आयुस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुः, [स्] क्ली, (एति गच्छतीति इण् + उसि + णिच्च ।) जीवितकालः । परमायुः । इत्यमरः ॥ तत्- पर्य्यायः । विजीवितं २ नित्यगः ३ अनुबन्धः ४ । “पुरुषाः सर्व्वसिद्धाश्च चतुर्वर्षशतायुषः । कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” ॥ इति वैद्यकं ॥ “अरोगाः सर्व्वसिद्धार्थाश्चतुर्व्वर्षशतायुषः । कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः” ॥ इति मनुः १ । १८३ ॥ घृतं । इति राजनिर्घण्टः ॥ (“नाभिस्थः प्राणपवनः स्पृष्ट्वा हृत्कमलान्तरं । कण्ठाद्वहिर्विनिर्याति पातुं विष्णुपदामृतं ॥ पीत्वा चाम्बरपीयुषं पुनरायाति वेगतः । प्रीणयन् देहमखिलं जीवयन् जठरानलम् ॥ शरीरप्राणयोरेवं संयोगादायुरुच्यते” । इति शार्ङ्गधरः ॥ “शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितं । नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते” ॥ इति । “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले । सन्ति पुनरधिकोनवर्षशतजीविनो मनुष्याः । तेषां विकृतिवर्ज्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्ष- णतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत” । “तन्त्रेण तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव तत्र शरीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समन्वागतबलवीर्य्यपौरुष- पराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदाये वर्त्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य स- मृद्धसर्व्वारम्भस्य यथेष्टविचारणात् सुखमायु- रुच्यते” । इति च । “असुखमतो विपर्य्ययेण हितैषिणः पुनर्भूताना- म्परस्वादुपरतस्य सत्यवादिनः शमपरस्य परी- क्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहत- मुपसेवमानस्य पूजार्हसम्पूजकस्य ज्ञानविज्ञानोप- शमशीलस्य वृद्धोपसेविनः सुनियतरागरोगेर्ष्या- मदमानवेगस्य सततं विविधप्रदानपरस्य तपो- ज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमि- मञ्चासुञ्चापेक्षमाणस्य स्मृतिमतो हितमायु- रुच्यते” । इति च ॥ “अहितमतो विपर्य्ययेण प्रमाणमायुषस्त्वर्थेन्द्रिय- मनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यते अ- निमित्तैरिदमस्मात् क्षणान्मुहूर्त्ताद्दिवसात्त्रिपञ्च- दश-सप्तदश-द्वादशाहात् पक्षान्मासात् षण्मा- सात् संवत्सराद्वा स्वभावमापत्स्यते इति । तत्र- स्वभावः प्रवृत्तेरुपरमो मरणमनित्यतानिरोध- इत्येकोऽर्थः । इत्यायुषः प्रमाणमतो विपरीतम- प्रमाणम्” । इति च ॥ “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले तस्य नि- मित्तं प्रकृतिगुणात्मसम्पत् सात्मोपसेवनञ्चेति” । इति च चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस् नपुं।

जीवावच्छिन्नकालः

समानार्थक:आयुस्,जीवितकाल

2।8।120।1।1

आयुर्जीवितकालो ना जीवतुर्जीवनौषधम्.

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस्¦ न॰ इण--असि णिच्च। जीवितकाले
“आयुरारोग्यमतुलं देहि देवि! नमोऽस्तुते” देवीस्तुतिः।
“आयुर्देहातिगैःपीतं रुधिरं च पतत्त्रिभिः” रघुः।
“चतुर्थमायुषोभाग-मुषित्वाद्यं गुरौ द्विजः। द्घितीयमायु षोभागं कृतदारो-गृहे वसेत्” मनुः
“समारुरुक्षुर्दिवमायुषः क्षये” रघुः।
“आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत्” भट्टिः।
“अष्टमंचायुषः स्थानमष्टमादष्टमञ्च यत्” इति पराशरोक्तेःजन्मलग्नावधिके अष्टमस्थाने तृतीयस्थाने च तद्विवेच्यम्। स्थानविशेषे च ग्रहविशेषयोगदृष्ट्यादिवशात् आयुर्विशेषःअष्टमस्थाने चिन्तनीयपदार्थसहितः” सर्वा॰ चिन्ता॰ दर्शितः। यथा
“मरणाज्जीवितमरणं गुप्तस्थानं च मरणहेतुञ्च। अन्त-सुखमरणदेशं परिभवमपि चिन्तयेत् प्राज्ञः। रन्ध्रेश्वरे पापयु-तेऽन्त्यराशावल्पायुरस्येति वदन्ति पष्ठे। तत्रापि लग्नेश्वर-योगजाते त्वल्यायुरस्येति वदन्ति सन्तः। स्वक्षेत्रसंस्थे सतिरन्ध्रनाथे दीर्घायुराह्र्मुनयोमहान्तः। मन्देन वा चिन्त्य-मशेषमायुः स्वक्षेत्रमित्रोच्चगृहस्थितेन। रन्धेश्वरे णापियुते विलग्ननाथे रिपौ वा व्ययराशियुक्ते। षष्ठान्त्यपे वायदि लग्नयुक्ते दीर्घायुरभ्येति शुभेक्षितश्चेत्। कर्मेश्वरेणापिविचिन्त्यमायुर्दीर्घं सुहृस्वोच्चयुतेन तेन। केन्द्रस्थितैः कर्म-विलग्नरन्ध्रनाथैस्तथैवायुरुदाहरन्ति। प्रोक्तग्रहैर्व्योमचरै-स्त्रिभिर्वा सभानुजैः केन्द्रगतैस्तथैव। स्वक्षेत्रकोणादिग-तैर्विशेषाद्वदन्ति दीर्घायु रुदारचित्ताः। चतुरस्त्रे शुभैर्युक्तेलग्नेशे शुभसंयुते। गुरुणा दृष्टिसंयोगे पूर्णमायुर्विनि-र्दिशेत्। केन्द्रान्विते विलग्नेशे गुरुशुक्रसमन्विते। ताभ्यांनिरोक्षिते वापि दीर्घमायुर्विनिर्दिशेत्। त्रिषडायगताःपापाः शुभाः केन्द्रत्रिकोणगाः। लग्नेशे बलसंयुक्तेपूर्णमायुर्विनिर्दिशेत्। षट्सप्तरन्ध्रभावेष शुभेशसहितेषुच। त्रिषडायेषु पापेषु पूर्णमायुर्विनिर्दिशेत्। रन्द्र धिपेविलग्नस्थे गुरुशुक्रेक्षिते युते। लग्नेशे केन्द्रराशौ वा दीर्घ-मायुर्विनिर्दिशेत्। रन्ध्राधिपे तु केन्द्रस्थे गुरुशुक्रेक्षितेयुते। लग्नेशे बलसंयुक्तेदीर्घमायुर्विनिर्दिशेत्। लग्नाधिपोयदा केन्द्रे लग्नादेकादशालये। सर्वग्रहकृतं रिष्टमेकोऽपिविलयं नयेत्। उच्चान्वितैस्त्रिभिः खेटैर्लग्नरन्ध्रेशसंयुतैः। रन्धे पापविहीनैस्तैर्दीर्घमायुर्विनिर्दिशेत्। रन्ध्रस्थतैस्त्रिभिःखेटैः स्वोच्चमित्रस्वगेहगैः। लग्नेशे वलसंयुक्ते दीर्घमा॰। प्रारावताटिभागस्थाः पापाः सर्वे शुभास्तथा। केन्द्रत्रिको-[Page0785-b+ 38] णनिलयाः पूर्ण्णमायुर्विनिर्दिशेत्। षष्ठाष्टमव्यये पापालग्नेशे दुर्बले यदि। अल्पायु रनपत्यो वा शुभदृग्योगव-र्जिते। क्रूरषष्ठांशके वापि रन्ध्रेशे भानुजेऽपि वा। पापा-न्विते पापदृष्टेत्वल्पमायुर्विनिर्दिशेत्। चतुष्टयगते पापे शुभ-दृष्टिविवर्जिते। बलहीने विलग्नेशे त्वल्पमायुर्विनिर्दि-शेत्। व्ययार्थौ पापसंयुक्तौ शुभदृष्टिविवर्जितौ। क्रूरषष्ठांशगौवापि स्वल्पमायुर्विनिर्दिशेत्। आयुर्योगस्त्रिधा प्रोक्तः स्व-ल्पमध्यचिरायुषः। द्वात्रिं शत्पूर्व्वमल्पायुर्मध्यमायु स्ततोभवेत्। सप्तत्याः प्राक्, ततः पूर्णमायुरत्र वदन्ति हि। अल्पायुर्दिननाथस्य शत्रौ लग्नाधिपे यदा। समत्वे मध्य-मायुः स्यान्मित्रे दीर्घायुरादिशेत्। बलहीने विलग्नेशेजीवे केन्द्रत्रिकोणगे। षष्ठाष्टमव्यये पापे मध्यमायुरुदाहृ-तम्। शुभे केन्द्रत्रिकोणस्थे शनौ बलसमन्विते। षष्ठेवाप्यष्टमे पापे मध्यमायुरुदाहतम्। लग्ने त्रिकोणे केन्द्रेवा मध्यमायुश्च मिश्रिते। अल्पायुर्योगजातानां विपत्पा-के मृतिप्रदः। मध्यमे प्रत्यरिभेशान्मृतिं दद्याद्विशेषतः। अष्टमेशदशा कष्टा पूर्ण्णायुर्योगसंज्ञके। योगायुरि ति नि-श्चित्य जातस्यैवं वदेद्बुधः। आयुर्विलग्नाधिपती बलेनहीनौ धरासून्वहितेशयुक्तौ। युद्वे मृतिं तस्य वदन्तितज्ज्ञाः शस्त्रेण वा तन्मरणं विशेषात्। रन्ध्राङ्गनाथौ यदिवा रिपुस्थौ राह्वन्वितौ केतुयुतौ ससूनू। व्रणेन युद्वे मृ-तिमाहुरार्याः शस्त्रेण वा तन्मरणं विशेषात्। रन्ध्राङ्ग-नाथौ यदि वा रिपुस्थौ राह्वन्वितौ केडयुतौ समन्दौ। तद्भुक्तिकालेऽप्यथ वा विपाके शस्त्रेण चौरैर्मरणं प्रयाति। रन्ध्राङ्गपौ वाहननाथयुक्तौ तस्मान् मृतिं तस्य वदन्तितज्ज्ञाः। मृतिं त्वजीर्णाद्गुरुसंयुतौ तौ देहेशजीवौ रि-पुगावजीर्णात्। लग्नेश्वरे वाहननाथयुक्ते वागीश्वरे-णापि युते त्वजीर्णात्। देहेश्वरे वाहनवित्तभावनाथान्विते वामरणंत्वजीर्णात्। रन्ध्रेशयोगान्मरणं दशायामन्तर्दशायामथवा वदन्ति। पित्रादिभावाधिपयोगदृष्ट्या पित्रादिकानांमरणं तथैव। मृत्यङ्गपौ भानुसुतेन युक्तौ दुस्थानगौवा विषभक्षणेन। राहुध्वजाभ्यां सहितौ च दुस्थावुद्ब-न्धनात्तस्य मृतिं वदन्ति। षष्ठेश्वरे भानुसुते सराहुकतौमृगाद्भीतिमुदाहरन्ति। जीवेन युक्ते गजभीतिमस्य जातस्यचन्द्रेण युतेऽश्वभईतिम्। सूर्य्यान्विते तादृशभानुपुत्रे मृगात्स-शृङ्गात शुनकात् सभौमे। षष्ठस्थिते भानुसुतेऽपि चेवं वि-ना स्वतुङ्गस्वगृहं सखेटे। सुखेशभाग्येशविलग्ननाथास्त्रि-कोणगाः केन्द्रगताश्च सर्वे। भुक्तौ यदा तत्परिपाककाले[Page0786-a+ 38] पित्रा सहैवानुमृतिञ्च मातुः। रन्ध्रे शशाङ्के फणिनाथयुक्ते हीने त्वपस्मांरयुतः समन्दे। तत्र स्थिते हीनबलेशशाङ्के पिशाचपीडा च जलाद् द्विपाच्च। भौमाहि-मन्दान्यतमेन युक्ते क्षीणे शशाङ्के निधनस्थितेऽपि। दुःस्थे त्वपस्मारभयान्मृतिःस्यात्पिशाचबाधादथ वामृतिस्तु। रन्ध्रे सराहौ यदि वा सकेतौ चातुर्थिका-पीडनमाहुरस्य। रन्ध्रेश्वरेणापि युते तथैव क्रूरादि-षष्ठांशयुते तु सत्यम्। नीचस्थिते वाऽमरनायके वाषष्ठाष्टमस्थे यदि पापदृष्टे। राज्ञां प्रकोपान्मरणंपितुश्च तत्पीडया वित्तविनाशमेति”। अधिकमल्पायुः-शब्दे

