आम

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमम्, त्रि, (आम्यते ईषत्पच्यते । आ + अम + कर्म्मणि घञ् ।) पाकरहितं । का~चा इति भाषा । तत्पर्य्यायः । अपक्वं २ असिद्धं ३ असृतं ४ । इति रत्नमाला ॥ (“आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः” । इति वैद्यकचक्रपाणिसंग्रहः ॥ “मज्जत्यामागुरुत्वाद्विट् पक्वातूत्प्लबते जले । विनातिद्रवसङ्घातशैत्यश्लेष्मप्रदूषणात् ॥ परीक्ष्यैवं पुरा सामं निरामं वा सदोषिणां । विधिनोपाचरेत्सम्यक् पाचनेनेतरेण वा” ॥ चिकित्सा यथा, -- “चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च । व्योषं हिङ्खजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥ गुडिका मातुलुङ्गस्य दाडिमस्य रसेन वा । कृता विपाचयन्त्यामन्दीपयन्त्याशु चाननं” ॥ इति चित्रकाद्यगुडिकाः । इति चरकः ॥)

आमम्, क्ली, षट्प्रकाराजीर्णरोगमध्ये रोगविशेषः । तस्य कारणरूपे । “आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः । अजीर्णं केचिदिच्छन्ति चतुर्थं रसशेषतः ॥ अजीर्णं पञ्चमं केचिन्निर्दोषं दिनपाकि च । वदन्ति षष्ठं चाजीर्णं प्राकृतं प्रतिवासरं ॥ तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटगः । उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥ इति निदानं ॥ अन्यच्च । भुक्तमन्नावशेषं यत् रसं भूयस्त्वपाचितं । गतमामाशये यस्मात्तस्मादामं तदुच्यते ॥ अन्नमन्नरसं केचित् केचिच्च मलसञ्चयं । प्रथमां दोषटुष्टिञ्च आममित्यभिधीयते” ॥ अपक्वं । यथा, -- “शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते । आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥ इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥ रोगविशेषः तल्लक्षणादि अजीर्णशब्दे द्रष्टव्यं ॥ (“उष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितं । दुष्टमामाशयगतं रसमामं प्रचक्षते ॥ आमेन तेन संपृक्ता दोषादूष्याश्च दूषिताः । सामाइत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥ स्रोतोरोधबलभ्रंशगौरवानिलमूढताः । आलस्यापक्तिनिष्ठीवमनोभेदारुचिक्लमाः ॥ लिङ्गं मलानां सामानां निरामाणां विपर्य्ययः” । इति चरकः ॥ “आमेऽजीर्ने तु बन्धश्चेत् क्षाराम्लं लघु शस्यते । पुष्पकासीशमिश्रं वा क्षीरेण लवणेन च । सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति” ॥ इति च चरकः ॥)

आमः, पुं, (अम + घञ् ।) रोगमात्रं । रोगभेदः । इति मेदिनी ॥ मलवैषम्यरोगः । इति राजनिर्घण्टः ॥ (“पिबेत् स परिकर्त्तामे मले वा दाडिमाम्बुना । विडेन लवणं पिष्टं विल्वं चित्रकनागरं” ॥ इति चरकः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम¦ पु॰। आम्यतेईषत्पच्यते आ + अम--कर्म्मणि घञ्।

