्टितोजीवोरं हतीति गम्यते। नन्वन्या श्रुतिर्जलौकावत् पूर्ब्बं देहं[Page0653-b+ 38] न मुञ्चति यावद्देहान्तरं न क्रामतीति दर्शयति तद्यथातृणजलायुकेति तत्राप्परिवेष्टितस्यैव जीवस्य कर्म्मोप-स्थापितप्रतिपत्तव्यदेहविषयभावाय दीघींभावमात्रं जलौ-कयोपमीयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां क-रणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्म्मवशाद्व्रत्तिलाभस्तत्रतत्र भवति केवलस्यैव वात्मनोवृत्तिलाभस्तत्र तत्र भवति। इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थानउत्पद्यन्ते, मनएव वा केवलं भोगस्थानमभिप्रतिष्ठते जीव-एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुकैव वृक्षाद्वृ-क्षान्तरमित्येवमाद्याः, ताः सर्व्वाएवानादर्त्तव्याः श्रुतिविरोधात्। ननूदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभि-रद्भिः संपरिष्वक्तो रंहति इति प्राप्नोति अप्शब्दश्रवण-सामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्व्वैरेव भूत-सूक्ष्मैः संपरिष्वक्तो रंहतीत्यतौत्तरं पठति।
“त्र्यात्मक-त्वात्तुभूयस्त्वात्” सू॰।
“तुशब्देनचोदितामाशङ्कामुच्छिनत्तित्र्यात्मिका ह्यापः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युप-गतास्वितरदपि भूतद्वयमवश्याभ्युपगन्तव्यं भवति त्र्यान्मकश्च-देहः त्रयाणामपि तेजोबन्नानां तस्मिन् कार्य्योपलब्धेः पुनश्चत्र्यात्मकः त्रिधातुकत्वात् त्रिभिर्वातपित्तश्लेष्मभिर्व्याप्तत्वात्न स भूतान्तराणि प्रत्याख्याय केबलाभिरद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयम्
“आपः पुरुषवचसैति” प्रश्नप्रतिव-चनयोरप्शब्दो न कैबल्यापेक्षः सर्व्वदेहेषु हि रसलोहि-तादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवोधातुर्भूयिष्ठोदेहे-षूपलक्ष्यते नैष दोषः इतरापेक्षयापां बाहुल्यं भविष्यतिदृश्यते च शुक्रशोणितलक्षणे पि देहवीजे द्रवबाहुल्यम्। कर्म्म च निमित्तं कारणं देहान्तरारम्भे कर्म्माणि चाग्नि-होत्रादीनि सोमाज्यपयः प्रभृतिद्रवद्रव्यव्यपाश्रयाणि क-र्म्मसमवायिन्यश्चापः श्रद्धाशब्दोदिताः सह कर्म्मिभिर्द्यु-लोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः। बाहुल्याच्चाप्शब्देन सर्व्वेषामेव देहवीजानांभूतसूक्ष्माणामुपादानमिति निरवद्यम्।
“प्राणगतेश्च” सू॰
“प्राणानाञ्च देहान्तरप्रतिपत्तौ गतिः श्राव्यते
“तमुत्क्रामन्तंप्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्व्वे प्राणाअनूत्क्रा-मन्तीत्यादि” श्रुतिभिः। सा च प्राणानां गतिर्नाश्रयमन्त-रेण सम्भवतीत्यतः प्राणगतिप्रयुक्तानां तदाश्रयभूताना-मपामपि भूतान्तरोपसृष्टानां गतिरवगम्यते। न हि निरा-श्रयाः प्राणाःक्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतोऽदर्शनात्” [Page0654-a+ 38] भा॰। मनुरपि