४१

३ पृष्ठे उक्तम्। अस्य पुरुषादिपूर्ब्बपदकत्वे अच्समा॰
“पुरुषायुषजीविन्यः” रघुः त्र्यायुषम् मनुष्यायुषमित्यादौ बा॰ अच् समासान्तः। ( आयुर्योगश्च सर्व्वा॰ चि॰ दर्शितः यथा
“अथायुर्योगः। केचिद्योगं प्रशंसन्ति दशां केचिद्वदन्ति हि। तद्विना चायुषांज्ञानं न शक्यन्तु मनीषिभिः। त्रिविधश्चायुषो योगः स्व-ल्पायुर्मध्यमोत्तमः। द्वात्रिं शत्पूर्व्वमल्पन्तु तदूर्ध्वं मध्यमंभवेत्। आ सप्ततेस्तदूर्ध्वन्तु दीर्घायुरिति सम्मतम्। उत्तमायुः शतादूर्ध्वं मुनेः शंसन्ति तद्विदः। आ द्वा-दशाब्दाज्जन्तूनामायुर्ज्ञानं न शक्यते। जपहोमचिकित्साद्यैर्वालरक्षां तु कारयेत्। पित्रोद्देशैर्मृताः केचित्केचिद्बालग्र हैरपि। अपरे रिष्टयोगाच्च त्रिविधाऽकालमृत्यवः। जन्मतः प्रबलेनैव बालानां पुष्टिवर्द्धनम्। कथयेदवशेषं तुतथा योगोनिरूपितः। अल्पायुर्लग्नपे भानौ शत्रौ मध्यंतु मध्यमे। मित्रे लग्नेश्वरे तस्य दीर्घमायुरुदाहृतम्। अल्पायुर्योगजातस्य विपत्तारे मृति” वदेत्। जातस्य मध्यमेयागे प्रत्यरौ तु मृतिर्भवेत्। दीर्घायुर्योगजातानां बधभे तुमृतिर्भवेत्। त्रिषु योगेषु सर्वेषु प्रत्येकं त्रिविधं भवेत्। अल्पायुरल्पमध्यं तु पूर्ण्णायुस्त्रिविधं स्मृतम्। मध्यमादल्पमध्यंतु पूर्ण्णायुस्त्रिविधं भवेत्। दीर्घायुषोऽल्पमध्ये तु पूर्ण्णायुस्त्रि-विधं भवेत्। एवन्नवविधं प्रोक्तमायुषां तु विनिर्णयः। पञ्च-म्याराद्दशा मृत्युं दद्यात् षष्ठी गुरोस्तथा। शनेश्चतुर्थान्मृत्युःस्याद्दशा राहोश्च सप्तमी। विपद्भेशदशा कष्टा प्रत्यरीश-दशा तथा। बधभेशदशा कष्टा पापा स्यादशुभेक्षिता। नीचारातिविमूढस्था विपत्प्रत्यरिनैधनाः। दशा दद्युर्मृतिंतस्य पापैयुक्ता विशेषतः। राशिसन्धिषु ये जातास्ते बालामृतजीविनः। पापदृष्टो युतोवाऽपि निःसंशयमृति प्रदः। गण्डान्तेषूद्भवो मर्त्यः पितृमातृबलात्ततः। यदि जीवेत्स्व-[Page0786-b+ 38] र्गपालो गजवाजिसमन्वितः। तृतोयगौ भानुनिशाकरौवा क्रूरर्क्षगौ क्रूरनिरीक्षितौ च। व्याधिं नरस्यापिवदन्ति तजज्ञास्त्रिवर्षमात्रं त्वविलम्बमेतत्। चन्द्रात् स्मरे-वासरनाथभौमौ कुजादयो वा मरणं दशाहात्। उद्यद्रेष्काणजामित्रे यस्व स्याद्दारुणो ग्रहः। क्षीणचन्द्रे विलग्नस्थेसद्योहरति जीवितम्। आपोक्लिमे स्थिताः सर्वे ग्रहाबलविवर्ज्जिताः। एकमासं द्विमासं वा तस्यायुः समुदाहृतम्। विलग्नाधिपतिर्नीचे निधने चार्कसंयुते। कृच्छ्रेण जीवनंविन्देन्मृतप्रायो भविष्यति। केतोरुदयः पूर्ब्बे पश्चादु-क्लाग्निपवननिर्घातः। रौद्रे सति च मूहर्त्ते प्राणेभ्य-स्त्यज्यते जन्तुः। ग्रहणपरिवेशकाले जातः पापान्वितेविलग्नस्थे। लग्नेशे बलहीने जीवति पक्षत्रयंत्रिमासं वा। अंशाधिपतिर्जन्मपतिर्लग्नपश्चास्तमुपागतोयस्य। लग्नावसानमरणं भवेत् कतिपयाहेन। सन्धि-चतुष्टयकाले जाते मृत्युं समादिशेत्तज्ज्ञः। पापयुतेदृष्टे वा शीघ्रैः सौम्यैरदृष्टयुते। राहौ केन्द्रे पापयुक्ते-क्षिते वा क्षिप्रं नाशं याति सौम्यैरदृष्टे। पापैः केन्द्रेवार्कलग्ने त्रिकोणे सौम्यैः षष्ठे चाष्टमेऽन्त्ये वदन्ति। जातःक्षोणे शीतगौ लग्नसंस्थे पापैर्दृष्टे नाशमाशु प्रयाति। उच्चक्षेत्रे मेषराशिं च हित्वा राहुर्युक्तस्तेष्वपि प्राण-नाशः। लग्नात्स्वान्त्यौ पापयुक्तौ यदि स्तस्तत्षष्ठान्त्ये वाविनश्येन् क्षणेन। लग्नाद्बाले चाष्टमे पापचारैः सोमे क्षी-णे त्वष्टमाब्दं च जीवेत्। केन्द्रैश्चन्द्रात्पापयुक्तैरसौम्यैःस्वर्गे यानं प्रोच्यते वत्सरेण। जन्माधिपे लग्नगे क्रूर-युक्ते पश्यत्यार्किश्चाष्टमे जीववर्गे। षष्ठे वर्षे द्वादशे वाऽष्टमेवा सन्धौ राशेर्जातको मृत्युमेति। षष्ठेऽष्टमे वा हिमगौच यस्य क्षीणे चन्द्रे पापयुक्तेऽथ वापि। सौम्यैर्दृष्टे त्वष्ट-माब्दञ्च जीवेत् पापैः सौम्यैर्मिश्रितैस्तद्दलं स्यात्। जीवे-विलग्ने मिथुने तुलायां शुक्रेण युक्ते शशिसूनुना च। पापैर्दृष्टे मृत्युराशिस्थिते वा जीवेद्वर्षं चाष्टमं चैच बालः। लग्ने क्षीणे शशिनि निधनं रन्ध्रकेन्द्रेषु पापैः पापा-न्तःस्थे निधनहिवुके द्यूनयुक्ते च चन्द्रे। एवं लग्ने भवतिमदनच्छिद्रसंस्थे च पापे मात्रा साकं यदि च न शुभैर्वीक्षितःशक्तिमद्भिः। राहुग्रस्ते शीतरश्मौ विलग्ने क्रूरे युक्तेचाष्टमे भूमिपुत्रे। मात्रा साद्धं चन्द्रवद्भास्करेण ग्रस्तोवा तेनाशु मृत्युं प्रयाति। अस्तङ्गते दनपतौ रविजेविलग्ने भौमे ऽथ वापि निधनं ब्रजति त्रिवर्षात्। एवं स्थितेऽपि हिमगावशुभैरदृष्टैराशुग्रहे च नियत्[Page0787-a+ 38] भवतीह चाष्टौ। वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमा-र्कजदृष्टमूर्त्तिः। अन्यैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्राप-यति प्रसूतम्। वक्री शनिर्भौमगृहं प्रयातश्छिद्रे चषष्ठे च चतुष्टये वा। कुजन संप्राप्तबलेन दृष्टो वर्षद्वयंजीवयति प्रजातम्। सौरिस्मरस्थे यदि वा विलग्ने जन्म-स्थलग्ने शशिदुश्चिके वा। सौम्येषु केन्द्रोपगतेषु सद्योजातस्यमृत्युर्यवनोपदिष्टः। नीचस्थे देवपूज्ये तु भौमक्षेत्रगते-ऽथ वा। सन्धित्रयेऽपि जातस्तु मासान्मृत्युं स गच्छति। नक्षत्रसन्धौ तिथिराशिसन्धावेकत्र तावत्प्रसवस्त्रिपक्षात्। जातश्च मृत्युं समुपैति सद्यः शुक्रेऽह्नि जीवेदिति नन्दि-कोक्तम्। षष्ट्यां जातश्चार्कलग्ने कुजे वा