आनन्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्दः, पुं, (आङ् + नन्द + घञ्) आह्लादः । तत् पर्य्यापः । आबन्दथुः २ शर्म्म ३ शातं ४ सुखं ५ सुत् ६ प्रीतिः ७ प्रमोदः ८ हर्षः ९ प्रमदः १० आमोदः ११ समदः १२ । इत्यमरः ॥ (यथा, उत्तरचरिते । “यत्रानन्दाश्च मोदाश्च यत्र स्निग्धाश्च सम्पदः” । मनुः । “आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन” ।) वासुदेवस्य बलविशेषः । इति हेमचन्द्रः ॥
आनन्दः, त्रि, (आनन्द + अर्श आदित्वात् अच् ।) आनन्दविशिष्टः । हर्षयुक्तः । सुखी । इत्यमरटीका ॥ (“गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति” । इत्यमरोक्तेः अत्र गुणिलिङ्गः ।)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्द पुं।
आनन्दः
समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्
1।4।25।1।2
स्यादानन्दथुरानन्दः शर्मशातसुखानि च। श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्.।
: अतिप्रीतिः
पदार्थ-विभागः : , गुणः, मानसिकभावः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्द¦ पु॰ आ + नन्द--घञ्।
१ हर्षे सुखे
२ दुःखाभावे,
३ ब्रह्मणि च। अर्शआदित्वादच्।
४ आनन्द-वति त्रि॰
“सत्यंज्ञानमानन्दं ब्रह्मेति श्रुतिः। नैयायिकाआनन्दशब्दः दुःखाभावे लाक्षणिकैत्याहुः ब्रह्मणिआनन्दाभावेऽपि दुःखाभावरूपानन्दस्य तत्र सत्त्वात् आन-न्दवत्त्वमिति ते मन्यन्ते वेदान्तिनस्तु छान्दसं नपुंसक-मिति आनन्दस्वरूपत्वमेव ब्रह्मणः दुःखाभावरूपस्यानन्दस्याधिकरणस्वरूपत्वादित्याहुः एतदभिप्रायेणैवविवरणे
“आनन्दोविषयानुभवो नित्यत्वञ्चेति सन्ति-धर्म्मा अपृथक्त्वेऽपि पृथगिवावभासन्ते इत्युक्तम्” यथा च ब्रह्मण आनन्दप्रचुरत्वादानन्दमयत्वं तथा
“आनन्दमयोऽभ्यासात्” शा॰ सू॰ भा॰ व्यवस्थापितम्त्रैत्ति॰ उप॰ आनन्दमयं प्रकृत्य
“तस्य प्रियमेव शिरो-मोदोदक्षिणः पक्षः प्रमोद उत्तरःपक्षः आनन्द आत्माब्रह्म पुच्छ प्रतिष्ठा”।
“तस्याप्यानन्दमयस्यात्मन इष्ट-पुत्रादिदर्शनजं प्रियं शिर इव शिरः प्राधान्यात्। मोद इति प्रियलाभनिमित्तो हर्षः। स एव च प्रकृष्टोहर्षः प्रमोदः। आनन्दः इति सुखसामान्यम्,आत्मा प्रियादीनां सुखावयवानां तेष्वनुसृतत्वादानन्दइति परं ब्रह्म। तद्धि शुभकर्म्मणा प्रत्थुपस्थाप्यमानेपुत्रमित्रादिविषयविशेषोपाधावन्तःकरणवृत्तिविशेषे तमसा। प्रच्छाद्यमाने प्रसन्नेऽभिव्यज्यते तद्विषयसुखमिति प्र-सिद्धं लोके। तद्वृत्तिविशेषप्रत्युपस्थापकस्य कर्म्मणोऽन-वस्थितत्वात्सुखस्यं क्षणिकत्वम्। तद्यदन्तःकरणं तपसा-तमोघ्नेन, विद्यया, ब्रह्मचर्य्येण, श्रद्धया च निर्मलत्वमाप-द्यते यावत्तावद्विविक्ते प्रसन्नेऽन्तःकरणविशेष आनन्द उ-ल्लस्यते विपुलीभवति। वक्ष्यति च
“रसो वै सः रसंह्येवायं लब्य्वानन्दी भवति एष हेयवानन्दयाति”
“एत-स्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात्एवञ्च कामोपशमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्षआनर्न्दस्य वक्ष्यते। एवञ्चोत्कृष्यमाणस्यानन्दमयस्यात्मनःपरमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्प्रकृतंसत्यज्ञानान्दलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाःकोशा उपन्यस्ताः। यच्च तेभ्योऽभ्यन्तरं येन च ते सर्वेआत्मवन्तस्तद्ब्रह्म पुच्छ प्रतिष्टाः” भा॰ ब्रह्मण आनन्द-रूपरसत्वमपि तत्रैव दर्शितं यथा
“यद्वैतत् सुकृतं रसोवै सः रसं ह्येवाऽयं लब्ध्वानन्दी भवति कोह्येवा-[Page0717-b+ 38] न्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्नदृश्येऽनात्मेयऽ-निरुक्तेऽनिलयेऽभयं प्रतिष्ठां विन्दते” तै॰ उ॰।
“कुतो रसत्वपसिद्धिर्ब्रह्मण इत्यत आह। यद्वैतत्सुकृतंरसो वै सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुरा-म्लादिः प्रसिद्धो लोके। रसमेवायं लब्ध्वा प्राप्यानन्दीसुखी भवति नासत आनन्दहेतुत्वं दृष्टं लोके। वाह्या-नन्दसाधनरहिता अप्यनीहा निरेषणा ब्राह्मणा बा-ह्यरसलाभादिव सानन्दा दृश्यन्ते विद्वांसो नूनम्। ब्रह्मैवरसस्तेषाम् तस्मादस्ति तेषामानन्दकारणं रसवद्ब्रह्म। इतश्चास्ति कुतः। प्राणनादिक्रियादर्शनात्। अयमपिहि पिण्डो जीवतः प्राणेन प्रोणिति अपानेनापानिति। एवं वायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्य्यकार-णैर्निर्वर्त्त्यमाना दृश्यन्ते। तच्चैकार्थवृत्तित्वेन संहननस्संहन्यमानं च नान्तरेण चेतनं संहतं सम्भवति अन्यत्रादर्श-नात्। तदाह यद्यदि एष आकाशे परमे व्योम्नि गु-हायां निहित आनन्दो न स्यान्न भवेत्को ह्येव लोकेऽ-न्यादपानचेष्टां कुर्य्यादित्यर्थः। कः प्राण्यात् प्राणनं कु-र्य्यात्तस्मादस्ति तद्ब्रह्म। यदर्थाः कार्य्य कारणप्राणना-दिचेष्टा? तत्कृत एवानन्दो लोकस्य। कुतः! एष ह्येव परआत्मा आनन्दयाति आनन्दयति सुखयति लोकं धर्मा-नुरूपम्। स एवात्मानन्दरूपोऽविद्यया परिच्छिन्नो विभा-व्यते प्राणिभिरित्यर्थः” भा॰। सर्वानन्दापेक्षया ब्रह्मरूपा-नन्दस्योत्कर्षस्तत्रैव दर्शितो यथा