“यदाणुमात्रिकोभूत्वा वीजं स्थास्नु चरिष्णुच। समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति” सूक्ष्मभूतैःसं-सृष्टस्यैव गतिमाह। अत्र अणुपदं पुर्य्यष्टकोपलक्षणम्।
“भूतेन्द्रियमनोबुद्धिवासनाकार्यवायवः। अविद्या चाष्टकंप्रोक्तं पुर्य्यष्टकमिदं पुनः” सनन्दोक्तेः
“पुर्य्यष्टकेन लिङ्गेनप्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धोमोक्षीमुक्तस्यतेन वै” ब्रह्मपु॰ उक्तेश्च मंसृतिकाले पुर्य्यष्टकस्यपरलोकगामित्वसिद्धेः। आतिवाहिकशरीरसत्त्वेऽन्यथानुप-पत्तिरेव प्रमाणम् तत्स्वरूपञ्चोक्तं सांख्यसूत्रभाष्यादौ।
“तद्वीजात् संसृतिः” सू॰। तस्य शरीरस्य वीजात् त्रयोविं-शतितत्त्वरूपात् सूक्ष्माद्धेतोः पुरुषस्य संसृतिर्गतागतेभवतः कूटस्थस्य विभुतया स्वतो गत्याद्यसम्भवादित्यर्थःत्रयोविंशतितत्त्वेऽवस्थितो हि पुरुषस्तेनैवोपाधिना पूर्ब्ब-कृतकर्मभोगार्थं देहाद्देहं संसरति।
“मानसं मनसैवाय-मुपभुङ्क्ते शुभाशुभम्। वाचा वाचा कृतं कर्म कायेनैव तुकायिकम्” इत्यादिस्मृतिभिः पूर्वसर्गीयकरणैरेवोत्सगेतःसर्गान्तरेषूपभोगसिद्धेः। अतएव ब्रह्मसूत्रम्
“तदन्तरप्रति-पत्तौ रं हति सम्परिष्वक्त इति”। संसृतेरवधिमप्याह।
“आविवेकाच्च प्रवर्त्तनमविशेषाणाम्” सू॰।
“ईश्वरानीश्वर-त्वादिविशेषरहितानां सर्वेषामेव पुंसां विवेकपर्य्यन्तमेव प्रव-र्त्तनं संसृतिरावश्यकी विवेकोत्तरं च न सा तत्र हेतुमाह।
“उपभोगादितरस्य” सू॰। इतरस्याविवेकिन एवस्वीयकर्मफलभोगावश्यम्भावादित्यर्थः। देहसत्त्वेऽपि संसृ-तिकाले भोगो नास्तीत्याह।
“सम्प्रति परिमुक्तो द्वा-भ्याम्” सू। सम्प्रति संसृतिकाले पुरुषो द्वाभ्यां शीतोष्णसु-खदुःखादिद्वन्द्वैः परिमुक्तो भवतीत्यर्थः। तदेतत्कारि-कयोक्तम्।
“संसरति निरुपभोगं भावैरधिवासितं लि-ङ्गम्”। इति। भावा धर्माधर्मवासनादयः। अतःपरं शरीरद्वयं विशिष्य वक्तुमुपक्रमते।
“मातापितृजंस्थूलं प्रायश इतरन्न तथा” सू॰। स्थूलं मातापितृजंप्रायशो बाहुल्येनायोनिजस्यापि स्थूलशरीरस्य स्मरणा-दितरच्च सूक्ष्मशरीरं न तथा न मातापितृजं सर्गादावुत्पन्न-त्वादित्यर्थः। तदुक्तं कारिकया।
“पूर्व्वोत्पन्नमसक्तंनियतं महदादि सूक्ष्मपर्यन्तम्। संसरति निरुपभोगं भावै-रधिवासितं लिङ्गम्” इति नियतं नित्यं द्विपरार्धस्थायिगौणनित्यं प्रतिशरीरं लिङ्गोत्पत्तिकल्पने गौरवात्। प्रलये तु तन्नाशः श्रुतिस्मृतिप्रामाण्यादिष्यते। गतिकालेभोगाभाववचनमुत्सर्गाभिप्रायेण। कदाचित् तु वायवीय-[Page0654-b+ 38] शरीरप्रवेशतो गमनकालेऽपि भोगो भवति। अतो यम-मार्गे दुःखभोगवाक्यान्युपपद्यन्ते। स्थूलसूक्ष्मशरी-रयोर्मध्ये किमुपाधिकः पुरुषस्य द्वन्द्वयोगस्तदवधारयति।
“पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य” सू॰। पूर्वंसर्गादावुत्पत्तिर्यस्य लिङ्गशरीरस्यतस्यैव तत्कार्यत्वं सुख-दुःखकार्यकत्वं कुत एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात्न त्वितरस्य स्थूलशरोरस्य मृतशरीरे सुखदुःखाद्यभावस्यसर्वसम्मतत्वादित्यर्थः। उक्तस्य सूक्ष्मशरीरस्य स्वरूप-माह।
“सप्तदशैकं लिङ्गम्” सू॰। सूक्ष्मशरीरमप्यधाराधेय-भावेन द्विविधं भवति तत्र सप्तदश मिलित्वा लिङ्गशरीरंतच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः। एकादशेन्द्रि-याणि पञ्च तन्मात्राणि बुद्धिश्चेति सप्तदश। अहङ्कारस्य बु-द्धावेवान्तर्भावः। चतुर्थसूत्रे वक्ष्यमाणप्रमाणादेतान्येव सप्त-दशलिङ्गं मन्तव्यं न तु सप्तदश एकं चेत्यष्टादशपरतयाव्याख्येयम्। उत्तरसूत्रेण व्यक्तिभेदस्योपपाद्यतयात्र लिङ्गै-कत्वे एकशब्दस्यतात्पर्याबधारणाच्च।
“कर्मात्मा पुरुषोयोऽसौ बन्धमोक्षैः प्रयुज्यते। स सप्तदशकेनापि राशिनायुज्यते च सः” इति मोक्षधर्मादौ लिङ्गशरीरस्य सप्तदश-त्वसिद्धेश्च सप्तदशावयवा अत्र सन्तीति सप्तदशको राशिरि-त्यर्थः। राशिशब्देनस्थूलदेहवल्लिङ्गदेहस्यावयवित्वं निरा-कृतम्। अवयविरूपेण द्रव्यान्तरकल्पनायां गौरवात्। स्थूलदेहस्य चावयवित्वमेकतादिप्रत्यक्षानुरोधेन कल्प्यतइति। अत्र च लिङ्गदेहे बुद्धिरेव प्रधानेत्याशयेन लिङ्ग-देहस्य भोगः प्रागुक्तः। प्राणश्चान्तःकरणस्यैव वृत्तिभेदः। अतो लिङ्गदेहे प्राणपञ्चकस्याप्यन्तर्भाव इत्यस्य सप्तदशा-वयवकस्य शरीरत्वं स्वयं वक्ष्यति
“लिङ्गशरीरनिमित्तक इतिसनन्दनाचार्य” इति सूत्रेण। अतो भोगायतनत्वमेव मुख्यंशरीरलक्षणम्। तदाश्रयतया त्वन्यत्र शरीरत्वमिति पश्चा-द्व्यक्तीभविष्यति।
“चेष्टेन्द्रियार्थाश्रयः शरीरमिति” तुन्यायेऽपि तस्यैव लक्षणं कृतमिति। ननु लिङ्गंचेदेकं तर्हिकथं पुरुषभेदेन विलक्षणा भोगाः स्युस्तत्राह।
“व्यक्ति-भेदः कर्मविशेषात्” सू॰ यद्यपि सर्गादौ हिरण्यगर्भो-पाधिरूपमेकमेव लिङ्गं तथापि तस्य पश्चाद्व्यक्तिभेदोव्यक्तिरूपेणांशतो नानात्वमपि भवति। यथेदानीमेकस्यपितृलिङ्गदेहस्य नानात्वमंशतो भवति पुत्रकन्यादिलिङ्गदे-हरूपेण। तत्र कारणमाह कर्मविशेषादिति। जीवान्त-राणां भोगहेतुकर्मादेरित्यर्थः। अत्र विशेषवचनात् सम-ष्टिसृष्टिर्जीवानां साधारणैः कर्मभिर्भवतीत्यायातम्। अयं[Page0655-a+ 38] च व्यक्तिभेदो मन्वादिष्वप्युक्तः। यथा मनौ समष्टिपु-रुषस्य षडिन्द्रियोत्पत्त्यनन्तरम्।
“तेषां त्ववयवान् सू-क्ष्मान् षण्णामप्यमितौजसाम्। सन्निवेश्यात्ममात्रासु सर्व-भूतानि निर्ममे” इति षण्णामिति समस्तलिङ्गशरीरो-पलक्षणम्। आत्ममात्रासु चिदंशेषु संयोज्येत्यर्थः। तथाच तत्रैव वाक्यान्तरम्।
