आदिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिः, पुं, (आङ् + दा + कि ।) पूर्ब्बः । प्रथमः । इत्यमरः ॥ पदान्ते गणसूचकः । यथा इत्यादिः ॥ (प्रारम्भः । प्राक्सत्ता । नियतपूर्ब्बवत्तिकारणं । उत्पत्तिहेतुः । सामीप्ये । व्यवस्थायां । प्रकारे, अवयवार्थे च आदिशब्दस्य प्रयोगो भवति । यदुक्तं, -- “सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । आदिशब्दं तु मेधावी चतुर्ष्वर्थेषु लक्षयेत्” ॥ यथा मानवे १ । ८ । “अपएव ससर्ज्जादौ तासु वीजमवासृजत्” । कुभारे १ । ९ । “जगदादिरनादिस्त्वं” ॥)

"https://sa.wiktionary.org/w/index.php?title=आदिः&oldid=115416" इत्यस्माद् प्रतिप्राप्तम्