आभास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभासः, पुं, (आङ् + भास् + पचाद्यच् ।) सदृशः । प्रतिविम्बं । इति वेदान्तः ॥ दीप्तिः । अभिप्रायः ॥ (प्रतिविम्बादिवदवास्तवस्वरूपमविद्याकार्य्यं, मृ- षाबुद्धिः । यथा अध्यात्मरामायणे, -- “आभाषस्तु मृषाबुद्धिरविद्याकार्य्यमुच्यते । अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ आभासत्वपरं विम्बभूतमेवं त्रिधा चितिः । साभासबुद्धेः कर्त्तृत्वमवच्छिन्ने विकारिणि” ॥ तथा च पञ्चदशी ६ -- ७ । “चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः । पृथक् पृथक् चिदाभासश्चैतन्याध्यस्तदेहिनां ॥ कल्प्यन्ते जीवनामानो बहुधा संसरत्न्यमी । वस्त्राभासे स्थितान् वर्णान् यद्वदाधारवस्त्रगान्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास¦ पु॰ आभासते आ + भास अच्। उपाधितुल्यतयाभासमाने

१ प्रतिविम्बे
“आभासोरूपसूर्य्यकवत्” शा॰ सू॰
“बुद्धिवृत्तिचिदाभासौ द्वावेतौ व्याप्नुतो घटम्। तत्रा-ज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत्” वेदा॰ का॰।

२ दुष्टे हेत्वादौ
“हेत्वाभासाश्च पञ्चधा” भाषा॰।
“सव्यभिचारविरुद्धप्रकरणमसाध्यसमातीतकाला हेत्वा-भासाः” गौ॰ सू॰। पक्षसत्त्वसपक्षसत्त्वविपक्षा-सत्त्वाबाधितत्वासत्प्रतिपक्षितत्वोपपन्नोहेतुर्गमकः स इवा-भासत इति हेत्वाभासस्तेन तद्भिन्नत्वे सति तद्धर्म्म-वत्त्वम् पञ्चरूपोपपन्नत्वाभावे सति तद्रूपेणाभासमानत्वंहेत्वाभासत्वमिति फलितार्थः
“हेत्वाभासाश्च यथोक्ताः” गौ॰ सू॰। एवं प्रमाणाभासः युक्त्याभासः आग-माभासैत्यादावपि प्रामाण्याद्यभाववत्त्वे सति प्रमा-णादिरूपेणाभासमानत्वमर्थः।
“एवं बहवो विप्रतिप-न्नायुक्तिवाक्यतदाभाससमाश्रयाः सन्तः” शा॰ भा॰। [Page0754-a+ 38] तथा च यद्वाचकपदोत्तरमाभासशब्दः प्रयुज्यते तस्यदुष्टत्वंतेन गम्यते। रसाभासादावपि तिर्य्य ग्योन्यादिगत-त्वेन परनायकगतत्वेन च दुष्टत्वाद्रसाभासत्वम्। पुनरुक्त-वदाभासादौ च न दुष्टत्वम् किन्तु पुनरुक्तभिन्नत्वेनाभास-मानत्वात् वस्तुतोऽपुनरुक्त्वमेव गम्यते इत्येव तत्रविशेषः।
“रस्यत इति रस इति व्युत्पत्तिदर्शनात्भायतदाभासादयोऽपि गृह्यन्ते” सा॰ द॰ तत्र रसाभासः
“मधु द्विरेफः कुसुमैकपात्रे” इत्यादि।
“अत्र हि सम्भोगशृङ्गारस्य तिर्य्यग्विषयत्वाद्रसाभासत्वम्” सा॰ द॰।
“आपा-ततोयदर्थस्य पुनरुक्तावभासनम्। पुनरुक्तवदाभासः” सा॰द॰। भावे घञ्।

३ तुल्यप्रकाशे। आभा-स्यतेऽनेन आ + भास--णिच्--करणे अच्। ग्रन्थावतार-णार्थं

४ ग्रन्थाभिप्रायवर्ण्णने व्याख्यानांशभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास¦ m. (-सः)
1. Light.
2. Reflexion.
3. Intention, purpose.
4. (In logic) Fallacy, semblance of a reason, an argument that is erro- neous though plausible: it is classed as of various kinds. E. आङ् before भास shining.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभासः [ābhāsḥ], [भास्-अच्]

Splendour, light, lustre.

A reflection; तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् Vedānta.

(a) Resemblance, likeness; oft. at the end of comp; नभश्च रुधिराभासम् Rām. &c.; चिदाभास, (b) Semblance, phantom; m; युक्तिवाक्यतदाभाससमाश्रयाः-4 Any unreal or fallacious appearance (as in हेत्वाभास); पुनरुक्तवदाभासः S. D.

A fallacy, fallacious reasoning, semblance of a reason, an erroneous but plausible argument; see हेत्वाभास; S. D.27.

An intention, purpose.

One of the nine materials of which idols are made, a marble.

A class of building.

An irreligious kind of worship; विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः प़ञ्चेमा धर्मज्ञो$धर्मवत्त्यजेत् ॥ Bhāg.7.15.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास/ आ-भास m. splendour , light R. Veda1ntas. 195

आभास/ आ-भास m. colour , appearance R. Sus3r. Bhag.

आभास/ आ-भास m. semblance , phantom , phantasm of the imagination

आभास/ आ-भास m. mere appearance , fallacious appearance Veda1ntas. S3a1n3khS3r.

आभास/ आ-भास m. reflection

आभास/ आ-भास m. intention , purpose

आभास/ आ-भास m. (in log. ) fallacy , semblance of a reason , sophism , an erroneous though plausible argument (regarded by logicians as of various kind)

आभास/ आ-भास mfn. ifc. looking like , having the mere appearance of a thing Gaut. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=आभास&oldid=491001" इत्यस्माद् प्रतिप्राप्तम्