“सैषानन्दस्य मीमांसाभवति। युवा स्यात् साधुयुवाध्यायिकः। आशिष्ठो दृढिष्ठोबलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्ण्णा स्यात्। स एको मानुष आनन्दः। ते ये शतं मानुषा आनन्दाःस एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकाम-हतस्य। ते ये शतं मनुष्यगन्धर्वाणामानन्दाः स एकोदेवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य। तेये शतं देवगन्धर्व्वाणामानन्दाः स एकः पितॄणां चिर-लोकानामानन्दः श्रोत्रियस्य चाकामहतस्य। तेये शतं पितॄणां चिरलोकानामानन्दाः। स एकआजानजानां देवानामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतमाजानजानां देवानामानन्दाः स एकः कर्म्म-देवानामानन्दः ये कर्म्मणा देवानपि यन्ति, श्रोत्रियस्यचाकामहतस्य। ते ये शतं कर्म्मदेवानामानन्दाः स एकोदेवानामानन्दः श्रोत्रियस्य चाकामहतस्य। ते ये शतं[Page0718-a+ 38] देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्यचाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः स एकोवृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य। ते येशतं वृहस्पतेरानन्दाः। स एक प्रजापतेरानन्दःश्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाःस एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य। स यश्चायं पुरुषे यश्चासावादित्ये स एकः। स य एकं-वित् अस्मांल्लोकात्प्रेत्य एतमन्नमयमात्मानमुपसङ्क्रा-मति, एतं प्राणमयमात्मानमुपसङ्क्रामति, एतं मनोम-यमात्मानमुपसङ्क्रामति, एतं विज्ञानमयमात्मानमुपसङ्क्रा-मति, एतमानन्दमयमात्मानमुपसङ्क्रामति” तैत्ति॰ उप॰
“तस्यास्य ब्रह्मण आनन्दस्यैषा मीमांसा विचारणाभवति किमानन्दस्य मीमांस्यमित्युच्यते। किमानन्दो विषय-विषयिसम्बन्धजनितो लौकिकानन्दवदाहोस्वित्स्वाभाविकइत्येवमेषानन्दस्य मीमांसा। तत्र लौकिक आनन्दोबाह्याध्यात्मिकसाधनसम्पत्तिनिमित्तौत्कृष्टः। स य एषनिर्द्दिश्यते ब्रह्मानन्दानुगमार्थम्। अनेन हि प्रसि-द्धेनानन्देन व्यावृत्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुंशक्यते। लौकिकोऽप्यानन्दो ब्रह्मानन्दस्यैव मात्राऽवि-द्यया तिरस्क्रियमाणोऽविज्ञातो उत्कृष्यमाणायां चावि-द्यायां ब्रह्मादिभिः कर्म्मवशाद्यथाविज्ञानं विषयादि-साधनसम्बन्धवशो विभाव्यमानश्च लोकेऽनवस्थितो लौ-किकः सम्पद्यते स एवाविद्याकामकर्म्मापकर्षेण मनुष्यग-न्धर्वाद्युत्तरोत्तरभूमिष्वकामहतविद्वच्छ्रोत्रियप्रत्यक्षो विभा-व्यते शतगुणो त्तरोत्तरोत्कर्षेण यावद्धिरण्यगर्भस्य ब्रह्मणआनन्द इति। निरस्तेऽविद्याकृते विषयविषयिविभागे वि-द्यया स्वाभाविकः परिपूर्ण्णएक आनन्दोऽद्वैते भवतोत्ये-तमर्थं विभावयिष्यन्नाह। युवा प्रथमवयाः साधुयुवेति। साधुश्चासौ युवा चेति यूनो विशेषणम्। युवाप्यसाधुर्भवतिसाधुरप्ययुपाऽतो विशेषणं युवा स्यात्साधुयुवेति। आ-ध्यायिकोऽधीतवेदः। आशिष्ठ आशास्तृतमः। दृढिष्ठोदृढतमः। बलिष्ठो बलवत्तमः। एवमाध्यात्मिकसाधनस-भ्पन्नः। तस्येयं पृथिवी उर्वी सर्व्वा वित्तस्य वित्तेनोपभो-गसाधनेन दृष्टार्थेन च कर्म्मसाधनेन सम्पन्ना पूर्ण्णा। राजा पृथिवीपतिरित्यर्थः। तस्य च य आनन्दः स एकोमानुषो मनुष्याणां प्रकृष्ट एक आनन्दः। ते ये शतंमानुषा आनन्दाः स एको मनुष्यगन्धर्व्वाणामानन्दः। मनुष्पादानब्दाच्छतगुणेनोकृष्टो मनुष्यगन्धर्व्वाणामानन्दो[Page0718-b+ 38] भवति। मनुष्याः सन्तः कम्मविद्याविशेषाद्गन्धर्वत्वं प्राप्ताःमनुष्यगन्धर्वाः ते ह्यन्तर्धानादिशक्तिसम्पन्नाः सूक्ष्मकार्य्य-कारणाः। तस्मात्प्रतिघाताल्पत्वं तेषां द्वन्द्वप्रतिघातशक्ति-साधनसम्पत्तिश्च। ततोऽप्रतिहन्यमानस्य प्रतिकारवतोमनुष्यगन्धर्वस्य स्याच्चित्तप्रसादः। तस्य प्रसादविशेषात्सु-खविशेषाभिव्यक्तिः। एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्या-मुत्तरस्यां भूमौ प्रसादविशेषतः शतगुणेनानन्दोत्कर्ष उप-पद्यते। प्रथमन्त्वकामहताग्रहणं मनुष्यविषयभोगकाम-नाभिहतस्य श्रोत्रियस्य मनुष्यानन्दाच्छतगुणेनानन्दोत्कर्षोमनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थं साधु युवाध्यायिकइति श्रोत्रियत्वावृजिनत्वे गृह्येते। ते ह्यविशिष्टे स-र्व्वत्र। अकामहतत्वं तु विषयोत्कर्षापकर्षतः सुखोत्कर्षा-पकर्षाय विशिष्यते। अतोऽकामहतग्रहणम्। तद्विशेषतःशतगुणात् सुखोत्कर्षोपलब्धेरकामहतत्वस्य परमानन्दप्राप्ति-साधनत्वविधानार्थम्। व्याख्यातमन्यत्। देवगन्धर्वा जा-तित एव। चिरलोकानामिति पितॄणां पिशेषणम्। चिर-कालस्थायी लोको येषां पितॄणां ते चिरलोका इति। आजान इति देवलोकस्त स्मन्नाजाने जाता आजानजादेवाः स्मार्त्तकर्म्मविशेषतो देवस्थानेषु जाताः। कर्म्म-देवा ये वैदिकेन कर्म्मणाग्निहोत्रादिना केवलेन देवा-{??}अपि यन्ति। देवा इति त्रयस्त्रिंशद्धविर्भुजः। इन्द्रस्तेषांस्वामी तस्याचार्यो वृहस्पतिः प्रजापतिर्विराड्त्रैलोक्यशरीरो ब्रह्मा। समष्टिव्यष्टिस्वरूपः संसार-मरणानलव्यापी। यत्रैत आनन्दभेदा एकतां गच्छ-न्ति। धर्म्मश्च तन्निमित्तं ज्ञानञ्च तद्विपयमकामहतत्वंच निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा तस्यैवआनन्दः श्रोत्रियेणावृजिनेनाकामहतेन च संर्व्वतःप्रत्यक्षमुपलभ्यते। तस्मादेतानि त्रीणि साधनानीत्यवगम्यते। तत्र श्रोत्रियत्वृजिनत्बे नियते अकामहतत्वंतूकृष्यते इति प्रकृष्टसाधनतावगम्यते। तस्य तस्याका-महतत्वं प्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मणआनन्दो यस्य परमानन्दस्य भात्रा एकदेशः।
“एतस्यै-वानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति” श्रुत्यन्तरात्। स एष आनन्दो यस्य मात्रा समुद्राम्भस इव विप्रुषःप्रविभक्ता यत्रैकताङ्गताः स एष परमानन्दः स्वाभाविको-ऽद्वैतत्वात्। आनन्दानन्दिनोयायिभागोऽत्र। तदेतन्मी-मांसाफलमुपसंह्रियते स यश्चायं पुरुष इति। गुहायांनिहितः परमे व्योम्न्याकाशादिकार्य्यं सृष्ट्वाऽन्नमयान्तं[Page0719-a+ 38] तदेवातुप्रविष्ठः स य इति निर्द्दिश्यते। स एकोऽसावयंपुरुषे यश्चासावादित्ये यः परमानन्दः श्रोत्रियप्रत्यक्षोनिर्दिदी यर्स्यकदेशं ब्रह्मादीनि भूतानि सुखार्हाण्युप-जीवन्ति स यश्चासावादित्ये इति स एकः। तं मीमांसयाच सिद्धमुपसंहृतं भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत्। नन्वानन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसं-हर्त्तव्यम्, अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विष-यविषयिसम्बन्धजनित इति। ननु तदनुरूपएवायंनिर्देशः स यश्चायं पुरुषे यश्चासावादित्ये स एक इतिभिन्नाधिकरणस्थविशेषोपमर्दनेन। नन्वेवमप्यादित्यविशेष-णग्रहणमनर्थकम्। नानर्थकम्। उत्कर्षापकर्षापोहार्थत्वात्। द्वैतस्य हि यो मूर्त्तामूर्त्तलक्षणस्योत्कर्षः सवित्रभ्यन्तरगतःस चेत् पुरुषगतविशेषोपमर्द्देन परमानन्दमपेक्ष्य समो भवतिन कश्चिदुत्कर्षोऽपकर्षो वा तां गतिं गतस्येत्युभयं प्र-तिष्ठां विन्दत इत्युपन्नम्”।