१ ईष-त्पक्वे असिद्धे

२ पाकरहिते। अम--करणेघञ्।

२ रोगमात्रे। वैद्यकोक्तेषट्विधे अजीर्णे

३ रोगभेदे च आमाटोपा-पचीश्लेप्मगुल्मकृमिविकारिणाम्” सुश्रु॰। तल्लक्षणादियथा निदा॰
“आहारस्य रसः सारः योन पक्वोऽग्नि-लाघवात्। आमसंज्ञां स लभते बहुव्याधिसमा-श्रयः। आममन्नरसं केचित् केचित्तु मलसञ्चयम्। प्रथमदोषदुष्टिं वा वदन्ति बहुपिच्छिलाम्। सादनंसर्व्वगात्राणामाममित्यभिशब्दितम्”
“तेनामेन सदायुक्ता दोषा दुष्याश्च तादृशाः। तदुद्भवा आमयाश्च[Page0762-b+ 38] सामा इति बुधैः स्मृताः” तेनास्य क्लीवत्वपपि। आमस्य निदानस्वरूपभेदादि निदाने उक्तम्
“आमं विद-ग्धं विष्टब्धं तथा पित्तानिलैस्त्रिभिः। अजीर्ण्णं केचि-दिच्छन्ति चतुर्थं रसशेषतः। अजीर्ण्णं पञ्चमं केचिन्नि-र्द्दोषं दिनपाकि च। वदन्ति षष्ठं चाजीर्ण्णं प्राकृतं प्र-तिवासरम्। तत्रामे गुरुतोत्क्लेदः शोथो गण्डाक्षिकूटकः। उद्गारश्च यथाभुक्तमविदग्धं प्रवर्त्तते”। तस्य चामना-मत्वे कारणमप्युक्तम् तत्रैव।
“भुक्तमन्नावशेषं यत् रसभूतन्त्वपाचितम्। गतमामाशये यस्मात्तस्मादामं प्रचक्षते इति। ” अधिकमामाशयशब्दे वक्ष्यते। ( अपाकरूपामात् तृष्णाधिक्यं जायते तदुक्तम् सुश्रु॰।
“तिस्रः स्मृतास्ताः क्षतजा चतुर्थीं क्षयात्तथान्याम-समुद्भवा” च इत्यादिना सप्तविधास्तृष्णाविभज्य
“त्रिदो-षलिङ्गामसमुद्रवा च हृच्छूलनिष्ठोवनसादयुक्ताः। स्निग्धंतथाम्लं लवणञ्च भुक्तं गुर्वन्नमेवातितृषी-करोति” आमस्यातिसाररोगादिहेतुत्वं सुश्रुते उक्तम्आमाजीर्ण्णैः प्रद्रुताः क्षोभयन्तः कोष्ठं दोषाःसंप्रदुष्टाः सभक्तम्। नानावर्ण्णं नैकशः सारयन्तिकृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति। संसृष्टमेभिर्दोषैस्तु मल-मप्स्ववसीदति। पुरीषं भृशदुर्गन्धं पिच्छिलं चामसंज्ञि-तम्” इति आमातिसारंलक्षयित्वा। अतः सर्वातिसारास्तुज्ञेयाः पक्वामलक्षणैः तत्र लङ्घनमेवादौ पूर्व्वरूपेषुदेहिनाम्H”। तत्र लङ्घनस्य कर्त्तव्यतामुक्त्वा अनेन विधिनाचामं यस्य नैवोपशाम्यति। हरिद्रादिं वचादिं वापिबेत् प्रातः स मानवः। आमातिसारिणां कार्य्यं नादौसंग्रहणं नृणा” मित्यनेन विशेष उक्तः तेन

४ अतिसारभेदे
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते। आमं वितुंषमित्युक्तम् स्विन्नमन्नमुदाहृतमिति” स्मृतिपरिभाषितेअपक्वे

५ सतुषेऽन्ने च।
“आमं शूद्रस्य पक्वान्नं पक्वमुच्छिष्ट-मुच्यते” स्मृतिः। आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहेतथा
“आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु स दैव तु” प्रचे॰ पाकश्च अग्निसंयोगात् कालवशात् वा वस्तुपरि-णामविशेषः तत्रान्नादीनामामत्वमग्निविशेषसंयोगाभावात्। यथा आमान्नघटादेः। यद्यत् फलादि यद्यत्काले पच्यतेतत्कालात् प्राक् तस्य पाकाभावे आमत्वम् यथाम्रादेः। तथा व्रणादेरपि परिपाकाभावे आमत्वम् कालिकम्। यथा
“आमं विपच्यमानं च सम्यक् पक्वं च योभिषक्” व्रणपा-काभावे” सुश्रुतः। [Page0763-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम¦ mfn. (-मः-मा-मं)
1. Raw, undressed, unripe.
2. Unbaked, unan- nealed. m. (-मः)
1. Sickness, disease.
3. Constipation, passing hard and unhealthy excretions.
4. Grain freed from the chaff. E. अम् to be sick, घञ् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम [āma], a. [आम्यते ईषत् पच्यते; आ अम् कर्मणि घञ् Tv.]

