आधारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधारः, पुं, (आध्रियन्ते अस्मिन् इति आधारः अध्यायन्यायेति सूत्रे अवहाराधारेत्युपसंख्या- नादधिकरणे घञ् । व्याकरणशास्त्रे अधिकरण- कारकं, तल्लक्षणं यथा सिद्धान्तकौमुद्यां, आधा- रोऽधिकरणं कर्तृकर्म्मद्वारा तन्निष्ठक्रियाया आ- धारः कारकमधिकरणसंज्ञः स्यात् । तच्च सामी- प्याश्लेषविषयव्याप्तिभेदाच्चतुर्विधं । तथा सिद्धान्त- कौमुद्यां, औपश्लेषिकोवैषयिकोऽभिव्यापकश्चेत्या- धारस्त्रिधा यथा -- कटे आस्ते । स्थाल्यां पचति । मोक्षे सर्व्वस्मिन्नात्मास्ति ।) अधिकरणं । आल- वालं । अम्बुधारणं । इति मेदिनी ॥ क्षेत्रादि- सेकार्थं सेतुना बहुनालं जलं निरुध्य यत्र स्थाप्यते स आधारः बद्धकन्दरादिः । बा~ध इति ख्यातः । इत्यमरटीकायां भरतः ॥ शस्याद्यर्थं जलबन्धन- माधारः । इति वैकुण्ठः ॥ क्षेत्रादिसेकार्थं जला- धारस्थानमाधार इति मधुः ॥ (यथा रघुवंशे ५ । ६ । “आधारबन्धप्रमुखैः प्रयत्नैः संवर्द्धितानां सुतनिर्विशेषं । क्वच्चिन्न वाष्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्” ॥ याज्ञवल्क्यः । “तथात्मकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधारः [ādhārḥ], [आ-धृ घञ्; आध्रियन्ते$स्मिन्क्रियाः इति Kāśi.)

Support, prop, stay; इत्याधारानुरोधात्त्रिपुरविजयिनः पातु वो दुःखनृत्तम् (Some annotators explain आधार as local conditions); Mu.1.2.

(Hence) Power of sustaining, aid, patronage, assistance; त्वमेव चातकाधारः Bh.2.5.

A receptacle, reservoir; तिष्ठन्त्याप इवाधारे Pt.1.67; चराचराणां भूतानां कुक्षिराधारतां गतः Ku.6.67; अपामिवाधारमनु- त्तरङ्गम् Ku.3.48; तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः Ś.1.14; आधारः क्षमाम्भसाम् K.44; Y.3.144,165.

That which holds or contains, a vessel, recipient.

A part, character (in dramas); भेदैः सूक्ष्मैरभिव्यक्तैः प्रत्याधारं विभज्यते Mv.1.3.

A basin round the foot of a tree; आधारबन्धप्रमुखैः प्रयत्नैः R.5.6.

A dike, dam, embankment.

A canal.

The sense of the locative case, location, comprehension; आधारो$धिकरणम्; (आधार is of 3 kinds. औपश्लेषिक, वैषयिक, and अभिव्यापक see Sk. on P.I.4.45).

Relation.

A ray. cf. आधार आलवाले$म्बुबन्धे च किरणे$पि च Nm. -Comp. -आधेयभावः the influence, relation, or action of the support or recipient upon the thing received or supported; H.3.12. -चक्रम् N. of a mystical circle on the posterior part of the body; Rasikaramaṇa. -शक्तिः f.

Māyā or illusion.

the Supreme goddess.

"https://sa.wiktionary.org/w/index.php?title=आधारः&oldid=216048" इत्यस्माद् प्रतिप्राप्तम्