गण्डान्ते वामृत्युयोगेऽथ वापि। भौमे हन्ति प्राणिनां तत्क्षणेन जीवे-क्षिते चेन्न भवेत् प्रजातः। भौमोदये तद्दिवसे कृशेन्दौहोरेश्वरे वारभूते शशाङ्के। जातः सुखी ब्रह्मपदंप्रयाति प्रसाधनाद्यैरिह मन्त्रसिद्ध्या। वर्गोत्तमे लग्न-गते कुलीरे केन्द्रे गुरौ भूमिसुते कलत्रे। सिंहासनांशेमृगुजे विशेषाद्रसायनाद्यैरमितायुरेति। कर्मान्त्यलग्ने स-बुधे कलत्रे जीवे यदा गोपुरभागयुक्ते। मृद्वंशके वा दिन-नाथपुत्रे जातस्त्वसंख्यायुरुपैति सूनुः। देवलोकांशकेशुके केन्द्रस्थे धरणीसुते। सिंहासनांशके जीवे केन्द्रेजातस्त्वसंख्यकः। उत्तमांशे भृगो केन्द्रे शनौ पाराव-तांशके। स्वर्गलोके गुरौ केन्द्रे त्वौषधाधारसंख्यकः। गो-पुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके। त्रिकोणे कर्कि-लग्ने तु यगान्तं स तु जीवतिः। चापांशे कर्किलग्ने चतस्मिन् देवेन्द्रपूजिते। त्रिचतुर्भिर्ग्रहैः केन्द्रे जातो ब्रह्म-पदं लभेत्। तृतीयैकादशे शुक्रे गोपुराख्यांशकान्विते। वृषेवर्गोत्तमे लग्ने ब्रह्मणः परमं पदम्। लग्ने शुक्रे गुरौकामे कर्मायेऽमरनायके। चापमेषांशके लग्ने जातो यातिपरं पदम्। पञ्चमे बुधसंयुक्ते गोपुराख्यांशकान्विते। गुरौघटे विलग्नेऽस्मिन् जातो ब्रह्मपदं लभेत्। केन्द्रे गुरौलाभगतेऽर्कपुत्रे धने रवौ मन्दयुते कलत्रे। भाग्येधरासूनुयुतेऽत्र जातो युगान्तकालं सममुपैति मन्त्रैः। त्रिकोणगौ जीवबुधौ विशेषाल्लग्ने वृषे तत्र यते धराजे। निशाकरे गोपुरभागयुक्ते जातः सहस्रद्वयवर्षमेति। पक्षे सिते जन्म यदाह्नि काले केन्द्रे गुरौ वा शशिभेविलग्ने। दारे कुजे भानुसुते सुखस्थे जातस्तु जीवे-दयुताब्दसंख्यम्। जीवमन्दारशुक्राणामन्योन्यं केन्द्रसं-भवे। त्रिकोणे वा यदा याते जातस्त्वयुतवत्सरेः। [Page0787-b+ 38] शुभैर्युक्ते चतुष्केन्द्रे पापैः षट्त्रिभवान्वितैः। सिंहलग्नेयदा जातो जीवेत् षडयुतानि सः। कर्कादिस्थैर्ग्रहैःसर्वैर्गुरुचन्द्रादिभिर्यदा। शन्यन्तैः परमोच्चस्थैर्मुनि-तुल्यो भवेन्नरः। शन्यादिभौमपर्यन्ता लग्नादौ खचराःस्थिताः। वैशेषिकांशसंयुक्ताजातस्त्वमरसंन्निभः। आकल्पंजोवति नरो मृगे लग्ने कुजादिकाः। रव्यन्ताःखचराः सर्वे स्वोच्चे जीवेऽह्नि जन्मनि। मेषान्त्यलग्नेसगुरौ भृगौ वा निशाकरे गोधनमध्यमांशे। सिंहास-नांशे यदि वा धराजे जातस्त्वसं ख्यायुरुपैति मन्त्रैः। स्थिरे रवौ सोमसुतेन युक्ते चन्द्रे वृषस्थेमिथुने च शुक्रे। गुरौ कुलीरे यदि वा विलग्ने शनौ तुलायां मुनिसा-म्यमेति। देवलोकांशके मन्दे भौमे पारावतांशके। सिंहां-शके गुरौ लग्ने जातो मुनिसमो भवेत्। मेषलग्ने रवौमाने जीवे स्वीच्चसमन्विते। त्रिषडायगते पापे जातोमुनिसमो भवेत्। इति चिन्तामणौ प्रोक्ता आयुःसंख्यामनीपिणाम् यदुक्तं पूर्ब्बकैः सर्व्वेस्तद्वदेव मयाधुना”। पारिजातांशाद्यास्तु सर्व्वा॰ चिन्त दर्शिताः।
“मूलत्रिकोण-कोणोच्चस्वर्क्षकेन्द्रोत्तमांशकाः। सप्तवर्गोद्भवाः स्वांशस्वा-धिमित्रांशमित्रकाः। वर्गा इमे दश प्रोक्ताः पूर्ब्बाचार्य्यैर्महर्षिभिः। वर्गद्वयादिसंयोगै पारिजातादिसंज्ञकाः। उत्तमं तु त्रिवर्गैक्यं चतुर्वर्गं तु गोपुरम्। वर्गपञ्चकसंयोगे सिंहासनमिहोच्यते। वर्गद्वयं पारिजातं षट्कंपारावतांशकम्। सप्तकं देवलीकाख्यं स्वर्गलोकस्तथाऽष्टकम्। ऐरावतन्तु नवकं फलं तेषां पृथक् पृथक्”। जात-कपद्धतौ तु रिष्टभङ्गसहितायुर्योगविशेषः गजाद्यायुः-प्रमाण सहित उक्तः यथा
“लग्नसप्तमगौ पापौ चन्द्रः पापयुतो यदा। शुभग्रहै र्नदृष्टः स्यादचिरान्मृत्युकारकः। क्षीणेन्दौ व्ययगे पापैर्लग्नाष्टमनिवासिभिः। केन्द्राणि शुभहीनानि यदि क्षिप्रंतदा मृतिः। पापयुक्तः शशी लग्नसप्ताष्टद्वादशस्थितः। केन्द्रान्यस्थानगैः सोम्यैर्न दृष्टो मृत्युदायकः। पापे राश्य-न्तगे सन्ध्याकाले होरा विधोर्यदा। मृत्युर्वा स्याच्चन्द्र-पापै र्युते सर्व्वचतुष्टये। कर्कान्त्यगे चक्रपूर्ब्बं पश्चार्द्धेपापदृग्युते। मृत्युर्वाष्टमैकेन्द्रस्थैः पापैः क्षीणे विधौ तनौ। षष्ठद्वादशगैः पापैरथवा द्व्यष्टसं स्थितैः। लग्ने वा पाप-मध्यस्थे सप्तमे वा मृतिं व्रजेत्। चन्द्रे षष्ठेऽष्टमे वापिमरणं पापवीक्षिते। शुभैरेवेक्षिते वर्षाष्टकान्मिश्रैस्तदर्द्धतः। शुभैः षष्ठास्तगे पापैर्बलिभिः प्रविलोकिते। मासान मृत्युः[Page0788-a+ 38] सप्तमे वा लग्नेशे पापसंयुते। तुर्य्यसप्ताष्टगश्चन्द्रः पापान्तः-स्थो मृतिप्रदः। क्षीण एवं लग्नगोऽपि पापे सप्ताष्टगेसति। शुभादृष्टे विधौ भान्ते केन्द्रकोणोपगैः खलैः। भृतिराशु सचन्द्रेऽङ्गे पापैर्वा सप्तमैः स्थितैः। सपापोऽङ्गेविधौ ग्रस्ते समातृकशिशोर्बधः। भौमेऽष्टमे रवावेवं-विधे लग्ने तु शस्त्रजः। चन्द्रार्कौ वा तनौ पापैः सबलैरष्टकोणगैः। शुभैर्न युक्तदृष्टश्चेन्मरणं वालकस्य हि। लग्नांष्टनवमान्त्येषु कुजचन्द्रार्कसूर्य्यजैः। बलिष्ठगुर्व्वदृष्टैः स्या-ज्जातस्य मरणं ध्रुवम्। पापयुक्तो विधुर्लग्नसप्तको-णान्त्यमृत्युगः। मरणाय बलिष्ठोज्ञस्त्रिकयुग् वीक्षितो नचेत्। योगकर्तृबलिष्ठेनाधिष्ठेते च बली विधः। स्वभेवा लग्नभेऽब्दान्तः पापदृष्टस्तदा मृतिः। मेषालिगो गुरु-र्मृयौ विशुक्रैरवलोकितः। त्रिवर्षान्मृत्युदोमन्दः ससूर्य्येन्दु र्नवाब्दतः। दृश्यादृश्ये सौम्यपापैर्लग्ने ऽग्नावि-पुभिमृतिः। बुधः