Raw, uncooked, undressed (opp. पक्व) (oft. applied to the cow in the Veda; Rv.3.3.14.); आमान्नम् Ms.4.223; Y.1.287.

Unripe, immature; तुदन्त्या- मत्वचं दंशा मशका मत्कुणादयः Bhāg.3.31.27.

Unbaked, unannealed (as a jar); आमकुम्भ इवाम्भःस्थो विशीर्णः H.4.66.

Undigested.

म् State of being raw; शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः Bhāg.1.2.39.

Constipation, passing hard excretion.

Grain freed from chaff.

मः Disease; sickness.

Indigestion; आहारस्य रसः सारः यो न पक्वो$ग्निलाघवात् । आमसंज्ञां स लभते महाव्याधिसमाश्रयः ॥ Suśr. -Comp. -अतिसारः dysentery or diarrhœa caused by vitiated mucus in the abdomen (the excretion being in this case mixed with hard and fetid matter). आमातिसारे नो कार्य- मादौ संग्रहणं नृणाम् Suśr. -अद् a. eating raw flesh or food; आमादः क्ष्विङ्कास्त मदन्त्वेनीः Rv.1.87.7. -अन्नम् undressed rice. -आशयः [आमस्यापक्वान्नस्याशयः] 'receptacle of undigested food', the upper part of the belly to the navel, stomach. -कुम्भः a jar of unbaked clay; H.4.66. -गन्धि n. smelling of raw meat of a burning corpse. -गन्धिकम् the smell of raw meat. -ज्वरः a kind of fever; cf. स्वेद्यमामज्वरं प्राज्ञः को$म्भसा परिषिञ्चति Śi.2.54. -त्वच् a. of tender skin.

पाकः1 a preliminary stage of the disease called dropsy.

A method of mellowing or ripening a tumour; Suśr.. -पात्रम् an unannealed vessel; Av.8.1.28; विनाशं व्रजति क्षिप्रमाम- पात्रमिवाम्भसि Ms.3.179. -पीनसम् running at the nose, defluxion. -पेशाः Grains pounded in a raw condition.-मांसाशिन् m. a cannibal, an eater of raw flesh. -रक्तम् dysentery. -रसः imperfect chyme. -वातः constipation, torpor of the bowels attended with flatulence and intumescence. -शूलः pain of indigestion, colic. -श्राद्धम् a Śrāddha performed with uncooked food; आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं द्विजैः कार्यं शूद्रेण च सदैव हि ॥ Prāchetasa.

आम [āma] मा [mā] नस्यम् [nasyam], (मा) नस्यम् [अमनस्-ष्यञ्] Pain, sorrow.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आम mf( आ)n. raw , uncooked (opposed to पक्वSee. ) RV. AV. Mn. Ya1jn5. etc.

आम mf( आ)n. N. of the cow (considered as the raw material which produces the prepared milk). RV. iii , 30 , 14 , etc.

आम mf( आ)n. unbaked , unannealed AV. MBh. VarBr2S. etc.

आम mf( आ)n. undressed

आम mf( आ)n. unripe , immature Sus3r. etc.

आम mf( आ)n. undigested Sus3r.

आम mf( आ)n. fine , soft , tender (as a skin) BhP. iii , 31 , 27

आम m. N. of a son of कृष्णVP.

आम m. of a son of घृत-पृष्ठBhP. v , 20 , 21

आम mn. constipation , passing hard and unhealthy excretions Sus3r.

आम n. state or condition of being raw Sus3r.

आम n. grain not yet freed from chaff

आम n. ([ cf. Gk. ? ; Lat. ama1rus ; Hib. amh , " raw , unsodden , crude , unripe " ; Old Germ. ampher ; Mod. Germ. (Sauer-)ampfer.])

आम m. (probably identical with 1. आम) , sickness , disease L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of घृतपृष्ठ. भा. V. २०. २१.
(II)--a son of कृष्ण and (सत्या) daughter of Nagnacit. भा. X. ६१. १३. [page१-166+ २४]

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀMA : See under AVATĀRA.


_______________________________
*9th word in right half of page 87 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आम&oldid=491031" इत्यस्माद् पुनः प्राप्तिः