“तच्छरीरसमुत्पन्नैः कार्यैस्तैः क-रणैः सह। क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः”। इति नन्वेवं भोगायतनतया लिङ्गस्यैव शरीरत्वे स्थूलेकथं शरीरत्वव्यवहारस्तत्राह।
“तदधिष्ठानाश्रये देहे तद्वा-दात् तद्वादः” सू॰। तस्य लिङ्गस्य यदधिष्ठानमाश्रयो व-क्ष्यमाणभूतपञ्चकं तस्याश्रये षाट्कौशिके देहे तद्वादो देह-वादस्तद्वादात् तस्याधिष्ठानशब्दोक्तस्य देहस्य वादादित्यर्थःलिङ्गसम्बन्ध्वादधिष्ठानस्य देहत्वमधिष्ठानाश्रयत्वाच्च स्थूलस्यदेहत्वमिति पर्यवसितोऽर्थः। अधिष्ठानशरीरं च सूक्ष्मपञ्चभूतात्मकं वक्ष्यते तथा च शरीरत्रयं सिद्धम्। यत्तु
“आतिवाहिक एकीऽस्ति देहोऽन्यस्त्वाधिभौतिकः। सर्वासां भूतजातानां ब्रह्मणस्त्वेक एव किम्” इत्यादिशा-स्त्रेषु शरीरद्वयमेव श्रूयते तल्लिङ्गशरीराधिष्ठानशरीर-योरन्योऽन्यनियतत्वेन सूक्ष्मत्वेन चैकताभिप्रायादिति। ननु षाट्कौशिकातिरिक्ते लिङ्गशरीराधिष्ठानभूते शरीरा-न्तरे किं प्रमाणमित्याकाङ्क्षायामाह।
“न स्वातन्त्र्यात् तदृतेछायावच्चित्रवच्च” सू॰।
“तल्लिङ्गशरीरं तदृतेऽधिष्ठानं विनास्वातन्त्र्यान्न तिष्ठति। यथा छाया निराधारा न तिष्ठतियथा वा चित्रमित्यर्थः तथा च स्थूलदेहं त्यक्त्रा लोका-न्तरगमने लिङ्गदेहस्याधारभूतं शरीरान्तरं सिध्य-तीति भावः। तस्य च स्वरूपं कारिकायामुक्तम्।
“सूक्ष्मा{??}तापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः। सूक्ष्मा-स्तेषां नियता मातापितृजा निर्वन्तते” इति। अत्रतन्मात्रकार्यं मातापितृजशरोरापेक्षया सूक्ष्मं यद्भ तप-ञ्चकं यावल्लिङ्गस्थायि प्रोक्तं तदेव लिङ्गाधिष्ठानं शरीर-मिति लब्धं कारिकान्तरेण।
“चित्रं यथाश्रयमृते स्था-ण्वादिभ्यो विना यथा छाया। तद्वद्विना विशेषैर्न ति-ष्ठति निराश्रयं लिङ्गम्”। इति। विशेषैः स्थूलभूतैः सू-क्ष्माख्यैः, स्थूलावान्तरभेदैरिति यावत्। अस्यां कारि-कायां सूक्ष्माख्यानां स्थूलभूतानां लिङ्गशरीराद्भेदावग-मेन
“पूर्वोत्पन्नमसक्तं नियतं महदादि सूक्ष्मपर्यन्तम्”। इत्यादिपूर्वोदाहृतकारिकायां सूक्ष्मभूतपर्यन्तस्य लिङ्गत्वंतार्थः किन्तु महदादिरूपं यल्लिङ्गं तत् स्वाधारसूक्ष्मप-[Page0655-b+ 38] र्यन्तं संसरति तेन सह संसरतीत्यर्थः। नन्वेवं लिङ्गघटक-पदार्थाः कियन्त इति कथमवधार्यमिति चेत्।
“वासना-भूतसूक्ष्मं च कर्माविद्ये तथैव च। दशेन्द्रियं मनो बुद्धि-रेतल्लिङ्गं विदुर्बुधाः इति वाशिष्ठादिवाक्येभ्यः। अत्रलिङ्गशरीरप्रतिपादनेनैव पुर्यष्टकमपि व्याख्येयमित्याश-येन बुद्धिधर्माणामपि वासनाकर्माविद्यानां पृथगुपन्यासः। भूतसूक्ष्मं चात्र तन्मात्रा। दशेन्द्रियाणि च ज्ञानकर्मेन्द्रिय-भेदेन पुरोद्वयमित्याशयः। यत् तु मायावादिनो लिङ्गश-रीरस्य तन्मात्रस्थाने प्राणादिपञ्चकं प्रक्षिपन्ति पुर्यष्टकंचान्यथा कल्पयन्ति तदप्रामाणिकमिति। ननु मूर्त-द्रव्यतया वाय्वादेरिव लिङ्गस्याकाशमेवासङ्गेनाधारोऽस्तुव्यर्थमन्यत्र सङ्गकल्पनमिति तत्राह।