“स यः कश्चिदेवं यथोक्तं ब्र-ह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तमस्मीति। एवशब्दस्य प्रकृतपरामर्शार्थत्वात्। स किम्? अस्माल्लोका-त्प्रेय दृष्टादृष्टविषयसमुदायो ह्ययं लोकस्तस्मादस्माल्लो-कात्प्रेत्य प्रत्यावृत्य निरपेक्षो भूत्वा एतं यथा व्याख्यातम्अन्नमयमात्मानभुपसङ्क्रामति विषयजातमन्नमयात्पिण्डात्मनो व्यतिरिक्तं न पश्यति सर्वं स्थूलभूतमन्नमयमात्मानंपश्यतीत्यर्थः। ततोऽभ्यन्तरमेतं प्राणमयं सर्व्वान्नमयात्म-स्थमविभक्तम्। अथैतं मनोमयं विज्ञानमयमानन्दमय-मात्मानमुपसंक्रामति। अथाऽदृश्येऽनात्म्येऽनिरुक्तेऽनिल-ययेऽभयं प्रतिष्ठां विन्दते तत्रैव नान्यत्र च” शाङ्करभाष्यम्( अत्र प्रसङ्गात् सुखदुःखादीनां स्वरूपकारणादिकंतावन्निरूप्यते प्रकृतेः सुखदुःखमोहात्मकसत्त्वरजस्तमोगु-णरूपत्वात् सुखादीनां सत्त्वादिकार्य्यत्वम्। यथोक्तंसां॰ का॰
“प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनिय-मार्थाः। अन्योन्याभिभवाश्रयजननभिथुनमवृत्तयश्च गुणाः” अस्याः सां॰ कौ॰ व्याख्या।
“प्रीतिः सुखं प्रीत्यात्मकः सत्वगुणः, अप्रीतिर्दुखं अप्री-त्यात्मकोरजोगुणः, विषादो मोहः विषादात्मकस्तमोगुणइति। ये तु मन्यन्ते न प्रीति र्दुःखाभावादतिरिच्यतेएवं दुःखमपि न प्रीत्यभावादत्यदिति तान् प्रत्यात्मग्रह-णम्। नेतरेतराभावाः सुखादयः अपि तु भावाः आत्म-शब्दस्य भाववचनत्वात् प्रीतिरात्मा भावो येषां ते प्रीत्या-त्मानः। एवमन्यदपि व्याख्येयम्। भावरूपता चैषा-[Page0719-b+ 38] मनुभवसिद्धा परस्परामावात्मकत्वे तु परस्पराश्रयापत्ते-रेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः। स्वरूपमेषामुक्त्वाप्रयोजनमाह प्रकाशप्रवृत्तिनियमार्थाः अत्रापि यथासं-ख्यमेव। रजः प्रवर्त्तकत्वात्सर्वत्र लघु सत्वं प्रवर्त्तयेत् यदितमसा गुरुणा न नियम्येत। तमोनियतन्तु क्वचिदेव-प्रवर्त्तयतीति भवति तमो नियमार्थम्। प्रयोजनमुक्त्वाक्रियामाह अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च वृत्तिःक्रिया सा च प्रत्येकमभिसम्बध्यते। अन्योन्याभिभववृत्तयःएषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते। तथा हि सत्त्वंरजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभतेएवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्व-रजसी अभिभूय मूढामिति”।
“प्रीत्यप्रीतिविषादाद्यैर्गुणानामन्योन्यं वैधर्म्म्यम्” सां॰सूं॰।
“गुणानां सत्त्वादिद्रव्यत्रयाणामन्योन्यं सु-खदुःखविषादाद्यैर्वैधर्म्म्यम् कार्य्येषु तद्दर्शनादित्यर्थःसुखादिकं च घटादिविषयाणामपि रूपवदेव धर्म्मोऽन्तःक-रणोपादानत्वात् सर्व्वकार्य्याणां, तत्तद्गुणत्वौचित्यात्एतच्चानुपदं निरूपयिष्यते। मनसः संकल्पात्मकतावत्सत्त्वादीनां सुखाद्यात्मकता धर्म्मधर्म्म्यभेदात्” सा॰ प्र॰ भा॰।
“हेयं दुःखमनागतम्” इत्युपक्रम्य
“द्रष्टृदृश्यसंयोगो हेय-हेतुः” पात॰ सू॰ हेयस्य दुःखस्य कारणं द्रष्टृदृश्ययोः संयोगमुक्त्वा
“प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगा-पवर्गार्थं दृश्यम्” पा॰ सूत्रे दृश्यपदार्थो निरूपितः। अयमर्थः प्रकाशशीलं सत्त्वं, क्रियाशीलं रजः, प्रकाश-क्रिययोः प्रतिबन्धरूपस्थितिशीलं तमः। तत्र सत्त्वंमृदुत्वात् तप्यं, तापकं रजः रञ्जकत्वात्। एवं सत्त्व-रजसोस्तप्यतापकभावे सति तमसा मोहः सम ताप इत्येवंरूपभ्रान्तिरूपोमोहः पुरुषस्य भवति। तदिदं गुण-त्रयं स्वस्वकार्य्ये मिथः सहायमविवेकिभोग्यं विवे-कित्याज्यं परस्पराश्रयं परस्पराभिभाव्याभिभानकभावञ्चगच्छति” इत्येवं स्थिते सति करणान्तरे रजस्त-मसी अभिभूय सत्त्वं यदा प्रवर्द्धते तदा सत्त्वोद्रेकात् सुखंजायते। सत्त्वतमसी अभिभूय सति कारणान्तरे यदा रजःप्रवर्द्धते तदा रज उद्रेकात् दुःखं भवति सत्त्वरजसीअभिभूय यदा तम उद्रिक्तं भवति तदा मोहविषादादिकं जायते इति सुखादिसमुद्भवप्रकारः। तत्र कारणं धर्म्माधर्म्मादिसचिवोरागादिरेव। यथाह
“सुखानुशयी रागः” दुःखानुशयी, द्वेषः” पा॰ सू॰[Page0720-a+ 38] सुखानुभवे सति स्मृत्या तज्जातीसुखान्तरे तत्साधनेवा तृष्णा स रागः सुखमनुशेते विषयीकरोति सुखानु-शयीत्यर्थः एवं दुःखानुभवितुः स्मृत्या दुःखे तत्सा-धने वा यः क्रोधः स द्वेष इत्यर्थः। एवञ्च सुखस्यस्मरणात्मकज्ञानात् सुखे इच्छा नान्येच्छाधीना इतितस्य स्वतःप्रयोजनत्वम् अन्येच्छानधीनेच्छाविषयस्यस्यैवतथात्वात्। तत्साधने तु सुखसाधनत्वज्ञानादेवेच्छा अत-स्तस्य गौणप्रयोजनत्वम्। स्मरणात्मकदुःखज्ञानाच्च दुःखेद्वेषः तत्साधने तु तत्साधनन्त्वज्ञानात् द्वेषः यथाह भाषा॰
