आधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिः, पुं, (आङ् + धा + किः ।) मनःपीडा । प्र- त्याशा । बन्धकं । व्यसनं । अधिष्ठानं । इति मेदिनी ॥ (यथा, हितोपदेशे । “आधिव्याधिपरीताय अद्य श्वो वा विनाशिने । कोऽहि नाम शरीराय धर्म्मापेतं समाचरेत्” ॥ तथा च वैराग्यशतके । “आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधि पुं।

मनःपीडा

समानार्थक:आधि

1।7।28।2।3

कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः। उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

आधि पुं।

अधिष्ठानम्

समानार्थक:आधि

3।3।97।2।1

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

पदार्थ-विभागः : उपकरणम्

आधि पुं।

बन्धकः

समानार्थक:आधि

3।3।97।2।1

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

पदार्थ-विभागः : धनम्

आधि पुं।

व्यसनम्

समानार्थक:अघ,आधि,अनय

3।3।97।2।1

परिधिर्यज्ञियतरोः शाखायामुपसूर्यके। बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधि¦ पु॰ अधीयतेऽभिनिवेश्यते प्रतीकाराय मनोऽनेनआ + धा--कि। मानसदुःखकारके व्यथाभेदे
“नाध-योव्याधयः क्लेशादैवभूतात्महेतवः” भा॰ प्र॰।
“यान्त्येवंगृहिणीपदं युवतयो वामाः कुलस्याधयः” शकु॰। आधिदैविकशब्देऽस्य विवृतिः। ईषत् अधिक्रियतेउत्तमर्ण्णोऽत्र आ + ईषदर्थे धा--अधिकारार्थे आधारे किआधीयते ऋणशोधनार्थम् आ + धा--कर्मणि किवा

१ ऋणशोधनार्थं प्रतिभूस्थानीयतया बन्धकत्वेन उत्तमर्ण्णसमीपे अधमर्णेनाधीयमाने उत्तमर्ण्णस्य ईषत्स्वत्व-हेतुभूतव्यापारविशिष्टे

