आद्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्या, स्त्री, (आदौ भवा दिगादित्वात् यत् टाप् ।) दुर्गा । इति शब्दरत्नावली । काली । तारा । त्रिपुरसुन्दरी । भुवनेश्वरी । इति तन्त्रसारनील- तन्त्रयोगिनीतन्त्राणि । प्रधाना शक्तिः । महा- विद्या । यथा, मुण्डमालातन्त्रे १० पटलः ॥ “सत्ये तु सुन्दरी आद्या त्रेतायां भुवनेश्वरी । द्वापरे तारिणो आद्या कलौ काली प्रकीर्त्तिता ॥ नामभेदं प्रवक्ष्यामि रूपभेदं वरानने । न भेदः कालिकायाश्च ताराया जगदम्बिके ॥ षोडश्या भुवनायाश्च भैरव्यास्त्रिपुरेश्वरि । छिन्नायाश्चैव धूमाया भीमायाः परमेश्वरि ॥ ततश्च वगलामुख्या मातङ्ग्याश्च सुरेश्वरि । न च भेदो महेशानि विद्याया वरवर्णिनि” ॥ आदिभूते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्या¦ स्त्री आदौभवा दिगा॰ यत्।

१ दुर्गायां तन्त्रोक्तायां युग-भेदे

२ सुन्दर्य्यादौ च
“सत्ये तु सुन्दरी आद्या, त्रेतायां भुव-नेश्वरी, द्वापरे तारिणी आद्या कलौ काली प्रकीर्त्तिता” मुण्डमालातन्त्रोक्तेस्तासां तथात्वम्”। आदिभवायां ति-थ्यादौ च।
“युगाद्या वर्षवृद्धिश्चेति” ति॰ त॰ पुरा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आद्या f. N. of दुर्गा

"https://sa.wiktionary.org/w/index.php?title=आद्या&oldid=490769" इत्यस्माद् प्रतिप्राप्तम्