“सुखन्तु जगतामेव काम्यं धर्म्मेण जन्यते। अधर्म्मजन्यंदुःखं स्यात् प्रतिकूलं सचेतसाम्। निर्दुःखत्वे सुखेचेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपाये स्यादिष्टो-पायत्वधीर्यदि। चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च याभवेत्। तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत्। बल-वदद्विष्टहेतुत्वमतिः स्यात् प्रतिबन्धिका। तदहेतुत्वबुद्धेस्तुहेतुत्वं कस्यचिन्मते। द्विष्टसाधनताबुद्धिर्भवेद् द्वेषस्य कार-णम्”। इच्छया च तत्साधने प्रवृत्तिः। द्वेषाच्च तत्साधनेनिवृत्तिः। यत्र सुखनान्तरीयकविधया दुःखमुत्पद्यते ता-दृशे कर्म्मणि द्विष्टसाधनत्वज्ञाने सत्यपि इच्छातत्कार्ययोर्दर्शनात्बलवद्द्विष्टासाधनत्वज्ञानस्यैव इच्छायां प्रवृत्तौ च कारणत्वेनतस्य तन्नान्तरीयकत्वान्न बलवद्द्विष्टत्वम्। अतएव कण्टकिमत्स्यभक्षणादौ सतुषधान्यादिग्रहणे च प्रवृत्तिः। कामुकादेःपरदारादिगमने नरकसाधनत्वं विदुषोऽपि प्रवृत्तिस्तुतत्काले ऐहिकसुखापेक्षयां कालान्तरभाविनि नरकादौ बल-वद्द्वे षाभावेन बलवद्विष्टासाधनत्वज्ञानादेवेति न विरोधः। तत्र सुखं प्रथमं द्विविधं ज्ञानप्रसादलब्धं ब्रह्मानन्दाद्यपर-पर्य्यायं निरतिशयम्, वैषयिकं सातिशयञ्च” तच्च तैत्तिरीयश्रुतौ मनुष्यादारभ्य ब्रह्मपर्य्यान्तानाम्
७१
७ पृष्ठेप्राग्दर्शितम्सातिशयञ्च सुखं विवेकिनां दुःखमेव। यथोक्तम् विषय-तृष्णाराहित्यरूपोपरतिस्वरूपतुष्टिप्रदर्शने” सां॰ कौ॰।
“अर्ज्जनरक्षणक्षयभोगहिंसादोषदर्शनहेतुजन्मान उपरमाःपञ्च भवन्ति। तथा हि सेवादयोधनोपार्जनोपायास्तेच सेवकादीन् दुःखाकुर्वन्ति। दृप्यद्दुरीश्वरद्वाःस्थहस्तद-त्तचण्डार्द्धचन्द्रजां वेदनां भावयन् प्राज्ञः कः सेवासु प्र-सज्जते?। एवमन्येऽप्यऽर्ज्जनोपाया दुःखा इति विषयोप-परमे या तुष्टिः सैषा पारमुच्यते। तथार्जितं धनं राजै-कागारिकाग्निजलौघादिभ्योविनङ्क्ष्यतीति तद्रक्षणेमहद्दुः-खमिति भावयतोविषयोपरमे या तुष्टिः सा द्वितीया सु-[Page0720-b+ 38] पारमुच्यते। तथा महतायासेनार्जितं धनं भुज्यमानंक्षीयते इति तत्प्रक्षयं भाववतोविषयोपरमे या तुष्टिःसा तृतीया पारपारमुच्यते। एवं शब्दादिभोगाभ्या-साद्वर्द्धन्ते कामास्ते च विषयाप्राप्तौ कामिनं दुःखयन्तीतिभोगदोषं भावयतो विषयोपरमे या तुष्टिः सा चतुर्थी अ-नुत्तमाम्भ उच्यते। एवं नानुपहत्य भूतानि विषयोपभोगःसम्भवतीति हिंसादोषदर्शनाद्विषयोपरमे या तुष्टिःसा पञ्चमी उत्तमाम्भ उच्यते”।
“परिणाम तापसंस्कार-दुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” पात॰ सूत्रेचोक्तम्। अयमर्थः परिणामोऽन्यथाभावःतापः वर्त्तमानः, संस्कारोभूतः एतान्येव दुःखानितैरिति विग्रहः तथा च विषयसुखभोगात् कामानलोवर्द्धते
“न जातु कामः कामानामुपमोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” इति भारतोक्तेःतद्वृद्धौ च सत्यां कदाचित् काम्यालाभे दुःखमवश्यंभावि कदाचिद्लाभेऽपि कुत्रश्चिद्भोगसङ्कोचे दुःखम् ततःसङ्कोचके द्वेषः ततः कामद्वेषाभ्यां पापस्योपचयात् दुःख-मवश्यं भावि। असङ्कोचे व्याधिः पापञ्च ततोदुःखम् एवंभोगस्य परिणामदुःखता। तथा सुखभोगस्य तत्सा-धनस्य नाशे तापः अनुतापः स च दुःखमेवेति तस्यतापदुःखता। तथा भोगनाशेऽपि तत्संस्कारः तिष्ठ-त्येव सति तस्मिन् तज्जातीये पुनः रागः रागे च पुण्या-पुण्यसाधनावश्यम्भावः ततः पुनः सुखदुःखभोगः ततःपुनः संस्कार इत्यनन्तदुःखसन्ततिः तथा च यथा भोग-नाशे न संस्कारो भवेत् तथा यतितव्यमिति अतएवोक्तम्
“असक्तः सुखमन्वभूत्” सर्व्वमेव विषयभोगसाधनं विषय-जन्यं सुखं च दुःखपक्षे निक्षेप्तव्यम्। तत्र हेतुः गुण-वृत्तिविपर्य्ययादिति गुणानां चित्तात्मना परिणतानांसत्त्वरजस्तमसांवृत्तीनां सुखदुःखमोहानां विरोधात् परस्प-राभिभाव्याभिभावकत्वरूपविरोधात् इति। तथा च त्रिगु-णचित्तस्य यदा रजस्तमसी सत्त्वात् किञ्चिदूने मवतःतदा ते गिथुनीभूय सत्त्वाभिभवाभिमुखे भवतः। तदानीञ्चतमसा सत्वापिधानै कृते रजसैश्वर्य्यं कामयमानेन विषयःप्रियो भवति तदा तेन सत्त्वाच्छादनेन चित्तं विक्षिप्तंभवति। यदा तु तमः प्रधानं तदा चित्तं मूढं भवतिसत्त्वोद्रेके तु सुखम् इत्येवमेकस्यैव चित्तस्य सत्त्वादि-कारणोद्रेकभेदेन सुखदुःखादिरूपता। ( सुखादिकञ्च अन्तःकरणधर्मः धर्म्मावर्म्मफलत्वात्
“शा-[Page0721-a+ 38] स्त्रदेशितं फलमनुष्ठातरीति” न्यायेन कृत्यादीनामन्तःकरण-धर्म्मत्वेन तद्धर्म्म त्वौचित्योत् पुरुषे तु तानि तदविवेकादौ-पाधिकानि
“प्रकृतेः क्रियमाणानि गुणैः कर्म्माणि सर्वशः। अहङ्कारविमूढात्मा वर्त्ताहमिति मन्यते” गीतोक्तेःप्रकृतिगुणानां वास्तविककर्त्तृत्वसिद्धेः।
“तस्मात् संयो-गादचेतनं चेतनावदिव लिङ्गम्। गुणकर्त्तृत्वे च तथाकर्त्ता भवत्युदासीन” इति सां॰ का॰ राजसवृत्तेः अन्तः-करणस्यैव वास्तविककर्त्तृत्वोक्तेश्च क्रियाफलस्य सुखादेरपितत्सामानाधिकरण्यम्। एतदाशयेनैव
“तत्र जरा-मरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः। लिङ्गस्या-विनिवृत्तेस्तस्माद् दुःखं स्वभावेन सा॰ का॰ उक्तिः पुरुषेऔपाधिकदु खस्य सद्भावपरा”। किञ्च अन्तः-करणस्य तावत् सुखादिभिरन्वयव्यतिरेकौ सर्व्वसम्मतौइत्यन्वयव्यतिरेकाभ्यां सिद्धकारणभावस्य तस्योपादानत्वमेवसांख्यादिभिः कल्प्यते न पुनस्तस्य निमित्तत्वं प्रकल्प्यआत्मनस्तत्र समवायिकारणत्वकल्पनं गौरवपराहतत्वात्निर्गुणत्वादिश्रुतिविरोधाच्च। सत्यपि तस्यस्वाभाविकाकर्त्तृत्वेभोक्तृत्वमस्त्येवेति सांख्या आहुः यथोक्तं सांख्यसूत्रभाष्ययोः
“चिदवसानो भोगः” सू॰।
“पुरुषस्वरूपे चैतन्येपर्यवसानंयस्य तादृशो भोगः सिद्धिरित्यर्थः। बुद्धेर्भोगस्य व्यावर्त-नाय चिदवसान इति। चितः परिणामित्वरूपधर्म्मत्वादि-शङ्कानिरासायावसानपदम्। चितौ भोगस्य स्वरूपे पर्यव-सितत्वान्न कौटस्थ्यादिहानिरित्याशयः। तथाहि प्रमाणाख्यवृत्त्यारूढं प्रकृतिपुरुषादिकं प्रमेयं वृत्त्या सह पुरुषेप्रतिविम्बितं सद्भासते। अतोऽर्थोपरक्तवृत्तिपतिविम्बाव-च्छिन्नं स्वरूपचैतन्यमेव भानं पुरुषस्य भोगः प्रमाणस्यच फलमिति। ततश्च प्रतिबिम्बरूपेणार्थसम्बन्धे द्वारतयावृत्तीनां करणत्वमिति। तदुक्तं विष्णुपुराणे।
