आप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्तः, त्रि, (आप + क्तः ।) प्रत्ययितः । विश्वस्तः । इत्यमरः ॥ (यथा मानवे ७ । ८० । “सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेत् वलिं” ।) प्राप्तः । लब्धः । (तेभ्यः किमाप्तं मया । इति कालि- दासः ।) सत्यं । इति हेमचन्द्रः ॥ (हितः । कुशलः । “कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्म्मणि” । इति रघुवंशे ३ । १२ । सन्निकृष्टः । आत्मीयः । “असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान्” ॥ इति मनुः ३ । १२ । “आप्तान् स्वन्निकृष्टान् सहो- दरभातृमगिन्यादीन्” इति तट्टीका । बहुः । अधिकः । यथा मनुः । “यजेत राजा क्रतुभिर्व्विविधैराप्तदक्षिणैः” । “राजा नानाप्रकारान् बहुदक्षिणान् अश्वमेधा- दियज्ञान् कुर्य्यात्” । इति तट्टीका ।

आप्तः, पुं, (आप् + क्त ।) भ्रमप्रमादविप्रलिप्साकरणा- पाटवरूपदोषचतुष्टयरहितः । स च ऋष्यादिः । इति स्मृतिः । आप्तास्तावत् ॥ “रजस्तमोभ्यां निर्म्मुक्तास्तपोज्ञानबलेन ये । येषां त्रैकालममलं ज्ञानमव्याहतं सदा ॥ आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसंशयं । सत्यं वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः” ॥ इति चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त पुं।

विश्वासाधारः

समानार्थक:आप्त,प्रत्ययित

2।8।13।2।3

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः। चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त¦ त्रि॰ आप--क्त।

१ प्राप्ते

२ प्रत्ययिते विश्वस्ते।

३ यथार्थ-ज्ञानयुक्ते

४ युक्तियुक्ते च
“आप्तश्रुतिरःप्तवचनं तु” सां॰ का॰।
“आप्ता प्राप्ता युक्तेति यावत् आप्ता चासौश्रुतिश्चेति आप्तश्रुतिः श्रुतिर्वाख्यजनितं वाक्यार्थज्ञानंतच्च स्वतःप्रमाणम् अपौरुषेयवाक्यजनितत्वेन सकलदोषाशङ्कानिर्मुक्तत्वेन युक्तं भवति एवं वेदमूलकस्मृती-तिहासपुराणजनितज्ञानमपि युक्तम्। कपिलस्य कल्पादौकल्पान्तराधीतश्रुतिस्मरणसम्भवः सुप्तबुद्धस्येव पूर्व्वे-द्युरवगतार्थानामपरेद्युः। आप्तग्रहणेन चायुक्ताः शाक्य-भिक्षुनिर्ग्रन्थिकसंसारमोचकादीनामागमाभासा निराकृताभवन्ति अयुक्तत्वञ्चैतेषां विगानात् छिन्नमूलत्वात् प्रमाण-विरुद्धा{??}इधानात् कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः[Page0746-b+ 38] पशुप्रायैः परिग्राहाद्बोध्यम्” सा॰ त॰ कौ॰
“तस्मादपिचासिद्धं परोक्षमाप्तागमात् सिद्धम्” सां॰ का॰। यथार्थ-ज्ञानविशिष्टरूपाप्तेनोक्तत्वनिश्चयस्य शाब्दबोधहेतुर्त्वमितिमीमांसकाः नैयायिकास्तन्न मन्यन्ते यथोक्तं शब्दश॰ प्र॰
“साकाङ्क्षत्वादिधीरिव वाक्यार्थगोचरज्ञानवदुक्तत्वरूपस्या-प्तोक्तत्वस्यापि निश्चयः शाब्दधीहेतुरतोनैकपदार्थधर्म्मि-कोऽपरपदार्थस्यान्वयबोधोऽनुमितिः सिद्धिसत्त्वे विना-नुमित्सां तदसम्भवात् परन्त्वनुमितेरन्यएव किन्त्वसौगृहीतग्राहित्वान्न प्रमा यज्जातीयविशिष्टज्ञानत्वावच्छेदेनसमानकारनिश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवा-गृहीतग्राहित्वेन प्रमात्वात् अतएव धारावाहिकप्रत्यक्ष-व्यक्तीनां समानाकारग्रहोत्तरवर्त्तित्वेऽपि न तासां प्रमा-त्वहानिः हानिस्तु समानाकारानुभवसमुत्थानां स्मृती-नामिति जरन्मीमांसकानां समाधानं निरस्यति। नाप्तो-क्तता तु वाक्यार्थगर्भा ज्ञातोपयुज्यते। वाक्यार्थाना-मपूर्व्वत्वात् संशयेऽप्यन्वयोदयात्। यद्येकपदार्थवदपरपदा-र्थपर्य्यवसन्नस्य वाक्यार्थस्य ज्ञानवदुक्तत्वरूपाया आप्तोक्त-ताया निश्चयः शाब्दमतेः कारणं स्यात् स्यादपि तेनैवरूपेण साध्यनिश्चयेन प्रतिबन्धादेकपदार्थपक्षिकाया अप-रपदार्थानुमितेरनुत्पादो नचैवं, शाब्दधियः पूर्ब्बं वाक्या-र्थस्योपस्थित्यनियमेन तद्गर्भस्याप्तोक्तत्वस्यापि मतेरनावश्य-कत्वात् अन्यथा वेदस्याप्यनुवादकतापत्तेः एकपदार्थेऽप-रपदार्थस्थ शब्दे वाक्यार्थज्ञानवदुक्तत्वस्य संशयेऽपि शा-ब्दमतेरुत्पादाच्च। अतएवाप्तोक्तत्वस्य संशये व्यतिरेकनिश्चये वान्वयबुद्धेरनुत्पादादवश्यन्तन्निश्चयस्तत्र हे{??}तुरित्यपिप्रत्युक्तम् असिद्धेः”।