२ द्रव्येऽस्य विवृतिः मिता॰।
“धनप्रयोगे द्वौ विश्वासहेतू प्रतिभूराधिश्च। यथाह ना-रदः।
“विश्रम्भहेतू द्वावत्र प्रतिभूराघिरेव चेति”। तत्रप्रतिभूर्निरूपित इदानीमाधिर्निरूप्यते। आधिर्नाम गृही-तस्य द्रव्यस्योपरि विश्वासार्थमधमर्णेनोत्तमर्णाधिक्रियायैआधीयतं इत्याधिः स च द्विधैव कृतकालोऽकृतकालश्च पुन-श्चैकैकशोद्विबिधः गोप्योभोग्यश्च। यथाह नारदः।
“अधि-क्रियतैत्याधिः स विज्ञेयोद्विलक्षणः। कृतकालोऽपनेयश्च-यावद्देयोद्यतस्तथा। स पुनर्द्विविधः प्रोक्तोगोप्योभोग्यस्त-थैव चेति”। कृतकाल आधानकालएवामुष्मिन् कालेदीपोत्सवादौ मयायमाधिर्म्मोक्तव्योऽन्यथा तवैवाधिर्भ-विष्यतीत्येवं निरूपिते कालेऽपनेयः आत्मसमीपे नेतव्योभो-चयितव्यः इत्यर्थः। देयं दानं देयमनतिक्रम्य यावद्देयम्उद्यतोनियतः स्थापितैत्यर्थः। यावद्देयम् उद्यतोयाव-द्देयोद्यतः गृहीतधनप्रत्यर्पणावधिरनिरूपितकाल इत्यर्थःगोप्योरक्षणीयः। एवञ्चतुर्विधस्याधेर्विशेषमाह।
“आधिःप्रणश्येत् द्विगुणे धने यदि न मुच्यते। काले काल-कृतोनश्येत् फलभोग्यो न नश्यति” या॰। प्रयुक्ते धनेस्वकृतया वृद्ध्या कालक्रमेण द्वितुणीभूते यद्याधिरधमर्ण्णेनद्रव्यदानेन न मोच्यते तदा नश्यत्यधर्मर्णस्य धनं प्र-योक्तुः स्वं भवति। कालकृतः कृतकालः आहिताग्न्या-दिषु पाठात्कालशब्दस्य पूर्वनिपातः स तु कालेनिरूपिते प्राप्ते नश्येत् द्वैगुण्यात्प्रागूर्द्धंवा। फल-भोग्यः फलंः भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिःस न कृदाचिदपि नश्यति। कृतकालस्य गोप्यस्य भोग्यस्य चतत्कालातिक्रमे नाशौक्तः
“काले कालकृतोनश्येदिति। अकृतकालस्य भोग्यस्य नाशाभावौक्तः
“फलभोग्यो न नश्य-तीति” पारिशेष्यादाधिःप्रणस्येतदित्येदेतदकृतकालगोप्याधि-[Page0711-b+ 38] विषयसवतिष्ठते। द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमणच विनाशे चतुर्दशदिवसप्रतीक्षणं कर्त्तव्यम् वृहस्पतिवचनात्
“हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधौ। बन्धकस्यधनी स्वामी द्विसप्ताहं प्रतीक्ष्य च। तदन्तरा धनदत्त्वाऋणी बन्धमवाप्नुयादिति”। नन्वाधिःप्रणश्येदित्यनुपपन्नम्अधमर्णस्य स्वत्वनिवृत्तिहेतोर्दानविक्रयादेरभावात् मनुवचन-विरोधाच्च
“नचाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः” इति। कालेन संरोधः कालसंरोधश्चिरकालमवस्थानंतस्मात्कालसंरोधाच्चिरकालावस्थानादाधेर्न्ननिसर्गोस्ति ना-न्यत्राधीकरणमस्ति न च विक्रयः एवमाधीकरणविक्रयप्रतिषेधाद्धनिनः स्वत्वाभावोऽवगम्यत इति, उच्य-ते आधीकरणमेव लोके सोपाधिकस्वत्वानिवृत्तिहेतुः प्रसिद्धः। आधिस्वीकारश्च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः। तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेरनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्यनिवृत्तिरुत्त-मर्णस्य चात्यन्तिकं स्वत्वम्भवति। न च मनुवचनविरोधःयतः
“नत्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्लुयादिति” भोग्याधिं प्रस्तुत्येदमुच्यते
“नचाधेः कालसंरोधान्निस-र्गोस्ति न विक्रय” इति भोग्यस्याधेश्चिरन्तनकालावस्थाने-ऽप्याधीकरणविक्रयनिषेधेन धनिनः स्वत्वन्नास्तीति। इहा-प्युक्तं
“फलभोग्योन नश्यतीति”। गोप्याधौ तु पृथगारब्ध-म्मनुना।
“न भोक्तव्यो बलादाधिर्भुञ्जानोवृद्धिमुत्सृजे-दिति”। इहापि वक्ष्यते
“गोप्याधिभोगे नोवृद्धिरिति” आधिःप्रणश्येद्द्विगुण इति तु गोप्याधिं प्रत्युच्यत इतिसर्वमविरुद्धम्। किञ्च