“गृही-तानिन्द्रियैरर्थानात्मने यः प्रयच्छति। अन्तःकरणरूपायतस्मै विश्वात्मने नमः” इति। राज्ञो हि करणवर्गःस्वामिने भोग्यजातं समर्पयतीति दृष्टमिति। भोग-शब्दार्थश्चाभ्यवहरणम् आत्मसात्करणमिति यावत्। स च देहादिचेतनान्तेषु साधारणः। विशेषस्त्वयम्। अपरिणामित्वात् पुरुषस्य विषयभोगः प्रतिबिम्बादानमात्रम्। अत्येषां तु परिणामित्वात् पुष्ट्यादिरपीति। अयमेव च परिणामरूपः पारमार्थिको भोगः पुरुषेप्रतिषिध्यते
“बुद्धेर्भोग इवात्मनीत्यादिभिरिति” मन्तव्यम्। अणिन् सूत्रे पुरुषस्यापि फलव्याप्यता सिद्धा चिद-[Page0721-b+ 38] वसानताया एवात्र भोगत्ववचनादिति ननु कर्त्तुरेव लोकेक्रियाफलभोगो दृष्टः। यथा सञ्चरत एव सञ्चारोत्थ-दुःखभोग इति तत् कथं बुद्धिकृतधर्म्मादिफलस्य सुखा-द्यात्मिकाया अर्थोपरक्तबुद्धिवृत्तेर्भोगः पुरुषे घटेतेत्या-शङ्कायामाह।
“अकर्त्तुरपि फलोपभोगोऽन्नाद्यवत्” सू॰। बुद्धिकर्म्मफलस्यापि वृत्तेरुपभोगस्तदकर्त्तुरपि पुरुषस्ययुक्तः अन्नाद्यवत्। यथान्यकृतस्यान्नादेरुपभोगो राज्ञोभवति तद्वदित्यर्थः। अविवेकस्य स्वस्वामिभावस्य वाभोगनियामकत्वात् तु नातिप्रसङ्गः। सुखदुःखादेः कर्म्म-फलत्वमभ्युपेत्य बुद्धिगतं कर्म्मफलं पुरुषो भुङ्क्त इत्यु-क्तम्। इदानीं पुरुषगतभोगस्यैव कर्म्मफलत्वं स्वीकृत्यबुद्धिकर्म्मणा पुरुष एव फलमुत्पद्यत इति मुख्यसिद्धान्त-माह।
“अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः” सू॰। अथवा कर्तरि फलमेव न भवति सुखं भुञ्जीयेत्यादि-कामनाभिर्भोगस्यैव फलत्वात्। अतो भोक्तृनिष्ठमेव फलंभवति
“शास्त्रविहितं फलमनुष्ठातरीति” शास्त्रेषु कर्त्तुःफलावगमस्तु तत्सिद्धेरकर्तृनिष्ठाया भोगाख्यसिद्धेःकर्तृबुद्धावविवेकादित्यर्थः। योऽहं करोमि स एवाहंभुञ्ज इति हि लौकिकानुभव इति। या च सुखंमे भूयादित्यादिकामना सा पुत्रो मे भूयादितिवत्फलसाधनत्वेनैवोपपद्यते। भोगस्तु नान्यस्य साधनम्। अतः स एव फलमिति मुख्यः सिद्धान्तः। भोगस्यपुरुषखरूपत्वेऽपि वैशेषिकाणां मते श्रोत्रवत् कार्यताबोध्या सुखाद्यवच्छिन्नचितेरेव भोगत्वात्। अस्मिंश्चभोगस्य फलत्वपक्षे दुःखभोगाभाव एवापवर्गो बोध्यः। अथवा भोग्यतारूपस्वत्वसम्बन्धेन सुखदुःखाभावयोरेवफलत्वमस्तु तेन सम्बन्धेन धनादेरिव सुखादेरपि पुरुषनिष्ठ-त्वादिति” प्र॰ भा॰ युक्तञ्चैतत्
“कामः संकल्पोविचिकित्साश्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्मीरित्येत्सर्व्वं मन एवेति” श्रुत्या कामादेरन्तःकरण--धर्म्मत्वोक्तेस्तत्फलस्य सुखादेस्तद्ध-र्म्मौचित्यात् तेषां मनोधर्म्मत्वमिति सांख्यादीनां मतमेवंवेदान्तिनाम्
“तद्गुणसारदिति” शा॰ सू॰ तथैव भाष्यकृतानिर्ण्णीतत्वात्। इयांस्तु विशेषः सांख्यैर्विषयेष्वपि त्रिगुण-कार्य्यत्वात् सुखादिकमस्तीतिमन्यन्तेययोक्तम्” सां॰ कौमु-द्याम्।
“सुखदुःखमोहाः परस्परविरोधिनः स्वखानुरूपाणिसुखदुः खमोहात्मकान्येव निमित्तानि कल्पयन्ति। तेषाञ्चपरस्परमभिभाव्याभिभावकभावान्नानात्वम्। तद्यथा एकैवस्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति तत[Page0722-a+ 38] कस्य हेतोः? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात्। सैव स्त्री सपत्नीर्दुःखाकरोति तत्कस्य हेरोः? ताः प्रतितस्या दुःखरूपसमुद्भवात्। एवं पुरुषान्तरं तामविन्दत्सैव मोहयति तत्कस्य हेतोः? तत्प्रति तस्या मोहरूप-समुद्भवात्। अनया च स्त्रिया सर्वे भावा व्याख्याताः। तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्वं, यत् दुःखहेतुस्तद्-दुखात्मकं रजः, यन्मोहहेतुस्तन्भोहात्मकं तमः, मुखप्र-काशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः सहद-र्शनात्। तस्मात् सुखदुःखमोहैरिव विरोधिभिरेकैकगुण-वृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नीयन्ते एवंदुःखीपष्टम्भकत्वप्रवर्त्तकत्वैरेवं मोहगुरुत्वावरणैरिति सिद्धंत्रैगुण्यमिति”। सां॰ सूत्रे प्र॰ भाष्ये चोक्तम्।
“मखदुःखमोहधर्मिणी बुद्धिः सुखदुःखमोहधर्म्मात्मकद्रव्य-जन्या कार्यत्वे सति सुखदुःखमोहात्मकत्वात् कान्ता-दिवदिति कारणगुणानुसारेणैव कार्य्यगुणौवित्यं चात्रानु-कूलस्तर्कः श्रुतिस्मृतयोऽपीति मन्तव्यम्। ननु विषयेषुसुखादिमत्त्वे प्रमाणं नास्ति। अहं सुखीत्याद्येवानुभवात्तत् कथं कान्तादिविषयो दृष्टान्त इति चेन्न सुखा-द्यात्मकबुद्धिकार्य्यतया स्रक्सुखं चन्दनसुखमित्याद्यनुभवेनच विषयाणामपि सुखादिधर्मकत्वसिद्धेः श्रुतिस्मृतिप्रामा-ण्याच्च। किञ्च यस्यान्वयव्यतिरेकौ सुखादिना सह दृश्येतेतस्यैव सुखाद्युपादानत्वमपरिकल्प्यान्यस्योपादानत्वकल्पनेकारणद्वयकल्पनागौरवम्। अपि चान्योऽन्यसंवादेन प्रत्य-भिज्ञया च विषयेषु सर्बपुरुषसाधारणस्थिरसुखसिद्धिः। तत्सुखग्रहणायास्मन्नये वृत्तिनियमादिकल्पनागौरवं चफलमुखत्वान्न दोपावहम्। अन्यथा प्रत्यभिज्ञयावयव्य-सिद्धिप्रसङ्गात् त{??}रणादिकल्पनागौरवादिति। विषयेऽपिसुखादिकं च माक{??}डेये प्रोक्तम्।
“तत् सन्तु चेतस्यथवापिदेहे सुखानि दुःखानि च किं ममात्र” इति। अहंपखीपादिप्रत्ययस्तु अहं धनीत्यादीप्रत्ययवत् खखामिभावा-ख्यसम्बन्धविषयकस्तेषां प्रत्ययानां समवायसम्बन्धविषयकत्वम-मनिरासर्थं तु सुखदुः खिमूढेभ्यः पुरुषो विविच्यते शास्त्रे-ष्विति। शब्दादिषु च सुखाद्यात्मताव्यवहार एकार्थसमवा-यात्। अस्तु वा शब्दादिषु साक्षादेव सुखमुक्तप्रभाणेभ्यः। विषयगतसुखादेश्च बुद्धिमात्रग्राह्यत्वं फलबलात्। यत् तुविषयासम्प्रयोगकाले शान्तिसुखं सात्त्विकं सुषुप्त्यादौव्यज्यते तदेव बुद्धिधर्म्म आत्मसुखमुच्यत इति”। ( वैशेचिकादयस्त सुखादिकमात्मनएवधर्म्मः
