आमान्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमान्नम्, क्ली, (आमञ्च तत् अन्नञ्चेति कर्मधारयः ।) अपक्वान्नं । का~चाचाउल इति भाषा । तद्दानमन्त्रो यथा, -- “आमान्नं ते प्रयच्छामि फलताम्बूलसंयुतं । सघृतं परमं दिव्यं मया भक्त्या निवेदितं” ॥ इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥ * ॥ बलात् चाण्डालादिस्वामिकापक्वान्नभोजनप्राय- श्चित्तं यथा । चाण्डालान्नं भुक्त्वा त्रिरात्रमुपवसेत् सिद्धं भुक्त्वा पराकः । इति बलाद्भोजनविषयं । इति प्रायश्चित्तविवेकः ॥ त्रिरात्रमामान्नविषयं । परत्र सिद्धमित्युक्तेः । पराकमाह मनुः । “यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनं । पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः” ॥ “तेनात्रामान्ने सिद्धान्नप्रायश्चित्ततुरीयभागविधा- नादज्ञानादावपि तत्तुरीयकल्पना इति” । इति प्रायश्चित्ततत्त्वं ॥ * ॥ आमान्नद्वारा कर्त्तव्यश्राद्धानि । यथा, -- “आपद्यनग्नौ तीर्थे च चन्द्रसूर्य्यग्रहे तथा । आमश्राद्धं द्विजैः कार्य्यं शूद्रेण तु सदैव हि” ॥ इति श्राद्धतत्त्वधृतप्रचेतोवचनं ॥ अपि च । योगिनीतन्त्रे । “निरग्नेरामश्राद्धे तु अन्नं न क्षालयेत् क्वचित् । वृद्धौ च क्षालयेदन्नं संक्रमे ग्रहणेषु च” ॥ इति तिथ्यादितत्त्वम् ॥ * ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमान्न¦ n. (-न्नं) Undressed rice. E. आम and अन्न boiled rice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमान्न/ आमा n. undressed rice.

"https://sa.wiktionary.org/w/index.php?title=आमान्न&oldid=491060" इत्यस्माद् प्रतिप्राप्तम्