सार्कविधुः पापदृष्ट एकादशाब्दतः। लग्नेशो रिपुगोराशिमितैर्वर्षेमृतिप्रदः। मासैर्द्रेक्काण-नाथस्तु दिवसैरंशनायकः। लग्ने शनिः षोडशाहात्पापदृष्टोऽथ संयुतः। मासाद्विशुद्धो वर्षात्तु शिशोर्मृत्युकरःस्मृतः। लग्नेऽर्ककुजमन्दाश्चेत् षष्ठे वा सप्तमे विधुः। क्षीणो न दृष्टो गुरुणा सप्तवर्षान् मृतिप्रदः। राशि-लग्नेश्वरावस्तं यातौ षष्ठाष्टरिप्फगौ। राश्यङ्कतुल्यवर्षैस्त मरणाय शिशोः स्मृतौ। राहुःपापेक्षितः केन्द्रसंस्थोमृत्युकरः शिशोः। वत्सरैर्दशभिः कैश्चित् स्मृतः षोडश-वत्सरैः। एकोऽपि पापोमृत्युस्थः शत्रुगेहे खलेक्षितः। अमरार्भकमप्येवं वर्षान्मृत्युवशं नयेत्। शुक्रः कर्कमृगा-रस्थोव्ययाष्टारिस्थितैः खलैः। सर्वैः प्रदृष्टः षड्वर्षै-र्जातस्यारिष्टकारकः। बुधः कर्कस्थितः षष्ठेऽष्टमे वा चन्द्र-वीक्षितः। वर्षैश्चतुर्भीरिष्टस्य कारकः कथितो बुधैः। सूर्य्यःकर्म्मणि शन्यारक्षेत्रस्थः पापवीक्षितः। मरणाय शिशोःकेतूदयभं जन्मभं तथा। षष्ठाष्टमस्थाः शुभदाश्च पापा-धर्म्मात्मजस्थाश्च यदा भवन्ति। पापैः प्रदृष्टा न शुभा प्रदृष्टावर्षाष्टकान्मृत्युकराः प्रदिष्टाः। लग्नपः पापयुक् द्यू ने-रिष्टकृद्धोधनस्थितः। नवाब्दैः सखलोऽब्जांशे व्यये चेन्दोःखलेक्षितः। सूर्य्यशुक्रशनीनाञ्च योगो भवति जन्मनि। गुरुदृष्टोऽपि रिष्टाय प्रदिष्टो नववत्रैः। गजैरङ्ककैर्नेत्रनेत्रैर्द्विपक्षैः शरैरेककेनाव्धिभिर्वह्निनेत्रैः। गजाब्जैर्नखैस्वर्गसंख्यैश्च दिग्भिर्विधोर्मेषतो भागवर्षैर्मृतिः स्यात्। कर्कलग्ने गरौ सेन्दौ ज्ञशुक्रौ केन्द्रगौ यदा। त्रिलाभारि-[Page0788-b+ 38] गताः शेषा इहायुरमितं स्मृतम्। आयुषो योगजस्यापिरिष्टं वाधकमत्र हि। तद्बाधकोरिष्टभङ्गः स चेद्बलिकृतो-भवेत्। शुभाश्चन्द्रात् षष्ठसप्ताष्टमस्था नो खलान्विताः। रिष्टनाशाय गदिताः प्रणामोनृहरेर्यथा। शुभद्रेष्काणगैःसर्वैः शुभैर्युक्तोविधुः शिशोः। रिष्टहा परिपूर्ण्णो वा द्वा-दशांशे शुभे स्थितः। सम्पूर्ण्णाङ्गः शर्व्वरीनायकश्चेत् सर्वैर्दृष्टोरिष्टहा संप्रदिष्टः। उच्चस्थो वा मित्रभागस्थितो वाचन्द्रारिष्टं नाशयेत् शुक्रदृष्टः। केन्द्रे ज्ञगुरुशुक्राणामेकःकोणेऽथ वीर्य्यवान्। अरिष्टनाशकः केन्द्रे पापोऽपि परमो-च्चगः। मित्रराशिगताः पापाः शुभाश्च नवपञ्चमाः। नाशंनयन्तिरिष्टानि कृष्णोरिष्टासुरं यथा। बलीजन्मेश्वरोमित्रशुभदृष्टो हि रिष्टहा। स सर्वग्रहदृष्टो हि षष्ठे रिष्टविनष्टिकृत्। वर्गोत्तमे शुभाः सर्व्वे स्वभे चारिष्टहानिदाः। शु-भवर्गगता दृष्टाः सद्दृष्टा रिष्टानष्टिदाः। कृत्तिकापुष्य-दास्रेषु चन्द्रोवाथ त्रिपुष्करे। पूर्ण्णोवर्गोत्तमगतः स्वीय-रिष्टविनाशकृत्। मेषकर्कगतश्चन्द्रः केन्द्रे शुभनिरीक्षितः। अशुभं नाशयत्याशु हरिर्मत्तगजं यथा। शुक्लपक्षे निशा-याञ्चेत् कृष्णेजन्म यदा दिवा। शुभाशुभेक्षितश्चन्द्रःषष्ठाष्टस्थोऽवकः शिशोः। व्यतीपातेऽथ गण्डान्ते वैधृतौरिष्टिसन्ध्ययोः। जातस्य रिष्टं नास्त्येव स्मृतिकर्त्तुर्मतंयथा”। इति चन्द्ररिष्टभङ्गः।
“सवीर्य्ये गुरौ लग्नगे रश्मि-युक्ते विनाशं तदैवाशुभं सर्व्वमेति”। बलिष्ठैः शुभैश्चा-शुभैर्वीर्य्यहीनैः शुभर्क्षं तनुः सद्ग्रहैर्वीक्षितं वा। त्रिष-डेकादशे राहुः शुभदृष्टो यदा भवेत्। मृत्युनाशाय स-विभुर्मृत्युञ्जय इवापरः। मेषोक्षकर्कलग्नस्थो राहुश्चाम्यु-दयो मुनेः। अगस्त्यस्य मुनीनां च सप्तानां रिष्टनाशकः। शीर्षोदयगतैः सर्वैर्मृत्युदोषो विनश्यति। प्रसन्नैः सुखदै-श्चापि नभोदिग्वह्निवायुभिः। मृत्युभं ग्रहहीनं चेत्केन्द्रे पूर्ण्णबले शुभे। त्रिंशद्वर्षं तदायुः स्याच्चत्वारिंश-च्छुभेक्षिते। गुरुः स्वभे स्वदृक्काणे सप्तविंशतिवर्षकम्। स्वभ-स्थिताः शुभाश्चन्द्रे स्वोच्चेऽङ्गस्थे स्वषट्समाः। लग्नेगुरौ शुभैः केन्द्रस्थितैर्मृत्यौ ग्रहोज्भिते। सप्तत्यब्दं भवे-दायुरष्टाङ्गे तदवीक्षिते। कर्केऽङ्गगे गुरौ कोणस्थितैः सर्व-शुभग्रहैः। अशीतिरायुषः काष्ठा केन्द्रेशुक्रे शतं समाः। सूर्य्ये बलिष्ठे पिण्डायुश्चन्द्रे स्यात्तु निसर्गजम्। लग्नेऽं-शायुर्हीणबले त्रिकेऽस्मिन् जीवशर्म्मजम्। नन्देन्दुतत्त्वतिथ्यर्कतिथिस्वर्गनखा रवेः। वर्षाण्युच्चे ग्रहे नीचे त्वर्द्धंमध्येऽनुपाततः। नखैकद्वाङ्कधृतयो विंशत्खाक्षा निस-[Page0789-a+ 38] र्गजाः। समाः सूर्य्यात् पूर्ब्बवत् स्यादेभ्योऽप्याऽयुरथांशजे। इष्टग्रहलवास्त्रिघ्ना दशभक्ताश्च यत् फलम्। वर्षमासा-दिकं ज्ञेयं भवेद् द्वादशभिः स्फुटम्। जैवे परायुःसप्तांशो ग्रहायुः परमोच्चगे। लग्नमशसमन्त्वयु-र्दद्याद्वीर्य्ययुतं च भैः। सर्वमर्द्धं तृतीयोऽंशः प्रादःपञ्चाङ्गभागकौ। व्ययाद्वामं विमीयेत पापे त्वर्द्धं शुभग्रहे। एकभावगतानां यो बली भागहरस्तु सः। अर्द्धमस्तं गतो-हन्ति त्यक्त्वा शुक्रशनैश्चरौ। कुजन्त्यक्त्वा शत्रुभस्थैस्त्रि-भागो नाश्यते निजः। लग्ने सपापैः लग्नस्थनवांश-घ्नाद्ग्रहायुषः। अष्टोत्तरः शतांशः स्याद्धीनः सौम्ये-क्षिते दलम्। उच्चचक्रगतास्त्रिघ्नं द्विघ्नं स्वांशोत्तमादिगाः। ददत्यायुर्ग्रहास्ते चेद्वृद्धौ नित्यं स्वभादिगाः। अपि त्रिद्व्येकगुणदाः केन्द्रादाविति केचन। लग्ने सपापे हानि-र्या नासावंशभवायुषि। हानिद्वयेऽधिकैव स्याद्गुणोऽप्येवंवराहगोः। खार्काःपरायुर्नरदन्तिनोः