“बुद्ध्यादिषट्कं[Page0722-b+ 38] संख्यादिपञ्चकं भावना तथा। घर्म्माधर्म्मौ गुणाएते आ-त्ममः स्युश्चतुर्द्दश” इति भाषा॰ उक्तेः। मनसोऽणुत्वाङ्गी-कारेण तेषां तद्गुणत्वे ज्ञानसुखादीनामप्रत्यक्षत्वापत्तेः। प्रत्यक्षे चाश्रयमहत्त्वस्य हेतुत्वात् मनसश्च ज्ञानायौगपद्ये-नाणुत्वेन महत्त्वाभावादिति युक्तिं प्रदर्श्य श्रुतौ मनो-धर्म्मत्वचनन्तु आयुर्घृतमित्यादिवदौपचारिकमित्यङ्गी-घक्रुः। तदेतन्मतमसमीचीनम् एकदा ह्रदावगाहे सकल-देहव्यापिशैत्योपलब्धेः नृत्यगीताभिनयादेरेकदा श्रवण-दर्शनादेर्दर्शनान् मनसोऽणुत्वासिद्धेः श्रौतमनोधर्म्मत्वस्यनिमित्तपरत्वकल्पनेऽपि
“अन्नमशितं त्रेधा विधीयतेतस्य यःस्थविष्ठोधातुस्तत्पुरीषं यन्मध्यमं तन्मांसं यो-ऽणिष्ठस्तन्मन” इति छा॰ उ॰ श्रुत्या
“अन्नमयं हि सौम्य!। मन” इत्युक्तस्य मनसोऽन्नविकारत्वस्य समर्थनाय प्रवृत्तयाबोधितस्य मनसोऽन्नजन्यत्वस्य अन्नभोजनोपचयापचयाभ्यांतद्वृद्धिह्रासावगतेर्नाणुमानता मनस इति आगमविरोधेअनुमानाप्रवृत्तेः अङ्गीकृतञ्च तैरपि शङ्ख{??}ष्टान्तेन प्राण्य-ङ्गत्वहेतुना नरकपालशुचित्वानुमाने
“नारं स्पृष्ट्वास्थिसंस्नेहं सचेलं जलमाविशेत्” मनुस्मृत्या बाधादप्रामाण्य-मतः प्रकृतेऽपि तथेति। मनसोऽनणुत्वाभिप्रायेणैव
“क्रमशोऽक्रमशश्च वृत्तयः” सां॰ सूत्रे मनसोऽनणुत्व-निरासेन युगपद्वृत्तयोऽङ्गीकृताः। तथा सांख्यकारिकाकौमुद्योरुक्तम्।
“युगपच्चतुष्टयस्य तु वृत्तिःक्रमशश्च तस्य निर्दिष्टा। दृष्टे तथाप्यदृष्टे त्रयस्य तत्-पूर्विका वृत्तिः” का॰
“दृष्टे यथा यदा सन्तमसान्धकारेविद्युत्सम्पातमात्राद्व्याघ्रमभिमुखमतिसन्निहितं पश्यतितदा खल्वस्यालोचनसङ्कल्पाभिमानाध्यवसाया युगपदेवप्रादुर्भवन्ति, यतस्तत उत्पत्य तत्स्थानादेकपदेऽप-सरति। क्रमशश्च यदा मन्दालोके प्रथमं तावद्वस्तु-मात्रं सम्मुग्धमालोचयति अथ प्रणिहितमनाः कर्णा-न्ताकृष्टसशरः कुञ्चितपादः शिञ्चितज्यामण्डलीकृतको-दण्डः प्रचण्डतरः पाटच्चरोऽयमिति निश्चिनोति अथ चमां प्रत्येतीत्यभिमन्यते अथाध्यवस्यति अपसरामीतः स्थाना-दिति। परोक्षे तु अन्तःकरणत्रयस्य बाह्ह्येन्द्रियवर्ज्जंवृत्तिरित्याह अदृष्टे त्रयस्य तत्पूर्विका वृत्तिः। अन्तः-करणत्रयस्य युगपत् क्रमेण च वृत्तिर्दृष्टपूर्विकेति। अनु-मानागमस्मृतयोहि परोक्षेऽर्थे दर्शनपूर्वाः प्रवर्त्तन्तेनान्यथा। यथा दृष्टे तथा, अदृष्टेऽपीति योजना” कौ॰आकरेऽस्य प्रपञ्चः। तच्च सुखं त्रिविधम्”। यथा[Page0723-a+ 38]
“सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ्य!
३६ । अभ्या-साद्रमते यत्र दुःखान्तञ्च नियच्छति। यत्तदग्रे विषमिवपरिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्म-षुद्धिप्रसादजम्
३७ । विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतो-पमम्। परिणामे विषमिव तत्सुखं राजसं स्मृतम्
३८ । यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रा-खस्यप्रमादोयं तत्तामसमुदाहृतम्
३९ । न तदस्ति पृथि-व्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तयदेभिः स्यात्त्रिभिर्गुणैः
४० ” गीतीक्तेः।
“सुखस्य त्रैविध्यंप्रतिजानीते सुखन्त्विति। स्पष्टोऽर्थः
३६ । तत्र सात्त्विकंसुखमाह अभ्यासादिति सार्द्धेन। यत्र यस्मिन् मुखेअभ्यासाद्रमते न तु विषयसुखैव सहसा रतिं प्राप्नोतियस्मिन् रममाणश्च दुःखस्यान्तमवसानं नितरां यच्छतिप्राप्नोति। कीवृशं, यत्तत् किमपि अग्रे प्रथमं विषमिवमनःसंयमाधीनत्वाद्दःखावहमिव भवति परिणामेत्त्वमृतसदृशं आत्मविषया बुद्धिरात्मबुद्धिस्तस्याः प्रसादो-रजस्तमोमयत्यागेन स्वच्छतयावस्थानं ततोजातं यत् सुखंतत्सात्त्विकं प्रोक्तं योगिभिः
३७ । राजसं सुखमाहविषयेति। विषयाणामिन्द्रियाणाञ्च संयोगात् यत्तत्प्रसिद्धं स्त्रीसंसर्गादिसुखं अमृतमुपमा यस्य तादृशंभवति। अग्रे प्रथमं परिणामे च विषतुल्यं इहामुत्रच दुःखहेतुत्वात् तत् सुखं राजसं स्मृतम्
३८ । तामसंसुखमाह यदिति। अग्ने च प्रथमक्षणे अनुबन्धे चपश्चादपि यत्सुखमात्मनो मोहकरम्। तदेवाह निद्रा चआलस्यञ्च प्रमादश्च कर्त्तव्यावधानराहित्येन ममोग्राह्य-मेतेभ्य उत्तिष्ठति यत्सुखं तत्तामसमुदाहृतम्
३९ । अनुक्तमपि संगृह्णन् प्रकरणार्थमुपसंहरति न तदितित्रिभिः। एभिः प्रकृतिसंभवैः सत्त्वादिभिर्गुणैर्मुक्तंहीनं सत्त्वं प्राणिजातम् अन्यद्वा यत् स्यात्तत् पृथिव्यां मनु-थ्यादिषु दिवि देवेषु च क्वापि नास्तीत्यर्थः” श्रीधरः। ( वैषयिके सुखदुःखे च इष्टानिष्टविषयेन्द्रियसन्निकर्षज-ज्ञानात् जायमाने अनुभूयेते क्षणिके च
“मात्रास्पर्शास्तुकौन्तेय! शीतोष्णसुखदुःखदाः। आगमापायिनोऽ-नित्यास्तांस्तितिक्षख भारत! इति गीतोक्तेः। वैषयिक-सुखस्य च क्षणिकत्वात् परिणामादिदुःखरूपत्वाच्च विवे-किभिः त्याज्यत्वमेव
“त्याज्यं सुखं विषयसङ्गमजन्म पुंसाम्” इत्युक्तेः प्रागुक्त पातञ्जलसूत्राच्च विषयेन्द्रियसंयोगाज्जातन्तुसुखं राजसं प्रागुक्तनीतावाक्यात्। तत्र विषयाश्च शब्द-[Page0723-b+ 38] स्पर्शरूपरसगन्धाः यथायथं तद्वन्तश्च तत्र शब्दविशेषरूपगीतादिषु श्रवणेन्द्रियसंबद्धेषु यत् सुखं तत् वैषयिक-मेव किंन्तु आत्मोपासनाङ्गत्वेन गीतादिकमपि चित्तै-काग्रतासम्पादुनद्वारा मोक्षसाधनंभवति तदुक्तं या-स्मृतौ मिताक्षरायाञ्च।
“यस्य पुनश्चित्तवृत्तिर्न्निराकारालम्बनतया समाधौनामिरमते तेन शब्दब्रह्मोपासनं कार्य्यमित्याह।
“यथा-विधानेन पठन् सामगानमविच्युतम्। सावधानस्तदभ्यासा-त्परंब्रह्माधिगच्छति” या॰
“खाध्यायावगतमार्गानतिक्रमेणसामगानं साम्नोगानात्मकत्वेऽपि गानमिति विशेषणम्अगीतमन्त्रव्युदासार्थम्। अविच्युतमस्खलितम्। साव-धानः सामध्वन्थनुस्यूतात्मैकाग्र्यचित्रवृत्तिः पठन् तदभ्या-सवशात्तत्र निष्णातः शब्दाकारब्रह्मण उपासने परब्रह्मा-धिगच्छति। तदुक्तम्।
“शब्दब्रह्मणि निष्णातः परं ब्रह्मा-धिगच्छतीति”। यस्य पुनर्वैदिक्याङ्गीतौ चित्तं नामिरमतेतेन लौकिकगीतानुस्यूतात्मोपासनङ्कार्यमित्याह।
