आम्रातक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातकः, पुं, (आम्रं तद्रसम् आ ईषत् अतति माति । अत सातत्यगमने कृञादित्वात् वुन् ।) वृक्षविशेषः । आम्डा इति भाषा । तत्पपर्य्यायः । पीतनः २ कपीतनः ३ । इत्यमरः ॥ वर्षपाकी ४ । इति रत्नमाला ॥ पीतनकः ५ कपिचूडा ६ अभ्र- वाटिकः ७ भृङ्गीफलः ८ रसाढ्यः ९ तनुक्षीरः १० कपिप्रियः ११ अम्बरातकः १२ अम्बरीयः १३ कपिचूडः १४ । इति जटाधरः ॥ तदपक्वफलगुणाः । कषायत्वं । अम्लत्वं । हृत्कण्ठहर्षणत्वञ्च । तत्पक्व- फलगुणाः । मधुराम्लत्वं । स्निग्धत्वं । पित्तकफ- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपिच । तृप्ति- बलविष्टम्भाजीर्णकारित्वम् । गुरुत्वञ्च । इति राज- वल्लभः ॥ आम्रावर्त्तः । इति राजनिर्घण्टः ॥ (यथा मार्कण्डेयपुराणे । “आम्रानाम्रातकान् भव्यान् नारिकेलान् सतिन्दुकान्” । इति । अस्य पर्य्यायो गुणाश्च । “आम्रातकः पीतनश्च मर्कटाम्रः कपीतनः ॥ आम्रातमम्लं वातघ्नं गुरूष्णं रुचिकृत्सरम् । पक्वन्तु तुवरं स्वादु रसे पाके हिमं स्मृतं ॥ तर्पणं श्लेष्मलं स्निग्धं वृष्यं विष्टम्भि वृंहणं । गुरु बल्यम्मरुत्पित्तक्षतदाहक्षयास्रजित्” ॥ इति भावप्रकाशः ॥ “आम्रातकफलं वृष्यं सस्नेहं श्लेष्मवर्द्धनं” । इति सुश्रुतः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातक पुं।
आम्रातकः-अम्बाडा
समानार्थक:पीतन,कपीतन,आम्रातक
2।4।27।2।1
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ। आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातक¦ पु॰ आम्र इवातति आम्रात् किञ्चिदूनरसफलक-त्वात् अत--ण्वुल्। (आमडा)
१ वृक्षे
२ तत्फले न॰। आम्रेण तत्फलरसेन तकते प्रकाशते आ + तक--हासेअच्। शुष्काम्ररसनिर्म्मिते (आमट्) द्रव्यभेदे तत्-करणप्रकारः भावप्र॰ उक्तः। यथा
“आम्रस्य सह-कारस्य कटे विस्तारितोरसः। घर्म्मशुष्को मुहुर्दत्तआम्रातक इति स्मृतः”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातक¦ m. (-कः) See the preceding. E. As before, कन् added.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातकः [āmrātakḥ], 1 The hog plum.
Inspissated mango juice. (Mar. साट); आम्रस्य सहकारस्य कटे विस्तारितो रसः । घर्मशुष्को मुहुर्दत्त आम्रातक इति स्मृतः ॥ Bhāv. P.
N. of a mountain.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आम्रातक m. the hog-plum , Spondias Mangifera MBh. R. Sus3r.
आम्रातक m. inspissated mango juice L.
आम्रातक m. N. of a mountain R.