“मूर्तत्वेऽपि न स-ङ्घातयोगात् तरणिवत्” सू॰ मूर्तत्वेऽपि न स्वातन्त्र्याद-सङ्गतयावस्थानं प्रकाशरूपत्वेन सूर्यस्येव सङ्घातसङ्गानु-मानादित्यर्थः। सूर्यादीनि सर्वाणि तेजांसि पार्थिवद्र-व्यसङ्गेनैवावस्थितानि दृश्यन्ते लिङ्गं च सत्त्वप्रकाशभयमतोभूतसङ्गतमिति। लिङ्गस्य परिमाणमवधारयति।
“अणुपरिमाणं तत्कृतिश्रुतेः” सू॰ तल्लिङ्गमणुपरिमाणंपरिच्छिन्नं न त्वत्यन्तमेवाणु सावयवस्योक्तत्वात्। कुतःकृतिश्रुतेः क्रियाश्रुतेः।
“विज्ञानं यज्ञं तनुते कर्माणितनुतेऽपि च” इत्यादिश्रुतेर्विज्ञानाख्यबुद्धिप्रधानतया विज्ञा-नस्य लिङ्गस्याखिलकर्मश्रवणादित्यर्थः। विभुत्वे सति क्रियान संम्भवति। तद्गतिश्रुतेरिति पाठस्तु समीचीनः। लिङ्ग-शरीरस्य च गतिश्रुतिः
“तमुत्क्रामन्तं प्राणोऽनूत्क्रामतिप्राणमनूत्क्रामन्तं सविज्ञानो भबति सविज्ञानमेवानूत्क्राम-तीति” सविज्ञानो बुद्धिसहित एव जायते सविज्ञानं यथास्यात् यथा संसरति चेत्यर्थः। परिच्छिन्नत्वे युक्त्यन्तर-माह।
“तदन्नमयत्वश्रुतेश्च” सू॰ तस्य लिङ्गस्यैकदेश-तोऽन्नमयत्वश्रुतेर्न विभुत्वं सम्भवतीति। विभुत्वे सतिनित्यतापत्तेरित्यर्थः। सा च श्रुतिः
“अन्नमयं हि सौम्य! मनआपोमयः प्राणस्तेजोमयी वागित्यादिः”। यद्यपि मनआदीनि न भौतिकानि तथाप्यन्नसंसृष्टसजातीयांशपूरणा-दन्नमयत्वादिव्यवहारो बोध्यः। अचेतनानां लि-ङ्गानां किमर्थं संसृतिर्देहाद्देहान्तरसञ्चार इत्याशङ्काया-माह।
“पुरुषार्थं संसृतिर्लिङ्गानां सूपकारवद्राज्ञः” सू॰यथा राज्ञः सूपकाराणां पाकशालासु सञ्चारो राजार्थंतथा लिङ्गशरीराणां संसृतिः पुरुषार्थमित्यर्थः” प्र॰ भाष्यम्सूक्ष्मदेहसत्त्वे प्रमाणं सांख्यतत्त्वकौमुद्यामित्थं दर्शितम्। [Page0656-a+ 38]
“स्यादेतद्बुद्धिरेव साहङ्कारेन्द्रिया कस्मान्न संसरति कृतं सू-क्ष्मशरीरेणाप्रामाणिकेनेत्यत आह।
“चित्रं यथाश्रय-मृते स्थाण्वादिभ्योविना यथा छाया। तद्वद्विना विशे-षैर्न तिष्ठति निराश्रयं लिङ्गम्”। लिङ्गनात् ज्ञाप-नात् बुद्ध्यादयोलिङ्गं तत् अनाश्रितं न तिष्ठति। जन्म-प्रयाणान्तराले बुद्ध्यादयः प्रत्युत्पन्नशरीरश्रिताः प्रत्युत्पन्न-पञ्चतन्मात्रवत्त्वे सति बुद्ध्यादित्वात् दृश्यमानशरीरवृत्ति-बुद्ध्यादिवत्। विना विशेषैरिति सूक्ष्मैः शरीरैरित्यर्थः। आगमश्चात्र भवति
“अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमोवला-दिति”। अङ्गुष्ठमात्रत्वेन सूक्ष्मतामुपलक्षयति आत्मनो-निष्कर्षासम्भवेन सूक्ष्ममेव शरीरं पुरुषस्तदपि हि पुरिस्थूलशरीरे शेते”। एवञ्च सर्वेषां भूतानां संसरणकालेसूक्ष्मदेहस्यावश्यकत्वे स्थिते मनुष्याणामेव दाहाद्यूर्द्धम्आति{??}आहिकदेहान्तरोत्पत्तिर्नत्वन्येषां प्रागुक्तवचनात्असति तु दाहादो नृणां श्माशानिकभूतभावप्राप्तिरितिभेदः यथोक्तम्” शुद्धित॰ विष्णु॰।
“अतिवाहिक-संज्ञोऽसौ देहो भवति भार्गव!। केवलं तन्मनुष्ठाणांनान्येषां प्राणिनां क्वचित्” इत्युपक्रम्य प्रेतपिण्डैस्तथादत्तैर्देहमाप्नोति भार्गव!। भोगदेहमिति प्रोक्तं क्रमा-देव न संशयः। प्रेतपिण्डा न दीयन्ते यस्य तस्य विमोक्ष-णम्। श्माशानिकेभ्यो भूतेभ्यो नाकल्पमेव विद्यते। तत्राऽस्यघातना घोरा शीतवातातपीद्भवा इति” अत्र प्रे तका-र्य्याकरणे दोषाभिधानम्। निन्दार्थवादी विधेयस्तुत्यर्थम्
“न निन्द्यं निन्दनीयं निन्दति किन्तु विघेयं स्तोताति” न्यायात्। एतच्च विद्वद्भिन्नविषयम् छा॰ उ॰ विदुषःदैवात्तदकरणेऽपि अर्चिरादिप्राप्तेरुक्तेः
“अथ यदु चैवा-स्मिन् शव्यं कुर्व्वन्ति यदि न, अर्चिषमेवाभिसन्धव-न्तीति”। एतद्भाष्यञ्च

६५

१ पृष्ठे प्राग् दर्शितन्। एवं गयाश्राद्धादावपि
“अग्निदग्धाश्च ये जीवा नाग्नि-दग्धास्तथाऽपरे तेषामुरद्धणार्थाय इमं पिण्डं ददा-म्यहमिति। मन्त्रलिङ्केनानग्निदग्धस्याप्युद्धारप्रतिपादनात्। निष्कर्षस्त संसृतिकाले प्राणिमात्रस्य सूक्ष्मदेहप्राप्तिः तत्रपश्वादीनां दाहादिकर्म्मादिकमन्तरेणापि स्वस्वकर्म्मानु-सारेण देहान्तरप्राप्तिः मनुष्याणान्तु विद्वदादिव्यतिरिक्तानांदाहादिकमन्तरेण श्माशानिकभूतभावप्राप्तिः कृते तुदाहादौ आतिवाहिकदेहप्राप्तिः पूरकपिण्डादौ पुनःप्रेतदेहप्राप्तिः सपण्डीकरणात्परं भोगदेहप्राप्तिः। तीर्थ-मृतानां न तु प्रेतदेह इति भेदः
“कृते सपिण्डीकरणे नरः[Page0656-b+ 38] संवत्सरात्परम्। प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यतेइत्युक्तेः”
“ततः स नरकेयाति स्वर्गे वा स्वेन कर्मणा” इत्युक्तेश्च विदुषां महातीर्थमृतानां तु दैवात् दाहा-दिकार्य्याकरणेऽपि अर्च्चिरादिमार्गेण तत्तत्स्थानयोग्य-देहप्राप्तिरिति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिवाहिक [ātivāhika], a. [अतिवाहे नियुक्तः ठक्] Employed to convey to the other world; आतिवाहिकास्तल्लिङ्गात् Br. Sūt. 4.3.4. -कम् An epithet of the Sūkṣma Śarira (in Sān. Phil.) from its surpassing the wind in swiftness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आतिवाहिक mfn. (fr. अति-वाह) , " fleeter than wind " , (in वेदान्तphil. ) N. of the subtle body (or लिङ्ग-शरीर) , Kap. Ba1d. etc.

"https://sa.wiktionary.org/w/index.php?title=आतिवाहिक&oldid=490584" इत्यस्माद् प्रतिप्राप्तम्