आदिवराह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिवराहः, पुं, (आदिः कारणं स च वराहश्चेति कर्म्मधारयः ।) विष्णुः । इति त्रिकाण्डशेषः ॥ अदिशूकरः । आद्यकोलः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिवराह¦ पु॰ आदिराद्यो वराहः। यज्ञवराहरूपेणा-विर्भूते विष्णोरवतारभेदे तत्कथा
“ततो महात्मामनसा दिव्यं रूपमचिन्तयत्। किं नु रूपमहं[Page0698-a+ 38] कृत्वा उद्ध्वरेयं वसुन्धराम्। जले निमग्नां धरणींयेनाहं वै समुद्धरे। इति सञ्चिन्त्य मनसा हरिर्नारा-यणः प्रभुः। जलक्रीडारुचिस्तस्माद्वाराहं वपुरस्म-रत्। हरिरुद्धरणे युक्तस्तदाऽभूदस्य मूमिधृक्। अधृष्यंसर्व्वभूतात्रा वाङ्मयं ब्रह्मसंज्ञितम्। दशयोजनविस्ता-रमुच्छ्रितं शतयोजनम्। नीलजीभूतसङ्काशं मेघस्तनित-निस्वनम्। गिरिसंहननं भीमं श्वेतदीप्तोग्रदंष्ट्रिणम्। विद्युदग्निप्रकाशाक्षमादित्यसमतेजसम्। पीनवृत्तायतस्कन्धंदृप्तशार्दूलविक्रमम्। पीनोन्नतकटीदेशं वृषलक्षणल-क्षितम्। रूपमास्थाय विपुलं वाराहममितं हरिः। पृथिव्युद्धरणार्थाय प्रविवेश रसातलम्। वेदपादो यूप-दंष्ट्रः क्रतुहस्तश्चितीमुखः। अग्निजिह्वो दर्भरोमा ब्र-ह्मशीर्षो महातपाः। अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभू-षणः। आज्यनासः स्रुवतुण्डः सामघोषस्वनो महान्। सत्यधर्म्ममयः श्रीमान् क्रमविक्रमसत्कृतः। क्रियासत्रम-हाघोणः पशुजानुर्म्मखाकृतिः। उद्गात्रन्त्रो होम-लिङ्गो वीजौषधिमहाफलः। वाय्नन्तरात्मा सत्रस्फिक्विकृतः सोमशोणितः। वेदिस्कन्धो ह्नविर्गन्धो हव्यक-व्यातिवेगवान्। प्राग्वं शकायो द्युतिमान्नानादीक्षाभिर-न्वितः। दक्षिणाहृदयो योगी महासत्रमयो महान्। उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्त्तभूषणः। नानाच्छन्दोगति-पथो गुह्योपनिषदासनः। छायापत्नीसहायो वै मणिशृङ्गइवोच्छ्रितः। भूत्वा यज्ञवराहोऽसौ द्रागधः प्राविशद्गुरुः। अद्भिः सञ्छादितामुर्व्वीं स तामार्च्छत् प्रजापतिः। रसातलजले मग्नां रसातलतलं गतः। प्रभुर्लोकहि-तार्थाय दंष्ट्राग्रेणोज्जहार गाम्। ततः स्वस्थानमा-नीय पृथिवीं पृथिवीधरः। मुमोच पूर्व्वं सहसा धार-यित्वा धराधरः। ततो जगाम निर्व्वाणं मेदिनी तस्यधारणात्। चकार च नमस्कारं तस्मै देवाय विष्णवे। एवं यज्ञवराहेण भूत्वा लोकहितार्थिना। उद्धृतापृथिवी देवी सागराम्बुधरा पुरा” हरिवं॰

२२

४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिवराह¦ m. (-हः) A name of VISHNU. E. आदि and वराह a boar; the first boar, alluding to VISHNU'S avatara or incarnation in that form; also similar compounds, as आदिशूकरः, आद्यकोलः, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आदिवराह/ आदि--वराह m. " the first boar " , N. of विष्णुKa1d. Hariv.

आदिवराह/ आदि--वराह m. N. of a poet.

"https://sa.wiktionary.org/w/index.php?title=आदिवराह&oldid=490736" इत्यस्माद् प्रतिप्राप्तम्