१२

० स्याद्दन्ता

३२ हयानां च जिना

२४ वृषादेः। खरोष्ट्रयोस्तत्त्वसमाः

२५ शुनोऽर्का

१२ व्याघ्राद्यजादेर्हिनृपाः

१६ परायुः। आयुर्नृवत् समानीय स्वस्वपूर्ण्णायुषा हतम्। गृपरायुर्हृतंस्पष्टं गजाद्यायुर्भवेदिति। दीपस्तैलादियुक्तोऽपि यथावाते विनश्यति। अजितेन्द्रियतापथ्यैरेवमायुर्विनश्यति”। ( अत्र हयानां दन्तैर्यथायुर्ज्ञानं तथोक्तमश्वशब्दे

५०

३ पृष्ठे जयदत्तकृतादश्वशास्त्रात्तद्विशेषोऽव गन्तव्यः। दन्ताद्वात्रिंशद्वर्षा इती ह क्तम्इत्थमायुश्च सदाचारादेव, अपथ्याजितेन्द्रियादिभ्यस्तु आ-युःसत्त्वेऽपि नाशः उक्तजातकपद्धतिवचनात् अतएव भा॰आनु॰ प॰

१०

४ अध्याये सदाचारादितएव आयवृद्धिरुक्ता
“शतायुरुक्त पुरुषः शतवीर्य्यश्च जायते। कस्मानिम्रयन्तेपुरुषा बाला अपि पितामह!। आयुष्मान् केन भवतिअल्पायुर्वाऽपि मानवः। केन वा लभते कीर्त्तिं केन वालभते श्रियम्। तपसा ब्रह्मचर्य्येण जपहीमैस्तथौषधैः। कर्म्मणा मनसा वाचा तन्मे ब्रूहि पितामह!। भीष्मउवाच। अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि। अल्पायुर्य्येन भवति दीर्घायुर्वाऽपि मानवः। येन वालभते कीर्त्तिं येन वा लभते श्रियम्। यथा वर्त्तयन्पुरुषः श्रेयसा सम्प्रयुज्यते। आचाराल्लभते चायुराचा-राल्लभते श्रियम्। आचाराल्लभते कीर्त्तिं पुरुषः प्रेत्यचेह च। दुराचारो हि पुरुषो नेहायुर्विन्दते महत्। यस्मात्त्रस्यन्ति भूतानि तथा परिभवन्ति च। तस्मात् कुर्य्या-[Page0789-b+ 38] दिहाचारं यदीच्छेद्भूतिमात्मनः। अपि पापशरीरस्यआचारो हन्त्यलक्षणम्। आचारलक्षणो धर्म्मः सन्तश्चा-रित्रलक्षणाः। साधूक्तञ्च यथा वृत्तमेतदाचारलक्षणम्। अप्यदृष्टं श्रवादेव पुरुषं धर्म्म चारिणम्। भूतिकर्माणिकुर्व्वाणं तं जनाः कुर्व्वते प्रियम्। ये नास्तिका निष्-क्रियाश्च गुरुशास्त्राभिलङ्घिनः। अधर्मज्ञा दुराचारास्तेचरन्ति गतायुषः। विशोका भिन्नमर्य्यादा नित्यं सङ्कीर्ण-मैथुनाः। अल्पायुषो भवन्तीह नरा निरयगामिनः। सर्व्वलक्षणहीनोऽपि समुदाचारवान्नरः। श्रद्धधानोऽन-सूयश्च शतं वर्षाणि जीवति। अक्रोधनः सत्यवादी भूता-नामविहिंसकः। अनसूयुरजिह्मश्च शतं वर्षाणि जीवति। लोष्टमर्द्दी तृणच्छेदो नखखादी च यो नरः। नित्यो-च्छिष्टः सङ्कशुको नेहायुर्व्वि न्दते महत्। ब्राह्मे मुहूर्त्तेबुध्येत धर्मार्थौ चानुचिन्तयेत्। उत्थायाचस्य तिष्ठेत पूर्ब्बांसन्ध्यां कृताञ्जलिः। एवमेवापरां सन्ध्यां समुपासीतवाग्यतः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन। नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्। ऋषयोनित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन्। तस्मात्तिष्ठेत्सदा पूर्ब्बांपश्चिमाञ्चैव वाग्यतः। ये न पूर्ब्बामुपासीरन्द्विजाः सन्ध्यांन पश्चिमाम्। सर्व्वांस्तान् धार्मिको राजा शूद्रकर्म्माणिकारयेत्। परदारा न गन्तव्याः सर्व्ववर्ण्णेषु कर्हिचित्। नहीदृशमनायुष्यं लोके किञ्चन विद्यते। यादृशं पुरुष-स्येह परदारोपसेवनम्। यावन्तो रोमकूपाः स्युः स्त्रीणांगात्रेषु निर्मिताः। तावद्वर्षसहस्राणि नरकं पर्य्युपासते। प्रसाधनञ्च केशानामञ्जनं दन्तधावनम्। पूर्ब्बाह्णएवकार्य्याणि देवतानाञ्च पूजनम्। पुरीषमूत्रे नोदीक्षेन्ना-धितिष्ठेत् कदाचन। नातिकल्यं नातिसायं न च मध्य-न्दिने स्थिते। नाज्ञातैः सह गच्छेत नैकोन वृषलैः सह। पन्थादेयो ब्राह्मणाय नीभ्यो राजभ्य एव च। वृद्धायभारतप्ताय गर्भिण्यै दुर्ब्बलाय च। प्रदक्षिणं प्रकुर्व्वीतपरिज्ञातान् वनस्पतीन्। चतुष्पथान् प्रकुर्र्व्वीत सर्व्वानेवप्रदक्षिणान्। मध्यन्दिने निशाकाले अर्द्धरात्रे च सर्व्व दा। चतुष्पथं न सेवेत उभे सन्ध्ये तथिव च। उपानहौ चवस्त्रञ्च धृतमन्यैर्न धारयेत्। ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत्। अमावास्या पौर्ण्णमास्यां चतुर्द्द-श्याञ्च सर्व्वशः। अष्टम्यां सर्वपक्षाणां व्रह्मचारी सदाभवेत्। । वृथा मांसं न खादेत पृष्ठमांसं तथैव च। आ-क्रोशं परिवादञ्च पैशुन्यञ्च विवर्ज्जयेत्। नारुन्तुदः स्यान्न[Page0790-a+ 38] मृशंसवादी न हीनतः परमभ्याददीत। ययाऽस्य वाचापर उद्विजेत न तां वदेदुषतीं पारलोक्याम्। वाक्-सायका वदजान्निष्पतन्ति तैराहतः शोचति रात्र्यहाणि। परस्य नो मर्म्मसु निष्पतन्ति तान् पाण्डितो नावसृजेत्परेषु। रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचादुरुक्तया विद्धं न संरोहति वाक्क्षतम्। कर्ण्णिनालिकानाराचान्निर्हरन्ति शरीरतः। वाक्शल्यस्तु न निर्हर्त्तुंशक्यो हृदिशयो हि सः। हीनाङ्गानतिरिक्ताङ्गान् विद्या-हीनान् विगर्हितान्। रूपद्रविणहीनांश्च सत्त्वहीनांश्चनाक्षिपेत्। नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम्। द्वेषस्तम्भाभिमानञ्च तैक्ष्ण्यञ्च परिवर्ज्जयेत्। परस्य दण्डंनोद्यच्छेत् क्रुद्धो नैनं निपातयेत्। अन्यत्र पुत्त्राच्छिष्याच्चशिष्टार्थं ताडनं स्मृतम्। न ब्राह्मणान् परिवदेत् नक्ष-त्राणि न निर्द्दिशेत्। तिथिं पक्षस्य न ब्रूयात्तथाऽस्या-युर्न रिष्यते। कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः। पादप्रक्षालनं कुर्य्यात् स्वाध्याये भोजने तथा। त्रीणिदेवाः पवित्राणि ब्राह्मणानामकल्पयन्। अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते। संयावं कृशरं मांसं शष्कुली-म्पायसन्तथा। आत्मार्थं न प्रकर्त्तव्यं देवार्थन्तु प्रकल्पयेत्। नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा। वाग्यतोदन्तकाष्ठञ्च नित्यमेव समाचरेत्। न चाभ्युदितशायीस्यात् प्रायश्चित्ती तथा भवेत्। मातापितरमुत्थाय पूर्ब्ब-मेवाभिवादयेत्। आचार्य्यमथ वाप्यन्यं तथायुर्व्विन्दतेमहत्। वर्ज्जयेद्दन्तकाष्ठानि वर्ज्जनीयानि नित्यशः। भक्षयेच्छास्त्रदृष्टानि पर्व्वस्वपि विवर्ज्जयेत्। उदङ्मुखश्चसततं शौचं कुर्य्यात् समाहितः। अकृत्वा पादशौचञ्चनाचरेद्दन्तधावनम्। अकृत्वा देवपूजाञ्च नाभिगच्छेत्कदाचन। अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्। अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः। न चाज्ञातांस्त्रियं गच्छेद्गर्भिणीं वाऽकदाचन। उदक्शिरा न स्वपेततथा प्रत्यक्शिरा न च। प्राकशिरास्तु