“गोप्याधिभोगे नो वृद्धिः सोपकारेऽथ-हापिते। नष्टोदेयो विनष्टश्चदैवराजकृतादृते” या॰। गो-प्याधेस्ताम्रकटाहादेरुपभोगे न वृद्धिर्भवति। अल्पेऽप्युपभोगेमहत्यपि वृद्धिर्हातव्या समयातिक्रमात् तथा सोपकारे उप-कारकारिणि बलीवर्द्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिरितिसम्बन्धः नष्टोविकृतिङ्गतस्ताम्रकटाहादिश्छिद्रभेदादिनापूर्ववत् कृत्वा देयः तत्र गोप्याधिर्न्नष्टश्चेत् पूर्व्ववत् कृत्यादेयः। उपभुक्तोऽपि चेद्वृद् धिरपि हातव्या भोग्यादिर्य्यदि नष्टःतदा पूर्ववत् कृत्वा देयः। वृद्धिसद्भ्वावे वृद्धिर्वा हातव्या विनष्टआत्यन्तिकं नाशं प्राप्तः सोऽपि देयोमूल्यादिद्वारेण तद्दानेसवृद्धिकं मूल्यं लभते यदि न ददाति तदा मूलनाशः
“विनष्टे मूलनाशः स्याद्दैवराजकृतादृत” इति नारदवच-नात्। दैवराजकृतादृते दैवमग्न्युदकदेशोपप्लवादि। [Page0712-a+ 38] दैवकृताद्विनाशाद्विना। तथा स्वापराधरहिताद्राजकृतात्। दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यमधर्मेणा-ध्यन्तरं वा यथाह।
“स्रोतसापहृते क्षेत्रे राज्ञा चैवापहा-रिते। आधिरन्योऽथकर्त्तव्योदेयं वा धनिने धनमिति”। तत्र स्रोतसापहृत इति दैवकृतोपलक्षणम्। अपि च
“आधेः स्वीकरणात्सिद्धीरक्ष्यमाणोऽप्यसारताम्। यातश्चे-दन्य आधेयोधनभाग्वा धनी भवेत्” या॰। आधे-र्गोप्यस्य भोग्यस्य च स्वीकरणादुपादानादाधिग्र-हणसिद्धिर्न साक्षिलिखनमात्रेण नाप्युद्देशमात्रेण। यथाह नारदः।
“आधिस्तु द्विविधः प्रोक्तोज-ङ्गमःस्थावरस्तथा। सिद्धिरत्रोभयस्यापि भोगोयद्य-स्ति नान्यथेति”। अस्य च फलम्।
“आधौ प्रतिग्रहे क्रीतेपूर्वा तु बलवत्तरेति”। या स्वीकारान्ता क्रिया सा पूर्वा-बलवती स्वीकाररहिता तु पूर्वापि न बलषतीति। सचाधिःप्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्यसारतामविकृत एवसवृद्धिकमूल्यद्रव्यापर्याप्तताङ्गतस्तदाधिरन्यः कर्त्तव्यः।
“ध-निने वा धनन्देयं रक्ष्यमाणोऽप्यसारतामिति” वदताधिःप्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम्। आधिःप्रण-श्येद्द्विगुण इत्यस्यापवादमाह।
“चरित्रबन्धककृतं सवृद्ध्या-दापयेद्धनम्। सत्याङ्कारकृतन्द्रव्यं द्विगुणम्प्रतिदापयेत्” या॰चरित्रं शोभनाचरितम् चरित्रेणं बन्धकम् चरित्रबन्धकम्तेन यत् द्रव्यमात्मसात्कृतम्पराधीनं वा कृतम्। एत-दुक्तम्भवति धनिनः स्वच्छाशयत्वेन बहुमूल्यमपि द्रव्य-माधीकृत्याधमर्णेनाल्पमेव द्रव्यमात्मसात्कृतम्। यदि वाऽ-धमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यमाधिं गृहीत्वा बहु-द्रव्यमेव धनिनाधमर्ण्णाधीनं कृतमिति तद्धनं नृपोवृद्ध्यासह दापयेत्। अयमाशयः एवंरूपं बन्धकं द्विगुणीभूतेऽपिद्रव्ये न नश्यति किन्तु द्रव्यमेव द्विगुणन्दातव्यमिति। तथासत्यङ्कारकृतं करणङ्कारः भावे घञ् सत्यस्य कारः सत्य-ङ्कारः
“कारे सत्यागदस्येति” पा॰ मुम् सत्यङ्कारेण कृतं सत्यङ्का-रकृतम्। अयमभिसन्धिः यदा बन्धकार्पणसमय एवेत्धंपरिभाषितं द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यमेवदातव्यम् नाधिनाश इति तदा तत्द्विगुणन्दापयेत् इति। अन्योऽर्थः। चरित्रमेव बन्धकञ्चरित्रबन्धकम्। चरित्र-शब्देन गङ्गास्नानाग्निहोत्रादिजनितमपूर्वमुच्यते यत्रतदेवाधीकृत्य यद्द्रव्यमात्सात्कृतम्। तत्र तदेवद्विगुणभूतन्दातव्यन्नाधिनाश इति।
“आधिप्रसङ्गादन्य-दुच्यते। सत्यंकारकृतमिति क्रयविक्रयादिव्यस्थानिर्वा-[Page0712-b+ 38] हाय यद्यङ्गुलीयकादि परहस्ते कृतं तद्व्यवस्थातिक्रमे द्वि-गुणन्दातव्यं तत्रापि येनाङ्गुलीयकाद्यर्पितं सएव चेद्यव-स्थातिवर्त्ती तेन तदेव हातव्यम्। इतरश्चेद्व्यवस्थाति-वर्त्ती तदा तदेवाङ्गुलीयकादिद्विगुणम्प्रतिदापयेदिति। किञ्च
“उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत्। प्रयोजकेऽसति धनं कुलेऽन्यस्याधिमाप्नुयात्” या॰। धन-दानेनाधिमोक्षणायोषस्थितस्याधिर्मोक्तव्योधनिना वृद्धि-लोभेन न स्थापयितव्यः। अन्यथा अमोक्षणे स्तेन श्चौर-वद्दण्ड्यो भवेत्। असन्निहिते पुनःप्रयोक्तरि कुले तदा-प्तहस्ते सवृद्धिकं धनं निधायाधमर्णः स्वीयं बन्धकं गृ-ह्णीयात्। अथ प्रयोक्ताप्यसन्निहितस्तदाप्ताश्च धनस्यग्रहीतारो न सन्ति यदि वा असन्निहिते प्रयोक्तरि आधि-विक्रयेण धनदित्साऽधमर्णस्य तत्र किं कतेव्यमित्यपेक्षितेआह।