“अपरा-न्तकमुल्लोप्यं मद्रकम्प्रकरीन्तथा। औवेणकं सरोविन्दुमुत्तरङ्गी-तकागि च। ऋग्गाथापाणिकादक्षविहिता ब्रह्मगीतिका। गेयमेतत्तदभ्यासकरणान्मोक्षसंज्ञितम्” या॰। अपरान्त-कोल्लोप्यमद्रकप्रकर्य्यौवेणकसरोविन्दुसहितञ्चोत्तरमित्येतानिप्रकरणाख्यानि सप्त गीतकानि। चशब्दादासा-रितवर्द्धमानकादिमहागीतकानि गृह्यन्ते। गाथाद्या-श्चतस्रोगीतिका गृह्यन्ते। ऋग्गाथाद्याश्चतस्रोगी-तिकाइत्येतदपरान्तकादिगीतजातमध्यारोपितात्ममवम्मोक्षसाधनत्वान्मोक्षसंज्ञितं मन्तव्यम् तदभ्यासस्यैकाग्रता-पादनद्वारेणार्मैकतापत्तिकारणत्वात्। किञ्च।
“वीष्णा-वादनतत्त्वज्ञः श्रुतिजातिविशारदः। तालज्ञश्चाप्रया-सेन मोक्षमार्गं नियच्छति” या॰। भरतमुनिप्रतिपादितवीणायादनतत्त्ववेदी श्रूयत इति श्रुतिर्द्वाविंशतिविधा स-प्तस्वरेषु। तथा हि षड्जमध्यमपञ्चमाः प्रत्येकं चतुः-श्रुतय ऋषभधैवतौ प्रत्येकन्त्रिश्रुती। गान्धारनिषादौप्रत्येकं द्विश्रुती इति। जातयस्तु षड्जादयः सप्त श्रुद्धाःसङ्करजातयस्त्वेकादशेत्येवमष्टादशविधास्तासु विशारदःप्रवीणः तालैति नीतप्रमाणङ्कथ्यते तत्खरूपज्ञश्चतदनुविद्धब्रह्मोपासनतया तालादिभङ्गभयाच्चित्तवृत्ते-रात्मैकाग्रतायाः सुकरत्वादल्पायासेनैव सुक्तिपथन्नियच्छतिप्राप्नोति। चित्तविक्षेपाद्यन्तारायोपेतस्य गीतज्ञस्य फला-न्वरमाह।
“गीतज्ञोयदि योगेन नाप्नोति परमम्पदम्। [Page0724-a+ 38] रुद्रस्यानुचरोभूत्वा सह तेनैव मोदते” या॰। गीतज्ञोयदि-कथञ्चिद्योगेन परमम्पदन्न प्राप्नोति। तर्हि रुद्रस्य सचिवो-भूत्वा तेनैव सह मोदते क्रीडति” मिता॰। विवृतिर्गानशब्दे। ( सुखं दुःखञ्च न प्रतिनियवविषयजन्यं व्यक्तिभेदेनकालभेदेन देशादिभेदेन च सुखहेतोरपि दुःखहेतुत्वंदुःखहेतोरपि सुखहेतुत्वम्। तथा हि खलादिं प्रतिसाधुभिरुक्तस्य विनयवाक्यस्यापि तं प्रति दुःखहेतुत्वं कथ-मन्यथा तस्य श्रवणात् खलादेरहितकर्म्मणि प्रवृत्तिः स्यात्एवं वैरिणं प्रत्यपि सामवादस्य दुःखहेतुत्वम् एतदा-शयेनैव
“सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः” इतिमाघे वर्णितम्। तथा चन्द्रकिरणनलिनभ्रमरध्वन्यादेरन्यत्रसुखकरस्यापि विरहिणं प्रति दुःखहेतुत्वम्,। एवंदुःखहेतो-र्विष्ठाहारादेरपि शूकरं प्रति सुखकरत्वम् इति तत्र न वस्तुनियमः। अतएवोक्तम्
“विषमप्यमृतं क्वचिद्भवेदमृतं वाविषमीश्वरेच्छया। हिमसेकविपत्तिरुत्र मे नलिनी पूर्व्व-निदर्शनं गता” रघुः एवं कालभेदेऽपि सुखदुःखकरयो-र्विपर्य्ययः यथा शोतकाले दुःखहेतोः ग्रीष्मे सुखहेतुत्वम्एवमग्न्यादितापस्य शीतकाले सुखकरस्य ग्रीष्मे दुःखकरत्वम्एवं देशभेदेऽपि यथा तिन्तिद्यादेरन्यत्र सेवने रोगादिदुःखदत्वं क्षारदेशे तु सुखकरत्वम् अतएवोक्तं
“किमाश्चर्य्यं क्षारदेशे प्राणदा यमदूतिकेति” यथा चवस्तुमात्रस्य त्रिगुणात्मकत्वात् व्यक्तिभेदेन कालादि-भेदेन च सत्त्वरजस्तमसां समुद्रेकात् विपर्य्यस्तरूपता-पत्तिः तथा प्रागुक्तसांख्वतत्त्वकौमुदी वाक्ये स्पष्टैव। अतएव रसादौ लोकसिद्धकारंणविपर्य्ययः” सा॰ द॰ उक्तः यथा
“हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात्। शोकहर्षा-दयो लोके जायन्तां नाम लौकिकाः। अलौकिकविभा-वत्वं प्राप्तेभ्यः काव्यसंश्रयात्। सुखं सञ्चायते तेभ्यःसर्व्वेभ्योऽपीति का क्षतिः। ये खलु रामवनवासादयोलोके दुःखकारणानि इत्युच्यन्ते त एव हि काव्य-नाट्यसमर्पि ता अलौकिकविभावनव्यापारवत्तया कारण-शब्दवाच्यत्वं विहायालौकिकविभावशब्दवाच्यत्वं भजन्ते। तेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते। अतश्च लौकिकशाकहर्षादिकारणेभ्यो लौकिकशोकहर्षादयोजायन्ते इति लोक एव प्रतिनियमः। काव्ये पुनः
“सर्व्वेयोऽपि विभावादिभ्यः सुखमेव जायते” इतिनियमान्न कश्चिद्दोषः। कथं तर्हि हरिश्चन्द्रादिचरितस्यकाव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपातादयो जायन्तै-[Page0724-b+ 38] त्युच्यते। अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः”। ( वैषयिकसुखेषु काव्यादिरसास्वादसुखमतीवचमत्कारा-धायकतया ब्रह्मानन्दतुल्यमित्यालङ्कारिका मन्यन्ते यथोक्तम्” सा॰ द॰।
“सत्वेद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः। वेद्या-न्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः। लोकोत्तरचमत्कार-प्राणः कैश्चित् प्रमातृभिः। स्वाकारवदभिन्नत्वेनायमाखा-द्यते रसः। रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते। इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्म्मःसत्वं तस्योद्रेकः रजस्तमसी अभिभूयाविर्भावः। अत्र चहेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम्। अखण्ड इत्येकएवायं विभावादिरत्यदिप्रकाशलक्षणचमत्कारात्मकः। अत्र हेतुं वक्ष्यामः। स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या!चिन्मय इति स्वरूपार्थे मयट्। चमत्कारश्चित्तविस्तार-रूपो विस्मयापरपर्य्यायः”।
“रसे सारश्चमत्कारः सर्व्व-त्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः”।
“पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिंमिति”। यद्यपि
“स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशारसस्यास्वादानतिरिक्तत्वगुक्तं तथापि
“रसः खाद्यते” इतिकाल्पनिकं भेदमुररीकृत्य कर्म्मकर्त्तरि वा प्रयोगः। तदुक्तम्।
“रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रस” इति च।
“आनन्दजाश्रुभिरनुस्रियमाणमार्गान्”
“स तमान-न्दमविन्दत द्विज” इति च नैषधम् एवं तत्रत्यसर्व्वसर्गेषुउपान्तिमश्लोकेषु उदा॰।
“आनन्दाद्ध्येव प्रजाः प्रजायन्तेआनन्देन जीवन्ति आनन्दे प्रविलीयन्ते” इति श्रुतिः।
५ विष्णौ।
“आनन्दीनन्दनोनन्द” विष्णुस॰।
६ आदिगुरौ-त्रिकले दगणे
७ षडिवंशैरगणै रचिते दण्डकछन्दोभेदे। आनन्दयति आ + नदि--णिच्--अच्।
