आयन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयन¦ न॰ अयनमेव स्वार्थे अण् आ + अयनं वा प्रा॰ स॰।

१ सम्यगामने
“आयने ते परायणे दूर्व्वा रोहन्तु पुष्पिणीः” अ॰

१० ,

१४

२ ,

८ । अयनस्येदम् अण्। ग्रहाणांदक्षिणोत्तरगमनरूपायनस्य

२ सम्बन्धिनि त्रि॰ तच्च आयनव-लनायनदृक्कर्म्मादि ज्योतिषप्रसिद्धं तत्रायनवलनं यथासि॰ शि॰
“युतायनांशोडुपकोटिशिञ्जनी जिनांशमौर्व्या



३९

७ गुणिता विभाजिता। द्युजीवया लब्धफलस्यकार्मुकम् भवेच्छंशाङ्गायनदिक्कमायनम्”।
“ग्रहस्यसायनांशस्य कोटिज्या जिनांशज्यया गुण्या द्युज्ययाभक्ता फलस्य चापमायनं वलनं भवति यस्मिन्नयनेग्रहोवर्त्तते तद्दिक् भवति” प्रमिता॰। आयनदृक्कर्म सि॰ शि॰ उक्तं यथा।
“आयनं वलनमस्फटेषुणासंगुणं द्युगुणभाजितं हतम्। पूर्णपूर्णधृतिभिर्गृहाश्रित-[Page0771-b+ 38] व्यक्षभोदयहृदायनाः कलाः। अस्फुटेषुवलनाहतिस्तु वायष्टिहृत् फलकलाः स्युरायनाः। ता ग्रहेऽयनपृषत्कयोःक्रमादेकभिन्नककुभोरृणं धनम्”।
“ग्रहस्य यदायनं वलनंतदस्फुटशरेण संगुण्य तद्द्युज्यया भजेत्। फलमष्टा-दशशतैः

१८

०० संगुण्य यस्मिन् राशौ ग्रहोवर्त्तते तस्यनिरक्षोदयासुभिर्विभजेत्। फलमायनकला भवन्ति। अथवायनवलनकला अस्फुटेन शरेण संगुण्य यष्ट्या विभजेत्। फलमायनकलाः स्वल्पान्तरा भवन्तीत्यनुकल्पः। ग्रहोयस्मिन्नयने वर्त्तते तस्यायनस्य ग्रहशरस्य च यद्येका दिक्-तदा ता आयनाः कला ग्रहे ऋणं कार्य्याः। यदि तयो-र्भिन्ना दिक् तदा धनं कार्याः। एवं कृतायनदृक्वर्मकोग्रहो भवति। अत्रोपपत्तिर्गोले सविस्तराभिहिता। अथेहापि किञ्चिदुच्यते। क्रान्तिवृत्ते यद्ग्रहस्थानचिह्नंतद्यदा क्षितिजे लगति न तदा ग्रहः। यतोऽसौशराग्रे। शराग्रं हि कदम्बाभिमुखम्। यदोत्तरकदम्बःक्षितिजादुपरि भवति तदा तदुन्मुखेन शरेण ग्रहः क्षिति-जादुन्नाम्यते। क्षितिजकदम्बयोरन्तरं तदेवोत्तरमायनंवलनम्। यदा क्षीतिजादधः कदम्बस्तदा शरेण ग्रहोनाम्यते क्षितिजकदम्बयोरन्तरं तदा दक्षिणं वलनम्। अतो वलनवशेन ग्रहस्योन्नामनं नामनं च। उन्नामितोग्रह आदावेवोदितः। नामितः पश्चादुदेष्यति। स चकियता कालेनेति तदायनं त्रैराशिकेन। यदि त्रिज्या-तुल्ये कर्णेकदम्बक्षितिजयोरन्तरकला वलनसंज्ञा लभ्यन्तेतदा अस्फुटशरतुल्ये किमिति फलं ग्रहादधोऽवलम्ब-रूपाः कला भवन्ति। ग्रहस्थानें यद्द्युज्यावृत्तं तत्र ताजीवारूपाः। तासां त्रिज्यावृत्तपरिणामायान्योऽनु-पातः। यदि द्युज्यावृत्तएतावती ज्या तदा त्रिज्यावृत्तेकियतीत्येवं याः फलकलास्ता एवासवः। फलस्य धनुःस्वल्पत्वान्नोत्पद्यत इति न कृतम्। तैः क्रान्तिवृत्तेपरिणामायान्योऽनुपातः। यदि निरक्षोदयासुभी राशिकलाअष्टादश शतानि लभ्यन्ते तदैभिरसुभिः किमिति फलं क्रा-न्तिवृत्तपरिणताः कला भवन्ति। यदोत्तरं किल त्रलनमुश्रुरश्चविक्षेपस्तदा तेन विक्षेपेणोन्नामितो ग्रहो यावत् तितिजंनीयते तावत् क्रान्तिवृत्तग्रहस्थामात् पृष्ठतः क्रान्तिवृत्तंक्षितिजे लगति तदेव स्थानं कृतदृक्कर्मको ग्रह। किंबहुना गोले क्रान्तिमण्डले यथास्थानं विमण्डलं विन्यस्यतत्र ग्रहं च दत्त्वा चिह्नं कार्यम्। अथ ध्रुवाद्ग्रहोपरिनीयमानं वृत्ताकारं सूत्रं यत्र क्रान्तिवृत्ते लगति तत्र[Page0772-a+ 38] कृतदृक्कर्मको ग्रहः। एवं ध्रुवान्नीयमानेन सूत्रेण शरकृतंत्र्यस्रं भव्ति। क्रान्तिवृत्तग्रहस्यानादग्रतः पृष्ठतो वाआयनकलातुल्येऽन्तरे तत् सूत्रं क्रान्तिवृत्ते लगति। अत आयनकला भुजः, अस्फुटःविक्षेपः कोटिः, शरा-ग्रक्रान्तिवृत्तयोरन्तरे यावत् सूत्रखण्डं स तत्र कर्णः। एतत् त्र्यस्रं वलनत्र्यस्रसंभवम्। अतस्त्रैराशिकेन वलन-कलानामानयनम्। यदि यष्टिकोट्या वलनकलाभुजोलभ्यते तदा अस्फुटविक्षेपकोट्या किमिति फलमायन-कला इति सर्वमुपपन्नम्” प्रमिताक्षरा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयन [āyana], Ved. Coming, approaching.

आयन [āyana], a. Belonging to the solistice (as in उत्तरायण, दक्षिणायन).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयन/ आ n. coming , approaching RV. AV. VS.

आयन/ आ n. (for 2. आयनSee. s.v. )

आयन mfn. (fr. अयन) , belonging to the solstice Comm. on Su1ryas.

आयन mfn. (for 1. आयनSee. under आय.)

"https://sa.wiktionary.org/w/index.php?title=आयन&oldid=491109" इत्यस्माद् प्रतिप्राप्तम्