“तत्कालकृतमूल्योवा तत्र तिष्ठेदवृद्धिकः” या॰। तस्मिन् काले यत्तस्याधेर्म्मूल्यन्तत्परिकल्प्य तत्रैव धनिनितमाधिं वृद्धिरहितं स्थापयेन्न तत ऊर्द्धं धनं वर्द्धते याव-द्धनी धनं गृहीत्वा तमाधिं मुञ्चति यावद्वा तन्मूल्यद्रव्य-मृणिने। प्रवेशयति यदा तु द्विगुणीभूतेऽपि धने द्विगुण-न्धनमेव ग्रहीतव्यम् नत्वाधिनाश इति विचारितमृण-ग्रहणकालएव तदा द्विगुणीभूते द्रव्ये असन्निहितेवाऽधमर्णे धनिना किं कर्त्तव्यमित्यतआह।
“विनाधारणकाद्वापि विक्रीणीत ससाक्षिकम्” या॰। धारण-कादधमर्णाद्विना असन्निहिते साक्षिभिस्तदाप्तैश्च सह-तमाधिं विक्रीय तत् धनं गृह्णीयाद्धनी वाशब्दोव्यवस्थितविकल्पार्थः। यदर्णग्रहणकाले द्विगुणीभूतेऽपिधने धनमेव गृहीतव्यम् नत्वाधिनाश इति न विचा-रितम्। तदा आधिः प्रणश्येत् द्विगुण इत्याधिनाशः। बिचारिते त्वयं पक्ष इति। भोग्याधौ विशेषमाह।
“यदा तु द्विगुणीभूतमृणमाधौ तदा खलु। मोच्य आधि-स्तदुपन्ने प्रविष्टे द्विगुणे धने” या॰ यदा प्रयुक्तं धनं स्वकृ-तया वृद्ध्या द्विगुणीभूतन्तदाधौ कृते तदुत्पन्ने आध्यु त्पन्नेद्विगुणे धनिनः प्रविष्टेधनिनाधिर्मोक्तव्यः यदि वादावे-वाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर्मोक्तव्य इति परि-भाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणी-भूतमृणन्तदाधौ भोगार्थं धनिनि प्रविष्टे तदुत्पन्ने द्रव्यद्विगुणे सत्याधिर्मोक्तव्यः। अधिकोपभोगे तदपि देयम्। सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयमिदं वच-नम्। तमेनं क्षयाधिमाचक्षते लौकिकाः यत्र तु वृद्ध्यथे[Page0713-a+ 38] एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि याव-न्मूलदानं तावदुपभुङ्क्ते एवाधिम् एतदेव स्पष्टीकृतं वृहस्प-तिना
“ऋणी बन्धमवाप्नुयात्। फलभोग्यं पूर्णकालं दत्त्वाद्रव्यञ्च सामकम्। यदि प्रकर्षितं तत्स्यात्तदा ल धनभा-ग्धनी। ऋणी च नलभेद्वन्धं परस्परमतं विना” अस्यार्थः। फलम्भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः स च द्विबिधःसवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश्च तत्रसवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो-यस्यासौ पूर्णकालस्तमाप्नुयादृणी। यदा सवृद्धिकं मूलंफलद्वारेण धनिनः प्रविष्टन्तदा बन्धमवाप्नु यांदित्यर्थः वृद्धि-मात्रापाकरणार्थन्तु बन्धं सामकन्दत्त्वा प्राप्नुयादृणी। समंमूलं सममेव सामकम्। अस्यापवादमाह। यदि प्रक-षितं तत्स्यात्तद्बन्धकं प्रकर्षितमतिशयितं वृद्धेरभ्यधिक-फलं यदि स्यात्तदान धनभाग्धनी। सामकं न लभेद्बन्धं,मूलमदत्त्वेवर्णी बन्धमवाप्नुंयादिति यावत्। अथाप्रकर्षितंतद्बन्धकं वृद्धयेऽप्यपर्य्याप्तन्तदा सामकं दत्त्वापि बन्धम् न लभे-तमर्णः वृद्धिशेषंदत्त्वैव लभेतेत्यर्थः। पुनरुभयत्रापवाद-माह। परस्परमतं विना उत्तमर्णाधर्णयोः परस्परा-नुमत्यभावे यदि प्रकर्षितमित्याद्युक्तम्। परस्परानुमतौतूत्कृष्टमपि बन्धकं यावन्मूलदानन्तावदुपभुङ्क्ते धनी नि-कृष्टमपि मूलमात्रदानेनैवाधमर्णोलभत इति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधि¦ m. (-धिः)
1. Mental agony, anxiety.
2. Exception.
3. Defini- tion.
4. A pledge, a pawn, a mortgage.
5. Location, fixing, scite, &c.
6. Engagement. E. आङ् before ध्यै to reflect, and कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधिः [ādhiḥ], m. [आधीयते स्थाप्यते प्रतीकाराय मनो$नेन, आ-धा-कि P.III.3.92; connected with आध्यै in some senses]