८ आनन्दकरे ति॰। षष्टिसंवत्सरमध्ये अष्टाचत्वारिंशे
९ वर्षभेदे पु॰।
“निष्पत्तिःसर्व्वशस्यानां सर्वशस्यमहार्थता। घृतं तैलं समं यातिआनन्दे नन्दिनी प्रजा” ज्योति॰ तल्लक्षणम्।
१० मद्ये न॰।
११ गृहभेदे च तल्लक्ष्म गृहशब्दे वक्ष्यते।
१२ विष्णु-गणभेदे पु॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्द¦ m. (-न्दः)
1. Happiness, joy.
2. BALARAMA according to the Jaina system of many KRISHNAS and many BALARAMAS. n. (-न्दं) GOD, Supreme spirit, according to the Vedanta. f. (-न्दी) A plant, vul- garly A'kanpata. E. आङ् before नदि to be or make happy, घञ aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्दः [ānandḥ], [आनन्द्-घञ्]
Happiness, joy, delight, pleasure; आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचन T. Up. supreme bliss of felicity; आनन्द एवास्य विज्ञानमात्मानन्दात्मनो हैवं सर्वे देवाः Śat. Br.
God, Supreme Spirit (ब्रह्मन्) (said to be n. also in this sense; cf. विज्ञानमानन्दं ब्रह्म Bṛi. Up.3.9.28.).
N. of the forty-eighth year of the cycle of Jupiter.
N. of Śiva.
N. of Viṣṇu.
N. of Balarāma (according to Jaina doctrines).
N. of a cousin and follower and favourite disciple of Buddha Śākyamuni, compiler of the Sūtras.
A variety of the Daṇḍaka metre. -दा, -दी N. of two plants (Mar. भाङ्ग, रानमोगरी).
दम् Wine, liquor.
A kind of house. -Comp. -अर्णवः the delight of Brahman.-काननम्, -वनम् N. of Kāśi. -गिरिः, -ज्ञानः, -ज्ञानगिरिः N of a celebrated annotator on Śaṅkarāchārya. -ज a. caused by joy (as tears). -तीर्थः N. of Madhva, the founder of a Vaiśṇava school of philosophy. -द, -कर a. exhilarating, delighting. -करः The moon; दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः Bhāg. 1.2.18. -दत्तः [आनन्दो दत्तो येन] the membrum virile.-पटः [आनन्दजनको पटः] a bridal garment. -पूर्ण a. delighted supremely, full of bliss. (-र्णः) the Supreme Spirit. -प्रभवः semen. -भैरव a. causing both joy and fear. (-वः) N. of Śiva. -लहरिः, -री f. 'wave of enjoyment', title of a small hymn by Śaṅkarāchārya addressed to Pārvatī.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आनन्द/ आ-नन्द m. happiness , joy , enjoyment , sensual pleasure RV. AV. VS. R. Ragh. etc.
आनन्द/ आ-नन्द mn. " pure happiness " , one of the three attributes of आत्मन्or ब्रह्मन्in the वेदान्तphilosophy Veda1ntas. etc.
आनन्द/ आ-नन्द m. (in dram. ) the thing wished for , the end of the drama([ e.g. the VIth Act in the Ven2is. ]) Sa1h. 399
आनन्द/ आ-नन्द m. a kind of flute
आनन्द/ आ-नन्द m. the sixteenth मुहूर्त
आनन्द/ आ-नन्द m. N. of शिव
आनन्द/ आ-नन्द m. of a लोकेश्वर( Buddh. )
आनन्द/ आ-नन्द m. of a बल( Jain. ) L.
आनन्द/ आ-नन्द m. of several men
आनन्द/ आ-नन्द m. of a country
आनन्द/ आ-नन्द mn. N. of the forty-eighth year of the cycle of Jupiter
आनन्द/ आ-नन्द mf( आand ई). N. of two plants L.
आनन्द/ आ-नन्द n. a kind of house
आनन्द/ आ-नन्द n. (often at the beginning and end of proper names.)
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I) (च्)--a kingdom adjoining the Dundubhi hill in प्लक्षद्वीप. Br. II. १४. ३९; १७. १६.
(II)--a Satya god. Br. II. ३६. ३५.
(III)--The Lord of first kalpa consisting १०० lakhs of years by name भाव; this is the place of ब्रह्मा. वा. २१. २८.
(IV)--a son of मेधातिथि; a वर्ष after his name, in प्लक्षद्वीप. वा. ३३. ३२; Vi. II. 4. 4 and 5.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ĀNANDA : A forest on the top of the mountain Mahā- meru. It was inhabited by celestial damsels, devas, gandharvas and Maharṣis. (Chapter 93, Bhūmi Khaṇḍa, Padma Purāṇa).
_______________________________
*3rd word in left half of page 89 (+offset) in original book.
ĀNANDA (CĀKṢUṢA) : Son of Maharṣi Anamitra. It was he who was born as Cākṣuṣa, the sixth Manu. There is a story behind his birth. One day, while his mother was keeping him in her lap and caressing him the baby laughed and questioned “Oh mother why are you caressing me, but look at those two cats. They consider me as their food”. After some time one of the cats took the child away and put it in the cradle of the child of King Vikrānta. Vikrānta took the child as his for granted and reared him. At the time of Upanayana the King asked the boy to prostrate before his mother at which the boy exclaimed “Oh King, I am not your son. Your son is at some other place. By births and rebirths all of us have many mothers and so it is better to be above rebirths”. After having said so much Ānanda went to the forest and started doing penance. Brahmā appeared before him and blessing him said that he would become the sixth Manu and lead the world to righteousness. By the blessing of Brahmā Ānanda was reborn as Cākṣuṣamanu. (See under Cākṣuṣa). (Mār- kaṇḍeya Purāṇa).
_______________________________
*4th word in left half of page 89 (+offset) in original book.