स्वपेद्विद्वानथवादक्षिणाशिराः। न भग्ने नावशीर्णे च शयने प्रस्वपीत च। नान्तर्द्धाने न संयुक्ते न च तिर्य्यक्कदाचन। न चापिगच्छेत् कार्य्येण समयाद्वाऽपि नास्तिके। आसनन्तुपदाकृष्य न प्रसज्येत्तथा नरः। न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन। स्नात्वा च नावमृज्येत गा-त्राणि सुविचक्षणः। न चानुलिम्पेदस्नात्वा स्नात्वा वासोन निर्द्धुनेत्। न चवार्द्राणि वासांसि नित्यं सेवेत मानवः। [Page0790-b+ 38] स्रजश्च नावकृष्येत न बहिर्द्धारयीत च। उदक्यया चसंभाषां न कुर्व्वीत कदाचन। नोत्सृजेत पुरीषञ्च क्षेत्रेग्रामस्य चान्तिके। उभे मूत्रपुरीषे तु नाप्सु कुर्य्यात्कदाचन। अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः। भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्ज्जयेत्। प्राङ्मुखोनित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन्। प्रस्कन्दयेच्च मनसाभुक्त्वा चाग्निमुपस्पृशेत्। । आयुष्यं प्रङ्मुखो भुङ्क्ते यशसयंदक्षिणामुखः। धन्यं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उद-ङ्मुखः। अग्निमालभ्य तोयेन स र्व्वान् प्राणानुपस्पृशेत्। गात्राणि चैव सर्व्वाणि नाभिं प्राणितले तथा। नाधि-तिष्ठेत्तुषं जातु केशभस्मकपालिकाः। अन्यस्य चाप्यव-स्नातं दूरतः परिवर्ज्जयेत्। शान्तिहोमांश्च कुर्व्वीत सा-वित्राणि च धारयेत्। निषण्णश्चापि खादेत न तु गच्छन्कदाचन। मूत्रं नोत्तिष्ठता कार्य्यं न भस्मनि न गोव्रजे। आर्द्रपादस्तु भुञ्जीत नार्दपादस्तु संविशेत्। आर्द्रपादस्तुभुञ्जानो वर्षाणां जीवते शतम्। त्रीणि तेजासि नोच्छिष्टआलभेत कदाचन। अग्निं गां ब्राह्मणञ्चैव तथा ह्या-युर्न हीयते। त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदा-चन। सूर्य्याचन्द्रमसौ चैव नक्षत्राणि च सर्व्वशः। ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। अभ्यु-त्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते। अभिवादयेतवृद्धांश्च दद्याच्चैवासनं स्वयम्। कृताञ्जलिरुपासीत गच्छन्तंपृष्ठतोऽन्वियात्। न चासीतासने भिन्ने भिन्नकांस्यञ्च वर्ज्ज-येत्। नैकवस्त्रेण भोक्तव्यं न न्ग्नः स्नातुमर्हति। स्व-प्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत्। उच्छिष्टोन स्प्शेच्छीर्षं सर्व्वे प्राणास्तदाश्रयाः। केशग्रहं प्रहा-रांश्च शिरस्येतान् विवर्ज्जयेत्। न संहताभ्यां पाणिभ्यांकण्डूयेतात्मनः शिरः। न चाभीक्ष्णं शिरःस्नाया-त्तथाऽस्यांयुर्नरिच्यते। शिरःस्नातैश्च तैलैश्च नाङ्गं किञ्चि-दपि स्पृशेत् तिलभृष्टं न चाश्नीयात्तथाऽस्यार्नरि-ष्यते। नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन। वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत्। अत्र गाथायमोद्गीताः कीर्त्तयन्ति पुराविदः। आयुरस्य निकृन्तामिप्रजास्तस्याददे तथा य उच्छिष्टः प्रवदति स्वाध्यायञ्चाधि-गच्छति। यश्चानन्यायकालेऽपि मोहादभ्यस्यति द्विजः। तस्य वेदः प्रणश्येत आयुश्च परिहीयते। तस्नाद्युक्तोह्यनध्याये नाधीयीत कदाचन। प्रत्यादित्यं प्रत्यनलंप्रति गाञ्च प्रति द्विजान्। ये मेहन्ति च प्रन्थानं ते भवन्ति[Page0791-a+ 38] गतायुषः। उभेमूत्रपुरीषे तु दिवा कुर्य्यादुदङ्मुखः। दक्षिणा-भिमुखो रात्रौ तथा ह्यायुर्नरिष्यते। त्रीन् कृशान्नावजानी-याद्दीर्घमायुर्जिजीविषुः। ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्या-शीविषास्त्रयः। दहत्याशीविषः क्रुद्धो यावत् पश्यतिचक्षुषा। क्षत्रियोऽपिदहेत् क्रुद्धोयावत् पश्यति तेजसा। ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च। तस्मादेतत्त्रयंयत्नादुपसेवेत पण्डितः। गुरुणा चैव निर्ब्बन्धो न कर्त्तव्यःकदाचन। अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर!। सम्यङ्मिय्याप्रवृत्तेऽपि वर्त्तितव्यं गुराविह। गुरुनिन्दा-दहत्यायुर्म्मनुष्याणां न संशयः। दूरादावसथान्मूत्रंदूरात् पादावसेचनम्। उच्छिष्टोत्सर्ज्जनं चैव दूरे कार्य्यंहितैषिणा। रक्तमाल्यं न धार्य्यं स्यात् शुक्लं धार्य्यन्तुपण्डितैः। वर्ज्जयित्वा तु कमलं तथा कुवलयं प्रभो!। रक्तं शिरसि धार्य्यन्तु तथा वानेयमित्यपि। काञ्चनी-याऽपि माला या न सा दुष्यति कहिचित्। स्नातस्यवर्णकं नित्यमार्द्रं दद्याद्विशाम्पते!। विपर्य्ययं न कुर्व्वीतवाससो बुद्धिमान्नरः। तथा नान्यधृतं धार्य्यं न चापदश-मेव च। अन्यदेव भवेद्वासः शयनीये नरोत्तम!। अन्यद्रथ्यासु देवानामर्च्चायामन्यदेव हि। प्रियङ्गुचन्दना-भ्याञ्च विल्वेन तगरेण च। पृथगेवानुलिम्पेत केश-रेण च बुद्धिमान्। उपवासञ्च कुर्व्वीत स्नातः शुचिरल-ङ्कृतः। पर्व्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्। समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर!। आलीढया परि-वृतं न शयीत कदाचन। तथा नोद्धृतसाराणि प्रोक्षितं ना-प्रदाय च। न सन्निकृ{??} मेधावी नाशुचेर्न च सत्मू च। प्रतिषिद्धान्न धर्मेषु भक्ष्यान् भुञ्जीत पृष्ठतः। पिप्पलञ्चवटञ्चैव शणशाकं तथैव च। उडुम्बरं न खादेच्च भवार्थीपुरुषोत्तम!। आव्यं गव्यं तथा मांसं मायूरञ्चैव वर्ज्ज-येत्। वर्ज्जयेच्छुष्कमासिञ्च तथा पर्य्युषितञ्च यत्। नपाणौ लवणं विद्वान् प्राश्नीयान्न च रात्रिषु। दधि-सक्तून्न भुञ्जीत वृथामांसञ्च वर्ज्जयेत्। सायं प्रातश्चभुञ्जीत नान्तराले समाहितः। बालेन तु नभुज्ञीत पर-श्राद्धं तथैव च। वाग्यतो नैकवस्त्रश्च नासंविष्टः कदा-चनै। भूभौ सदैव नाश्नीयान्नानासीनो न शब्दवत्। तोयपूर्ब्बं प्रदायान्नमतिथिभ्यो विशेषतः। पश्चाद्भुञ्जीतमेधावी न चाप्यन्यमना नरः। समानमेकपङ्क्त्यान्तु भो-ज्यमन्नं नरेश्वर!। विषं हलाहलं भुङ्क्ते योऽप्रदाय सुहृ-ज्जने। पानीयं पायसं सक्तून् दधि सर्पिर्म्मधून्यपि। [Page0791-b+ 38] निरश्य शेषमेतेषां न प्रदेयन्तु कस्यचित्। भुञ्जानो मनु-जव्याघ्र! नैव शङ्कां समाचरेत्। दधि चाप्यनुपानं वै कर्त्त-व्यञ्च भवार्थिना। आचम्य चैकहस्तेन परिप्लाव्यं तथोद-कम्। अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्। पाणिंमूर्द्ध्नि समाधाय स्मृष्ट्वा चाग्निं समाहितः। ज्ञातिश्रैष्ट्य-मवाप्नोति प्रयोगकुशलो नरः। अद्भिः प्राणान् समालभ्यनाभिं पाणितले तथा। स्पृशंश्चैव प्रतिष्ठेत न चाप्या-र्द्रेण पाणिना। अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदा-हृतम्। कनिष्टिकायाः पश्चात्तु देवतीर्थमिहोच्यते। अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत!। तेन पित्र्याणिकुर्व्वीत स्पृष्ट्वापो न्यायतस्तथा। परापवादं न ब्रूयान्ना-प्रियञ्च कदाचन। न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवा-र्थिना। पतितैस्तु कथां नेच्छेद्दर्शनञ्च विवर्ज्जयेत्। संसर्गंन च गच्छेत तथायुर्विन्दते महत्। न दिवा मैथुनं गच्छेन्नकन्यां न च बन्धकीम्। न चास्नातां स्त्रियं गच्छेत्तथायु-र्व्विन्दते महत्। स्वे रो तोर्थे समाचम्य कार्य्ये समुप-कल्पिते। त्रिः पीत्वापो द्विः प्रमृज्य कृतशौ{??