आदिदेवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिदेवः, पुं, (आदिः कारणं स च देवश्चेति कर्म्म- धारयः ।) नारायणः । इति त्रिकाण्डशेषः ॥ (जग- दुपादानादिगुणवान् वासुदेवः विष्णुः, महादेवः, ब्रह्मा च यथा, भगवद्गीतायां, १० । १२ । “परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुं ॥ त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानं” ॥ यथा, महाभारते, -- सूर्य्यस्य नामाष्टशतमध्ये परिगणितो नामभेदः । “ध्वन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सूतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=आदिदेवः&oldid=115436" इत्यस्माद् प्रतिप्राप्तम्