Mental pain or anguish, agony, anxiety (opp. व्याधि- which is bodily pain); न तेषामापदः सन्ति नाधयो व्याधय- स्तथा Mb; मनोगतमाधिहेतुम् Ś.3.1; R.8.27,9.54; Bh. 3.15; Bv.4.11; Māl.4; Ki.1.37.

A bane, curse, misery; यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः Ś.4.18; Mv.6.28.

A pledge, deposit, pawn, mortgage; Y.2.23; Ms.8.143; आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः 145.

A place, residence.

Location, site.

Definition, epithet, attribute, title.

Misfortune, calamity (व्यसन).

Reflection on religion or duty (धर्मचिन्ता)

Hope, expectation.

A man solicitous for the maintenance of his family (कुटुम्बव्यापृत).

Punishment; एनमाधिं दापयिष्येद्यस्मात्तेन भयं क्वचित् Śukra.4.641.-Comp. -ज्ञ a.

suffering pain, distressed.

crooked.-भोगः the use or enjoyment of a deposit (as of a horse, cow &c. when pledged). -मन्युः (pl.) feverish heat or burning. -स्तेनः one who uses a deposit without the owner's consent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आधि/ आ-धि m. (for 2. See. p. 139 , col. 2) a receptacle BhP. xi , 13 , 33

आधि/ आ-धि m. place , situation L.

आधि/ आ-धि m. foundation Nya1yam.

आधि/ आ-धि m. a pledge , deposit , pawn , mortgage RV. Mn. Ya1jn5.

आधि/ आ-धि m. hire , rent A1p.

आधि/ आ-धि m. an attribute , title , epithet(See. उपा-धि) L.

आधि/ आ-धि See. under आ-धाand आ-ध्यै.

आधि/ आ-धि m. thought , care , anxious reflection , mental agony , anxiety , pain TS. MBh. Ya1jn5. etc.

आधि/ आ-धि m. reflection on religion or duty L.

आधि/ आ-धि m. hope , expectation L.

आधि/ आ-धि m. misfortune L.

आधि/ आ-धि m. a man solicitous for his family's livelihood L.

"https://sa.wiktionary.org/w/index.php?title=आधि&oldid=490780" इत्यस्माद् प्रतिप्राप्तम्