} भवेन्नरः। इन्द्रियाणि सकृत् स्पृश्य त्रिरभ्युक्ष्य च मानवः। कुर्व्वीतपित्र्यं दैवञ्च वेददृष्टेन कर्मणा। ब्राह्मणार्थे च यच्छौचंतच्च मे शृणु कौरव!। पवित्रञ्च हितञ्चैव भोजनाद्यन्त-योस्तया। सर्व्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत्। निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत्। वृद्धोज्ञातिस्तथा मित्रं दरिद्रो यी भवेदपि। गृहे वासयि-तव्यास्ते धन्यमायुष्यमेव च। गृहे पारावता धन्याः शुकाश्चसहसारिकाः। गृहेष्वेते तु पापाय तथा वै तैलपा-यिकाः। उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा। निवि-शेयुर्यदा तत्र शान्तिमेव तदाचरेत्। अमङ्गल्यानि चैतानितथोत्क्रोशा महात्मनाम्। महात्मनोऽतिगुह्यानि नवक्तव्यानि कर्हिचित्। अगम्याश्च न गच्छेत राज्ञः पत्नींसखीं तथा। वैद्यानां वालवृद्धानां भृत्यानाञ्चयुधिष्ठिर!। बन्धूनां ब्राह्मणानाञ्च तथा शारणिकस्य च। सम्बन्धिनाञ्च राजन्द्र! तथायुर्विन्दते महत्। ब्राह्मणस्थ-पतिभ्याञ्च निर्मितं यन्निवेशनम्। तदावसेत् सदा प्राज्ञोभवार्थी मनुजेश्वर!। सन्ध्यायां न स्वपेद्राजन्! विद्यांन च समाचरेत्। न भुञ्जोत च मेधाधी तथायुर्व्विन्दतेमहत्। नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम्। पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता। वर्ज्ज-नीयाश्च वै नित्यं सक्तवो निशि भारत!। शेषाणि चाव-[Page0792-a+ 38] दातानि पानीयञ्चापि भोजने। सौहित्यं न च कर्त्तव्यंरात्रौ न च समाचरेत्। द्विजच्छेदं न कुर्व्वीत भुक्त्वा नच समाचरेत्। महाकुले प्रसूताञ्च प्रशस्तां लक्षणैस्तथा। वयस्थाञ्च महाप्राज्ञः कन्यामावोडुमर्हति। अपत्यमुत्-पाद्य ततः प्रतिष्ठाप्य कुलं ततः। पुत्त्राः प्रदेया ज्ञानेषुकुलधर्मेषु भारत!। कन्या चोत्पाद्य दातव्या कुलपुत्रायधीमते। पुत्त्रा निवेश्याश्च कुलाद्वृत्त्या लभ्याश्च भारत!। शिरःस्नातोऽथ कुर्व्वीत दैवं पित्र्यमथापि वा। नक्षत्रेन च कुर्व्वीत यस्मिन् जातो भवेन्नरः। न प्रौष्ठपदयोःकार्य्यं तथाग्नेये च भारत!। दारुणेषु च सर्व्वेषु प्रत्यरिञ्चविवर्ज्जयेत्। ज्योतिषे यानि चोक्तानि तानि सर्व्वाणिभारत!। प्राङ्मुखः श्मश्रुकर्माणि कारयेत् सुसमाहितः। उदङ्मुखो वा राजेन्द्र! तथायुर्व्विन्दतेमहत्। परिवादंन च ब्रूयात्परेषामात्मनस्तथा। परिवादो ह्यधर्माय प्रोच्यतेभरतर्षभ!। वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम!। समार्षां व्यङ्गिताञ्चैव मातुः सकुलजां तथा। वृद्धां प्रव्र-जिताञ्चैव तथैव च पतिव्रताम्। अयोनिञ्च वियोनिञ्चन च गच्छेद्विचक्षणः। पिङ्गलां कुष्ठिनीं नारीं न त्वमा-वोढुमर्हसि। अपस्मारिकुले जातां निहीनाञ्चैव वर्जयेत्। श्वित्रिणाञ्च कुले जातां क्षयिणां मनुजेश्वर!। लक्षणै-रन्विता या च प्रशस्ता या च लक्षणैः। मंनोज्ञा दर्शनीयाच तां भवान् वोढुमर्हति। महाकुले निवेष्टव्यं सदृशेवा युधिष्ठिर!। अपरा पतिता चैव न ग्राह्या भूतिमिच्छता। आनीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः। वेदे चब्राह्मणैः प्रोक्तास्ताश्च सर्व्वाः समाचरेत्। न चेर्ष्या स्त्रीषुकर्त्तव्या रक्ष्या दाराश्च सर्व्वशः। अनायुष्या भवेदीर्ष्यातस्मादीर्ष्यां विवर्ज्जयेत्। अनायुष्यं दिवा स्वप्नं तथा-ऽभ्युदितशायिता। प्रगे निशामाशु तथा ये चोच्छिष्ठाःस्वपन्ति वै। पारदार्य्यमनायुष्यं नापितोच्छिष्टता तथा। यत्नतो नैव कर्त्तव्यमभ्यासश्चैव भारत!। सन्ध्यायां न चभुञ्जीत न स्नायान्न पठेत्तथा। प्रयतश्च भवेत्तस्यां न चकिञ्चित् समाचरेत्। ब्राह्मणान् पूजयेच्चापि तथा स्नात्वानराधिप!। देवांश्च प्रणमेत् स्नातो गुरूंश्चाप्यभिवादयेत्। अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः। अनर्चितेह्यनायुष्यंगमनं तत्र भारत!। न चैकेन परिव्रज्यं न गन्तव्यंतथा निशि। अनागतायां सन्ध्यायामातत्य च गृहे वसेत्। मातुः पितुर्गुरूणाञ्च कार्य्यमेवानुशासनम्। हितं वाऽ-प्यहितं वाऽपि न विचार्य्यं कथञ्चन। धनुर्वेदे च वेदे[Page0792-b+ 38] ऽथ यत्नः कार्य्यो नराधिप!। हस्तिपृष्ठेऽश्वपृष्ठे च रथच-र्य्यासु चैव ह। यत्नवान् भव राजेन्द्र! यत्नवान् सुख-मेधते। अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च। प्र-जापालनयुक्तश्च न क्षतिं लभते क्वचित्। युक्तिशास्त्रञ्चते ज्ञेयं शब्दशास्त्रञ्च भारत!। गान्धर्ब्बशास्त्रञ्चकलाः परिज्ञेया नराधिप!। पुराणमितिहासाश्चतथाख्यानानि यानि च। महात्मनाञ्च चरितंश्रोतव्यं नित्यमेव च। पत्नी रजस्वला या चनाभिगच्छेन्न चाह्वयेत्। स्नाताञ्चतुर्थे दिवसे रात्रौगच्छेद्विचक्षणः। पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत्। एतेन विधिना पत्नीमुपागच्छेत पण्डितः। ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्व्वशः। यष्टव्यञ्चयथाशक्ति यज्ञैर्विविधदक्षिणैः। अत ऊर्द्ध्वमरण्यञ्च सेवि-तव्यं नराधिप!। एष ते लक्षणोद्देश आयुष्याणां प्रकी-र्त्तितः। शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर!। आचारो भूतिजनन आचारः कीर्त्तिवर्द्धनः। आचाराद्व-र्द्धते ह्यायुराचारो हन्त्यलक्षणम्। आगमानां हि सर्वे-षामाचारः श्रेष्ठ उच्यते। आचारप्रभवो धर्मो धर्मादायु-र्विवर्द्धते। एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्। अनुकम्प्य सर्व्ववर्णान् ब्रह्मणा समुदाहृतम्”। अन्येचा-चारा आचारशब्दे