५ कुशले
“प्राजकश्चेद्भवेदाप्तः” मनुः।
“आप्तः कुशलः” कुल्लू॰।

६ सम्पूर्ण्णे
“यजेत राजा क्रतुभि-र्विविधैराप्तदक्षिणैः” मनुः

७ बब्धौ
“निग्रहात् स्वसुरा-प्तानां बधाच्च धनदानुजः” रघुः

८ जटायां स्त्री हारा॰

९ सम्बद्धे

१० लब्धे च त्रि॰ हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Trusted, confidential.
2. Gained, obtained.
3. True.
4. Apt, fit.
5. A friend.
6. Appointed.
7. Authentic.
8. Accused, prosecuted. f. (-प्ता) A twisted band or lock of hair. n. (-प्तं)
1. Quotient.
2. Equation of a degree. E. आप to obtain, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त [āpta], p. p. [आप्-क्त]

Got, obtained, gained; ˚कामः, शापः &c.

Reached, overtaken, equalled, engrossed; यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यते Bṛi. Up.3.1.3.

Reaching to, extending as far as.

Trustworthy, reliable, credible (as news &c.).

Trusty, confidential, faithful (person); कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैः R.3.12;5.39; आप्ताः सर्वेषु वर्णेषु Ms.8.63.

(a) Clever, skilful; प्राजकश्चेद्भवेदाप्तः Ms.8.294. (b) Apt, fit.

Full, complete, abundant; न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणः Rām.2.3.35. यजेत राजा क्रतुभिर्विविधैराप्त- दक्षिणैः Ms.7.79.

True, exact.

Intimate, closely related, acquainted; कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनम् U.4.17 relatives; Ms.5.11.

Appointed.

Generally received, commonly used; authentic.

Accused, prosecuted.

Reasonable, sensible.

Beneficial, useful; अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना Rām.6.9.1.

प्तः A trustworthy, reliable, or fit person; credible person or source, guarantee; आप्तः यथार्थवक्ता T. S.

A relative, friend; निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः R.12.52; कथमाप्तवर्गो$यं भवत्याः M.5; Y.1.28, 2.71; Ms.2.19;8.64.

An Arhat. -प्ता A twisted lock of hair (जटा).

प्तम् A quotient.

(In Math.) Equation of a degree. -Comp. -आगमः Proper knowledge परोक्षमाप्तागमात् सिद्धम् Sāṅ. K.6. -आधीन a. Dependent on trustworthy person. -उक्तिः f.

an augment.

an affix.

a word of received acceptation and established by usage only; see आप्तवाच् also. -काम a.

one who has obtained his desire; येनाक्रमन्त्यृषयो ह्याप्रकामाः Muṇḍa.3.1.6.

one who has renounced all worldly desires and attachments. (-मः) the Supreme Soul. -कारिन् a. doing things in a fit or confidential manner; अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः Ms.9.12. m. a trusty, agent or confidential servant; तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः Mb.3.239.17. -गर्भा a pregnant woman. -दक्षिण a. having proper or abundant gifts.

वचनम् received text or authority, revelation.

the words of a credible or trustworthy person; R.11.42, इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् 15.48.-वाक्यम् a true or correct sentence; आप्तवाक्यं शब्दः T. S.-वचनम् above. cf. आप्तश्रुतिराप्तवचनम् तु Sāṅ. K.5.-वाच् a. worthy of belief, regarded as authority, one whose words are credible and authoritative; पराति- संधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः Ś.5.25. f.

the advice of a friend or credible person.

the Vedas or Śruti; a word of authority (said to apply to Smṛitis, Ithihāsas and Purāṇas also, which are considered as authoritative evidence); आप्तवागनुमानाभ्यां साध्यं त्वा प्रति का कथा R.1.28. -श्रुतिः f.

the Vedas.

Smṛitis &c. आप्तश्रुतिराप्तवचनम् तु । Sāṅ. K.5.

आप्त [āpta] आप्य [āpya], आप्य see आप्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त mfn. reached , overtaken , met S3Br.

आप्त mfn. received , got , gained , obtained S3Br. Mn. Hit. Katha1s.

आप्त mfn. filled up , taken S3Br.

आप्त mfn. come to Naish.

आप्त mfn. reaching to , extending

आप्त mfn. abundant , full , complete

आप्त mfn. apt , fit , true , exact , clever , trusted , trustworthy , confidential Mn. R. Ragh. etc.

आप्त mfn. respected

आप्त mfn. intimate , related , acquainted MBh. R. Ragh. etc.

आप्त mfn. appointed

आप्त mfn. divided Su1ryas.

आप्त mfn. connected L.

आप्त mfn. accused , prosecuted L.

आप्त m. a fit person , a credible or authoritative person , warranter , guarantee

आप्त m. a friend

आप्त m. an अर्हत्Jain.

आप्त m. N. of a नागMBh.

आप्त n. a quotient

आप्त n. equation of a degree L.

आप्त etc. See. under आप्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpta : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p5_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpta : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 12, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


_______________________________
*1st word in left half of page p5_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आप्त&oldid=490950" इत्यस्माद् प्रतिप्राप्तम्