६३

० पृष्ठे उक्तास्तेऽपि आयुर्वृद्धिकराः। आयुःकालश्च स्वाभाविकः जीवभेदेन भिन्नः। तथा हि
“ब्रह्मणोवर्षशतमिति” श्रुतेः ब्रह्मणोनिजपरिमाणेनवर्षशतायुः तच्च” सि॰ शि॰ दर्शितम्
“चतुर्युगसहस्रेणब्रह्मणो दिनमुच्यते। निजेनैव तु मानेन आय-र्वर्षशतं स्मृतम्। तत् पराख्यं तदर्द्धं तु परार्द्धम-भिधीयते”
“सूर्य्याब्दसंख्यया द्वित्रिसागरैरयुताहतैःसंध्यासन्ध्यंशसहितं विज्ञेयं तच्चतुर्युगम्। इत्थंयुगसहस्रेण भूतसंहारकारकः। कल्पोब्राह्ममहःप्रोक्तं शर्वरी तस्य तावती। परमायुः शतं तस्यतयाहोरात्रमंख्यया” सू॰ सि॰। तेन सौरैः

४३

२०

००

० वर्षैः चतुर्युगं तेन सहस्रगुणितेन ब्राह्ममहः

४३

२०

००

०० ॰॰ रात्रिश्च तावतीति

८६

४०

००

०० ॰॰वर्षास्तस्याहोरात्रमानं तस्य

३६

० गुणने तस्य वर्षमानम्

३१

१०

४०

००

०० ॰॰॰ एतच्छतगुणितं तस्यायु र्मानम्अयमेव महाकल्पः
“शतायुः सदानन्द एवं प्रदिष्टस्त-दायुर्महाकल्प इत्युक्तमाद्यैः” सि॰ शि॰ उक्तेः। जैगी-षव्यस्य च दशमहाकल्पजीविता
“दशसु महाकल्पेषु[Page0793-a+ 38] विपरिवर्त्तमानेन मयेति” सा॰ कौ॰
“तद्वाक्यात् तेनब्राह्मायुःकाला दशगुणिताः”

३१

०४

४०

००

०० ॰॰॰॰॰॰तस्यायुः। अथ मनूनामायुःप्रमाणम्।
“युगानां सप्ततिःसैका मन्वन्तरमुदाहृतम्” सू॰ सि॰। चतुर्युगमानञ्च

४३

२०

००

० तच्च

७१ गुणितम्

३०

६७

२०

००

० सौरवर्षाःए-कैकमनूनामायुःकालः। मार्कण्डेयस्य सप्तकल्पान्तजोवितेत्युक्तेः

४३

२०

००

०० ॰॰ सप्तभिगुणितम्

३०

२४

००

००

० ॰॰तस्यायुः कालः। देवानामायुस्तु ब्राह्मदिनमानम्
“यदास देवो जागर्त्ति तदेदं चेष्टते जगत्। यदा स्वपितिशान्तात्मा तदा सर्वं निमीलति” सनूक्तेः ब्राह्मदिनपर्य्यन्तंतेषां स्थायित्वम्
“कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनांप्रभुः” इति मनुना कल्पादौ तेनैव तेषां स्रष्टृत्वोक्तेः प्रति-कल्पेऽपि तथैव स्रष्टृत्वमिति। एवं युगभेदेन नराणामायुर्भेदःमनुनोक्तः।
“अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः। कृतेत्रेतादिषु ह्येषामायुर्ह्रसति पादशः” तेन सत्ययुगे

४०

० वर्षाः। त्रेतायां

३०

० वर्षाः। द्वापरे

२०

० वर्षाः। कलौ शतंवर्षाः। पुराणान्तरे सत्यादिषु लक्षायुतसहस्रशतव-र्षायुष्ट्वोक्तिः मनुविरोधादग्राह्यैव। सत्कर्म्म भिस्तु प्राणा-यामतपस्यादिभिः रसायनादिभिश्चायुर्वर्द्धते तच्चायुर्वृद्धिशब्दे

७७

५ पृष्ठे उक्तम्। तेन दशरथादीनां दशवर्षसहस्रराज्य-करणं रामायणोक्तं सङ्गच्छते। सत्कर्म्माभिप्रायेणैवपुराणवचनं लक्षाद्यायुष्ट्वबोधकं मन्तव्यमिति तु युक्तम्। ततश्च जातकप॰ उक्तेः नरगजयोः,

१२

० वर्षाः। अश्वस्यदन्तसंख्यया।

३२ वर्षा वा। गोमहिषादेः

२४ वर्षाः खरो-ष्ट्रयोः

१५ वर्षाः। शुनः

१३ वर्षाः व्याघ्रादेः

१६ वर्षाःपरमायुः। तत्र नरस्य शतायुष्ट्वस्यश्रुत्युक्तावपि विंशोत्त-रीयविभार्गार्थमिह

१२

० वर्षोक्तिरिति बोध्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस्¦ n. (-युः) Age, duration of life. E. इ to go, उसि Una4di affix, the pen. lengthened.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस् [āyus], n. [इ-असि-णिच्च Uṇ.2.117]

Life, duration of life; दीर्घमायुः R.9.62,12.48; तक्षकेणापि दष्टस्य आयुर्मर्माणि रक्षति H.2.16; आयुर्वर्षशतं नृणां परिमितम् Bh.3.17, शतायुर्वै पुरुषः Ait. Br.; प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते सर्वमेव त आयुर्यान्ति Tait. Up.2.3.1

Vital power.

Food.

N. of a ceremony called आयुष्टोम performed to secure long life, together with the गो and ज्योतिस् part of the अभिप्लव ceremony. (In comp. the final स् of this word is changed to ष् before hard consonants, and to र् before soft ones). -Comp. -कर a. (-री f.) promoting long life; K.351. -काम a. wishing for long life or health. -कृत् a. giving or producing life.

द्रव्यम् a medicament.

ghee. -योगः N. of a योग in astronomy. -वृद्धिः f. long life, longevity.-वेदः [आयुरस्मिन् विद्यते$नेन वा आयुर्विंदतीत्यायुर्वेदः Suśr.] the science of health or medicine, counted as a sacred science, and regarded as a supplement to the Atharvaveda; (it comprises 8 different departments; (1) शल्यम् surgery; (2) शालाक्यम् diagnosis of diseases belonging to the head and its organs; (3) कायचिकित्सा treatment of diseases of the whole body; (4) भूतविद्या treatment of diseases of the mind supposed to be caused by the influence of evil spirits; (5) कौमारभृत्यम् treatment of children; (6) अगदतन्त्रम् doctrine of antidotes; (7) रसायनतन्त्रम् doctrine of elixirs; and (8) वाजीकरणतन्त्रम् treatment of remedies to increase generative power); Śukra.4.277. -वेददृश्, -वेदमय, -वेदिक, -वेदिन् a.

belonging to medicine.

acquainted with medical science, medical. m. a physician.

शेषः remainder of life; ˚शेषतया Pt.1; ˚जीवित Pt.4 being destined to live longer.

end or decline of life. -स्तोमः (आयुष्ठोमः) a sacrifice performed to obtain long life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस् n. life , vital power , vigour , health , duration of life , long life RV. AV. TS. S3Br. Mn. MBh. Pan5cat. etc.

आयुस् n. active power , efficacy RV. VS.

आयुस् n. the totality of living beings [food Sa1y. ] RV. ii , 38 , 5 and vii , 90 , 6

आयुस् n. N. of a particular ceremony(= आयुः-ष्टोमSee. )

आयुस् n. N. of a सामन्

आयुस् n. of the eighth lunar mansion

आयुस् n. food L.

आयुस् m. the son of पुरूरवस्and उर्वशी(See. आयु) MBh. Vikr. VP.

आयुस् m. ([See. Dor. ? ; perhaps also ?.])

आयुस् See. col. 1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀYUS I : Son of Purūravas and father of Nahuṣa.

1) Genealogy. Descending in order from Viṣṇu Brahmā- Candra-Budha-Purūravas-Āyus.

Āyus was born to Purūravas of Urvaśī. To Āyus was born of his wife Svarbhānavī Nahuṣa. (Śloka 24, Chapter 7, Ādi Parva, M.B.).

2) Birth of the son. See under Nahuṣa.

3) Other details. Āyus was a king who had acquired great power by penance. (Śloka 15, Chapter 296, Śānti Parva, M.B.).


_______________________________
*6th word in left half of page 96 (+offset) in original book.

ĀYUS II : One who was the king of frogs. Suśobhanā was the daughter of this frog-king. Suśobhanā was married to King Parīkṣit. For the interesting story of the marriage of a king with a frog see under Parīkṣit II.


_______________________________
*7th word in left half of page 96 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आयुस् न.
एक साम का नाम, पञ्च.ब्रा. 5.4.12, सा.वे. 1.4.37 पर। आयोगव (पु. अयोगव + अण्) वैश्य से उत्पन्न शूद्रा का पुत्र, युधि. पृ. 153 (अधिक जानकारी के लिए द्रष्टव्य ध.शा.का.

"https://sa.wiktionary.org/w/index.php?title=आयुस्&oldid=491155" इत्यस्माद् प्रतिप्राप्तम्